________________
प्रबन्धकोशे
२९८. त्वत्प्रासादकृते नीडे वसन् शृण्वन् गुणांस्तव । सङ्घदर्शनतुष्टात्मा भूयासं विहगोऽप्यहम् ॥ ६१ ॥ २९९. यदाये द्यूतकारस्य यत्प्रियायां वियोगिनः । यद्राधावेधिनो लक्ष्ये तद् ध्यानं मेऽस्तु ते मते ॥ ६२ ॥ इत्याद्यकवत् । एवं सद्योऽपि चलितः। ससङ्घः सचिवः मरुदेवाशिखरादग्रे यावत् कियदपि याति, तावत् श्रमवशविगलत्खेदक्लिन्नगात्रवसनान् कत्यपि मालिकान् पुष्पकरण्डकभारितशिर5 सोऽपश्यत्। पृष्टास्ते-कथमुत्सुका इव यूयम् ? । तैर्विज्ञप्तम्-देव ! वयं दूरात् पुष्पाण्याहार्मः। सङ्घः किल शत्रुञ्जयशिखरेऽस्ति; प्रकृष्टं मूल्यं लप्स्यामहे । तत्पुनरन्यथा जातम् । सङ्घश्वलितः। तस्मादभाग्या वयमिति । तेषां दैन्यं दृष्ट्वा मत्रिणाऽभाणि-अत्रैव स्थीयतामूःक्षणम् । तावता पाश्चात्यं सर्वमप्यायातम् । श्रीवस्तुपालेन खकुटुम्बं सङ्घश्वाभाण्येताम् । यथा-भो धन्याः!
सर्वेषां पूर्णस्तीर्थवन्दनापूजाभिलाषः। लोकेनोक्तम्-[भवत्प्रसादात्*] पूर्णः। मच्याह-किमपि 10 तीर्थमपूजितं स्थितम् [अस्ति* ] ? लोकः प्राह-प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि ।
मनिमहेन्द्रः प्राह-यद्विस्मृतं तन्न जानीथ यूयम् , वयं स्मारयामः । सङ्घो वदति-किं विस्मृतम् । [तत्कथयन्तु*] मन्त्री गदति-भो लोकाः ! पूर्व तीर्थमयं पर्वतः । यत्र स्वयमृषभदेवः समवासापीत् । ततो नेमिवर्जिता द्वाविंशतिर्जिनाः समवासार्दुः। असङ्ख्याः सिद्धाश्च यत्र।सोऽद्रिः कथं न
तीर्थम् । लोकोऽप्याह-सत्यं तीर्थमयं पर्वतः।तर्हि पूज्यताम् । पुष्पादीनि केति चेत् [अकथयिष्यन् 15 तदा*] इमे मालिका इमानि पुष्पाणि वः पुण्यैरुपास्थिषतेति । ततः सङ्घन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता । [ द्रम्मेण पुष्पं जातम्* ] नालिकेरास्फालन-वस्त्रदानादिकेलयश्च । तुष्टा मालिकाः। एवं पराशाभङ्गपराङ्मुखः आसराजभूः। ___६१४०) [तता* ] शनैः शनैः पशु-तुरङ्ग-शिश्वाद्यपीडया सङ्घो रैवतकमारुरोह च । नेमिनि
दृष्टे मन्त्री ननर्त, पपाठ च आनन्दाश्रुनिर्झरिताक्ष:20 ३००. कल्पद्रुमस्तरसौ तरवस्तथाऽन्ये, चिन्तामणिमणिरसौ मणयस्तथाऽन्ये ।
धिग् जातिमेव ददृशे बत यत्र नेमिः, श्रीरैवते स दिवसो दिवसास्तथाऽन्ये ॥ ६३॥ ३०१. अभङ्गवैराग्यतरङ्गरौं, चित्ते त्वदीये यदुवंशरत्न !।
कथं कृशाङ्योऽपि हि मान्तु हन्त, यस्मादनकोऽपि पदं न लेभे ॥ ६४ ॥ तत्राऽप्यष्टाहिकादिविधिःप्रागिव । नाभेयभवनकल्याणत्रय-गजेन्द्रपदकुण्डान्तिकप्रासाद-अ25 म्बिका-शाम्ब-प्रद्युम्नशिखरतोरणादिकीर्तनदर्शनैर्मनी सङ्घश्व नयनयोः स्वादुफलमार्पिपताम् । आरात्रिकेऽर्थिनां ससम्भ्रमं मन्त्रिमध्ये झम्पापनं दृष्ट्वा श्रीसोमेश्वरश्वकवे३०२. इच्छासिद्धिसमन्विते सुरगणे कल्पद्रुमैः स्थीयते, पाताले पवमानभोजनजने कष्टं प्रणष्टो बलिः ।
नीरागानगमन् मुनीन् सुरभयश्चिन्तामणिः क्वाप्यगात्, तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥६५॥ लक्षः सपादोऽस्य दत्तौ मन्त्रिणः । दानमण्डपिकायां निषण्णो निरर्गलं [दानं* ] ददद् एवं 30 स्तुतः केनापि [कविना*]३०३. पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वस्था नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः ।
___ वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जलाः, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ॥६६॥ ___ 1 P इत्याद्यकथयत् ; A इत्याद्येकवत् ; V इत्याद्यपठत् । 27 वृत्तम्। 3 P आभाण्यताम् । 4 P त्रयोविंशतिः । 5 P संघस्य । 6A झम्पापतनं। 7A सोमेश्वरस्य कवे; P सोमेश्वरकविः प्राह। 8 P समुन्नते।
.
Jain Education Intemational
For Private & Personal Use Only
ducation Intermational
www.jainelibrary.org
For Private & Personal Use Only