________________
वस्तुपालप्रबन्धः ।
११९
एवं भोजयित्वा परिधाप्य च रञ्जितो नागपुरसङ्घः । गतौ वस्तुपाल - पूनडौ श्रीशत्रुञ्जयं ससङ्घौ । वन्दितः श्रीऋषभः । एकदा स्नात्रे सति देवार्चको देवस्य नासां पिधत्ते पुष्पैः, किल कलशेन नासा' मा पीडीदित्याशयतः । तदा मन्त्रिणा चिन्तितम् - कदाचिद् 'दैवाद् देवाधिदेवस्य कलशादिना परचक्रेण वाऽवक्तव्यममङ्गलं भवेत् तदा का गतिः सङ्घस्य । इति चिन्तयित्वा पूनड आलेपेभ्रातः ! सङ्कल्पोऽयमेवं मे संवृत्तः । यदि बिम्बान्तरमस्य मम्माणीमयं क्रियते तदा सुन्दरम् । 5 तत्तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यान्नान्यथा । पूनडेनोक्तम्- ततः गतैश्चिन्तयिष्यतेऽदः । इत्यादि वदन्तौ रैवतादितीर्थान् वन्दित्वा व्यावृत्तौ तौ । गतः पूनडो नागपुरम् । मन्त्री धवलक्कके' राज्यं शास्ति ।
1
(१४४) एवं स्थितेऽन्येद्युः सुरत्राण मोजदीनमाता वृद्धा हजयात्रार्थिनी स्तम्भपुरमागता । नौवित्तगृहेऽतिथित्वेनास्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ताः श्रीमन्त्रिणा - रे 110 यदा इयं जलपथेन याति तदा मे ज्ञाप्या । गच्छन्ती ज्ञापिता तैः । मन्त्रिणा निजकोलिकान् प्रेष्य तस्याः सर्व कोटीम्बकस्थं वस्तु ग्राहितम् । सुष्ठु रक्षापितं च कचित् । तदा नौवित्तैः पूत्कृतं उपमनि-देव ! जरत्येकाऽस्मद्यूथ्या हजयात्रायै गच्छन्ती त्वत्पद्रे तस्करैर्लुण्ठिता । मन्त्रिणा पृष्टम्का सा जरती ? । तैरुक्तम्- देव! किं पृच्छसि ?, सा मोजदीन सुरत्राणमाता' पूज्या । मन्त्रिणा भणितं मायया- अरे ! वस्तु विलोकयत विलोकयत । [ दिनद्वयं विलम्ब्य *] आनीयार्पितं सर्वम् । जरसीं तु 15 स्वगृहे आनिन्ये । विविधा भक्तिः क्रियते । पृष्टा च किं हजयात्रेच्छा वः । तयोक्तम् - ओमिति । तर्हि दिन कतिपयान् प्रतीक्षध्वम् । प्रतीक्षां चक्रे सा । तावताऽऽरासणाश्मीयं' तोरणं घटापितम् । [आनायितं च *] मेलयित्वा विलोकितम् । पुनर्विघटितम् । रूतेन बद्धम् । सूत्रधाराः सह प्रगुणिताः, मनिता मन्त्रिणश्च । मार्गश्चान्तरे त्रिविधोऽस्ति । एको जलमार्गः, अपरः करभगम्यः, इतरश्च अश्वलङ्घयः । यत्र ये राजानः, योऽध्वा यथोल्लङ्घयते तथा सूत्रं कृतम् । राज्ञां उपदायै द्रव्याणि 20 प्रगुणीकृतानि । एवं सामग्र्या [स्वयं सह भूत्वा *] सा प्रहिता । तत्र रचितं तोरणं मसीतिद्वारे । तत्र दीपतैलादिपूजा चिन्ता तद्राजपार्श्वात् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदभूद् भूरि यशः । [ श्रीनाभेयपादुकास्थाने महामण्डपश्च तत्र । परमार्थतस्तीर्थमिदं श्रीऋषभपादुकामयं बाहुबलिना कृतम् । ततो ] व्यावृत्ता जरती । आनीता स्तम्भपुरम् । पुरप्रवेशमहः" कारितः । स्वयं तदंहिक्षालनं" चक्रे । एवं भक्त्या दिनदशकं स्थापिता [ खगृहे * ] । तावता धवलकिशोरशतपञ्चकं 25 अन्यदपि दुकूलगन्धराजकर्पूरादि गृहीतम् । वृद्धा प्रोक्ता - मातश्चलसि " । " यद्यादिशसि तत्र मानं च दापयसि तदाऽहमप्यागच्छामि [ तव सम्प्रेषणार्थम् * ] । तया भणितम् - तत्राहमेव प्रभुः । खैरमेहि । पूजा ते * तत्र [ बहुतरी * ] । श्रीवीरधवलानुमत्या चलितो मन्त्रिमहेन्द्रः । गतो ढिल्लीतटम् । राजमातृवचनात् कोशद्वये [Sar * ] तस्थौ । सुरत्राणः सम्मुखमागान्मातुः । माता प्रणता पृष्टा च सुखयात्राम्। जरत्या प्रोक्तम्-कथं न मे भद्रम् । यस्या ढिल्लयां त्वं 30 पुत्रः, गूर्जरधरायां तु वस्तुपालः । राज्ञा पृष्टम् - कोऽसौ ? । जरत्या वृत्तान्तः प्रोक्तस्तद्विन
1P नासां 2A 'दैवात्' नास्ति । 3P अश्ममम्माणी ० । । एतचिह्नान्तर्गताः पंक्तयः V आदर्शे नोपलभ्यन्ते सर्वथा; तत्स्थाने 'अव्यक्तदैवात्' इत्येव वाक्यांशो दृश्यते । 4P स्तम्भतीर्थे । 5 P तैस्तथा कृतम् । गच्छन्ती ज्ञापिता । 6 AB मोजदीनमाता । 7 P आरासणे आख्यीयं । 8 AP नास्ति 'मन्त्रिताः '; V स्वसेवकाः । 9A मशीति० । पंक्तिः प्राप्यते । 10 P प्रवेश० । SV आदर्श एवैषा 11 AB • क्षालने । 12 A चलामि । 13 AB यथा० । 14 AP पूज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org