________________
११८
प्रबन्धकोशे
ततः परिधापितः । विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः । द्रम्मेण पुष्पं लभ्यते । [ तदवसरेऽपि* ]। एवं पुष्पस्रग्व्ययो लोकैः कृतः ।
६१४३) इतश्च नागपुरे साधुदेहासुतः सा० पूनः श्रीमोजदीनसुरत्राणपत्नीबीबी' प्रतिपन्नबान्धवो अश्वपति- गजपति - नरपतिमान्यो विजयते । तेन प्रथमं श्रीशत्रुञ्जये यात्रा त्रिसप्तत्य5धिकद्वादशशतवर्षे (१२७३) बम्बेरपुरात् विहिता । द्वितीया सुरत्राणादेशात् षडशीत्यधिके द्वादशशतसङ्ख्ये (१२८६ ) वर्षे नागपुरात्कर्त्तुमारब्धा । [ तत्सङ्घ * ] अष्टादशशतानि शकटानि, बहवो महाधराः । [ तदनुसारेण शेषः परिवारः * ।] कुमारने ना' सहितो माण्डलिपुरं' यावदायातः [ससङ्घः* ] । ततः सम्मुखमागत्य महन्तकतेजःपालेन' धवलक्ककमानीतः । श्रीवस्तुपालः सम्मुखमागात् । सङ्घस्य धूली पवनानुकूल्याद् यां यां दिशमनुधावति, तत्र तत्र स 10 गच्छति । 'तटस्थैर्भणितम्-मन्त्रीश! इतो रजः, इतो रजः । इतः पादोऽवधार्यताम् । ततः सचिवेन भणे - इदं रजः स्प्रष्टुं पुण्यैर्लभ्यते । अनेन रजसा स्पृष्टेन "पापरजांसि दूरे नश्यन्ति । यतः
25
३०७. श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बम्भ्रमवतो न भवे भ्रमन्ति ।
ततः सङ्घपतिपूनड- मन्त्रिणोर्गाढमालिङ्गन- प्रियालापौ संवृत्तौ । सरस्तीरे स्थितः सङ्घः " । 15 fपूनडः कुलगुरुमल धारिश्रीनरचन्द्रसूरिपादान् ववन्दे । । रात्रौ श्रीवस्तुपालेन कथापितं पूनडाय पुण्यात्मने - प्रातः "सर्वसङ्घनास्मद्रसवत्यतिथिना युष्मता च भवितव्यम्" । धूमो न कार्यः खावासेषु" । पूनडेन तथेति " प्रतिपन्नम् । रात्रौ मण्डपो द्विद्वारो रसवतीप्रकाराश्च सर्वे निष्पन्नम् । [भोजनमण्डपे *] प्रातरायान्ति नागपुरीयाः । सर्वेषां चरणक्षालनं तिलकरचनां च श्रीवस्तुपालः स्वहस्तेन करोति । एवं लग्ना द्विप्रहरी । मन्त्री तु तथैवानिर्विण्णः । तदा तेजःपालेन विज्ञप्तम्20 अन्यैरपि देव ! वयं सङ्घपदप्रक्षालनादि करिष्यामः, भुंग्ध्वम्, तापो भावी इति । "मनिनरेन्द्रेणोक्तम् - मैवं वदत" | पुण्यैरयमवसरो लभ्यते । गुरुभिरपि कथापितम्
३०८.
द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः पूज्या भवन्ति जगदीशमथार्चयन्तः ॥ ७० ॥
यस्मिन् कुले यः पुरुषः प्रधानः, स एव यत्नेन हि रक्षणीयः । तस्मिन् विनष्टे हि कुलं विनष्टं, न नाभिभङ्गे त्वरका वहन्ति ॥ ७१ ॥ मन्त्रिणा पत्री गुरुभ्यः प्रैषि, तत्र काव्यम्३०९. अद्य मे फलवती पितुराशा, मातुराशिषि शिखाऽङ्कुरिताऽद्य । यद् युगादिजिनयात्रिकलोकं, पूजयाम्यहमशेषमखिन्नः ॥ ७२ ॥
भोजयता मन्त्रिणा नागपुरीयाणामेकपङ्गित्वं दृष्ट्वा शिरो धूनितम् । अहो ! शुद्धा लोका एते ।
तस्माद् भोक्तव्यं भवद्भिः, तापो मा भूद्" ।
Jain Education International
1 P बीबी प्रेमकमला; V बीबी हूरा० । 2 P विक्रमात् १२७२ वर्षे । 3 A वासरे; BED वच्छरे; V बंध्वेर०; P बिम्बेरपुरात् कृता । * P पुस्तक एव कोष्टकगताः पाठाः लभ्यन्ते । 4 BED कुमारतेना । tt P पुस्तके नास्तीदं वाक्यम् । 5 P मांडलिग्रामreat | 6 P तावत् । 7 P तेजःपालमन्त्रिणा । 8AB नास्ति 'स' | 9 P तटस्थनरैः । 10 A वृजिन० । + P विहायान्यत्र नोपलभ्यते पद्यमिदम् । 11 AB नास्ति 'संघः' । +P नास्ति वाक्यमिदम् । 12 V आदर्श एव लभ्यते पदमिदम् । P पुस्तके 'सर्वसङ्घनास्मदावाले भोक्तव्यम् ;' V सर्वसंघेन भवता युष्मता चास्मद्रसव ० । 13 AB तथेत्याहतम् । SP देव अन्यैरपि संघभक्तिः कारयिष्यते । 14 P ' मन्त्री भणति' इत्येव । 15 P वादीः । 16P नास्ति । $ P मन्त्रिणा गुरून् प्रति पुनरिदं काव्यं प्रहितम् ।
For Private & Personal Use Only
www.jainelibrary.org