________________
वस्तुपालप्रबन्धः।
११७
३०४. वस्तुपाल! तव पर्वशर्वरीगर्वितेन्दुकरजित्वरं यशः ।
क्षीरनीरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥ ६७॥ एवं भावं सम्पूर्य देवोत्तमं श्रीनेमिनाथमापृच्छय सर्वास्तीर्थचिन्ताः'कृताः। निर्माल्यपदं दत्त्वा पर्वतादुदतारीत्, न सतां हृदयात् नापि महत्त्वात् ।
६१४१) अथ खङ्गारदुर्गादि-देवपत्तनादिषु देवान् ववन्दे । तेजःपालं खङ्गारदुर्गे स्थापयित्वा स्वयं 5 ससङ्घो वस्तुपाल: श्रीधवलक्कके श्रीवीरधवलमगमत् । खागतप्रश्नः स्वामिना कृतः। आरम्भसिद्धिप्रश्नश्च । ततो मच्याह
३०५. कामं स्वामिप्रसादेन प्रेष्याः कर्मसु कर्मठाः । तद् वैभवं बृहद्भानोः क्वचिदूष्मा जलेऽपि यत् ॥ ६८ ॥ राणकेन ससङ्घः सचिवः खसदने भोजितः, परिधापितः, स्तुतश्च ।
तेजापालस्तु खङ्गारदुर्गस्थो भूमि विलोक्य तेजलपुरममण्डयत् सत्रारामपुरप्रपाजिनगृहादि-10 रम्यम् । प्राकारश्च तेजलपुरं परितः कारितः पाषाणबद्धस्तुङ्गः।
६१४२) अथ वस्तपाल श्रीवीरधवलपार्श्वे सेवां विधत्ते । देशः सस्थः। धर्मो वर्तते । एवं सत्येकदा दिल्लीनगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्त:-देव! ढिल्लीतः श्रीमोजदीनसुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य चलितम् । चत्वारि प्रयाणानि व्यूढम् । तस्मात्सावधानः स्थेयम् । मन्ये अर्बुददिशा गूर्जरधरां प्रवेष्टा । मन्त्रिणा सत्कृत्य ते चरा राणपार्श्व नीताः। कथापितः स प्रबन्धः। 15 ततो राणकेनाभाणि-वस्तुपाल ! म्लेच्छैगर्दभिल्लो गईभीविद्यासिद्धोऽप्यभिभूतः। नित्यं सूर्यविम्बनिर्यतुरङ्गमकृतराजपाटीकः शिलादित्योऽपि पीडितः । सप्तशतयोजनभूनाथो जयन्तचन्द्रोऽपि क्षयं नीतः। विंशतिवारबद्धरुद्ध सहावदीनसुरत्राणमोक्ता पृथिवीराजोऽपि बद्धः । तस्माद् दुर्जया अमी। किं कर्ताऽसि ?। वस्तुपाल उवाच-खामिन् ! प्रेषय माम् , यदुचितं तत्करिष्यामि । ततः साराश्वलक्षेण सह चलितो मन्त्री। तृतीये प्रयाणे महणदेवीं कपूरादिमहापूजापूर्वे सस्मार। सा 20 तद्भाग्यात्प्रत्यक्षीभूयोवाच-वत्सक ! मा भैषीः । अर्बुदगिरिदिशा यवनाः प्रवेक्ष्यन्ति । तव देशं यदाऽमी प्रविशन्ति तदैव तल्लंघिता घटिकाःस्वराजन्यै रोधयेथाः। तेऽथ*] यत्रावासान् गृह्णन्ति, तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं ढौकेथाः। जयश्रीस्तव करपङ्कजे एव । इदं श्रुत्वा धारावर्षायाव॑दगिरिनायकाय स्वसेवकाय नरान् प्रेषयत् । अकथापयच्च-म्लेच्छसैन्यमबुंदमध्ये भूत्वा आजिगमिषदास्ते । त्वमेतानागच्छतो मुक्त्वा पश्चाद् घट्टिका रुन्ध्याः । तेन तथैव कृतम् । 25 प्रविष्टा यवनाः । यावदावासान् ग्रहीष्यन्ति तावत्पतितो वस्तुपालः कालः। हन्यन्ते यवनाः । उच्छलितो वुम्बारवः। केचिद्दन्तान्तरं अङ्गुली गृहन्ति; अपरे तु तोबां कुर्वन्ति । तथाऽपि न च्छुटन्ति । एवं तान् हत्वा तच्छीर्षलक्षः शकटानि भृत्वा धवलक्कमेत्य मन्त्री स्वस्वामिनं प्रत्यदर्शयत् । श्लाघितश्च तेनायम् । ३०६. न ध्वानं तनुषे न यासि विकटं नोच्चैर्वहस्याननं, दोन्नोलिखसि क्षितिं खरपुटै वज्ञया वीक्ष्यसे। 30
किन्तु त्वं वसुधातलैकधवल ! स्कन्धाधिरूढे भरे, तीर्थान्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥ ६९ ॥ 1P सर्वासां तीर्थचिन्ताकृताम् । 2 P तेजःपालोऽपि। 3 P अर्बुदमध्ये भूत्वा। 4 P .बद्धसहावदीन. 5 B महणक०, P महणल। 6A तदैतलंधिताः। 7PB 'तु' नास्ति । 8V न तु। 9AB 'प्रति' नास्ति । 10 A ध्वानंतमुखेन ।
Jain Education Intemational
ation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org