Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 90
________________ सातवाहनप्रबन्धः। वर्तमानं निधिकलशचतुष्टयं युष्माभिर्यथाज्येष्ठं विभज्य ग्राह्यम् , येन भवतां निर्वाहः सम्पनीप. द्यते । पुत्रैस्तु तथेत्यादेशः खीचक्रे पितुः । तस्मिन्नुपरते तस्यौदेहिकं कृत्वा त्रयोदशेऽहनि भुवं खात्वा यथायथं चतुरोऽपि निधिकलशास्ते जग्रहिरे।यावदुद्घाट्य विलोकयन्ति तावत्प्रथमस्य कुम्भे कनकम् , द्वैतीयीकस्य कृष्णमृत्स्ना, तृतीयस्य बुशम् , तुरीयस्य त्वस्थीनि ददृशिरे। तदनु ज्यायसा साकमितरे त्रयो विवदन्ते स्म-तदस्मभ्यमपि विभज्य कनकं वितरेति । तस्मिंश्चावितरति सति । तेऽवन्तिपतेर्द्धर्माधिकरणमुपास्थिषत । तत्रापि न तेषां वादनिर्णयः समपादि । ततश्चत्वारोऽपि ते महाराष्ट्रजनपदमुपानंसिषुः । सातवाहनकुमारस्तु कुलालमृदा हस्तिरथसुभटानन्वहं नवनवान् विदधानः कुलालशालायां बालक्रीडादुर्ललितः कलितस्थितिरनयत् समयम् । ते च द्विजतनुजाः प्रतिष्ठानपत्तनमुपेत्य परतो भ्रमन्तस्तस्यामेव चक्रजीविनः शालायां तस्थिवांसः। सातवाहनस्तु तानवेक्ष्येगिताकारकुशलःप्रोवाच-भो विप्राः! किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते । 10 तैस्तु जगदे-जगदेकसुभग! कथमिव वयं चिन्ताचान्तचेतसस्त्वयाऽज्ञासिष्महि । कुमारेण बभणे-इङ्गितैः किमिव नावगम्यते । तैरुक्तम्-युक्तमेतत् । परं भवतः पुरो निवेदितेन चिन्ताहेतुना किं स्यात् ? । बालः खलु भवान् । बाल आलपत्-यदि परं जातु मत्तोऽपि साध्यं वः सिध्यति, तन्निवेद्यतां स चिन्ताहेतुः । ततस्ते तद्वचनवैचित्रीहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिरयणादि मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः । कुमारस्तु स्मित-15 विच्छुरिताधरोऽवादीद्-भो विप्राः! अहं यौष्माकं झगटकं निर्णयामि, श्रूयतामवहितैः । यस्मै वप्ता कनककलशं प्रददे, स तेनैव निवृत्तोऽस्तु । यस्य कलशे कृष्णमृत्स्ना निरगात् स क्षेत्रकेदारादीन गृह्णातु । यस्य तु बुशं स कोष्ठागारगतधान्यानि सर्वाण्यपि स्वीकुरुताम् । यस्य चास्थीनि निरगुः सोऽश्वमहिषीदासीदासादिकमुपादत्ताम्-इति युष्मजनकस्याशयः। इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाः छिन्नविवादाः तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययः स्वां नगरीम् । प्रथिता 20 सा तद्विवादनिर्णयकथा पुर्याम् । राज्ञाप्याकार्य ते पर्यनुयुक्ताः-किं नु भो! भवतां वादनिर्णयो जातः ? । तैरुक्तम्-आम" खामिन् ! । केन निर्णीतः ?-इति नृपेणोदिते ते सातवाहनस्वरूपं सर्वमवितथमकथयन् । ६८६) तदाकर्ण्य तस्य शिशोरपि बुद्धिवैभवं विभाव्य, प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने राज्यं च भविष्यतीत्यनुस्मृत्य तं खप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणौपयिकमचिन्तयत् चिरं-5 नरेश्वरः । "अभिमरादिप्रयोगैारिते चास्मिन्नयशा-क्षात्रवृत्तिक्षती जायेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहोऽवन्तिपतिः प्रस्थाय प्रतिष्ठानपत्तनं यथेष्टमवेष्टयत् । तदवलोक्य ते ग्राम्यास्त्रस्ताश्चिन्तयन्ति स्म-कस्योपरि अयमेतावानाटोपः सकोपस्य मालवेशस्य ? । न तावदत्र राजा राजन्यो वा वीरस्तादृग् दुर्गादि वा!-इति चिन्तयत्सु तेषु मालवेशप्रहितो दूतः समेत्य सातवाहनमवोचत्-भो कुमारक ! तुभ्यं नृपः क्रुद्धः। प्रातस्त्वां मारयिष्यति । अतो युद्धाय" 30 चिन्तनावहितेन भवता भाव्यमिति । स च श्रुत्वाऽपि "दूतोक्तं निर्भयं निरन्तरं क्रीडन्नेवास्ते । ___1 P खनित्वा। 2A द्वैतीयकस्य । 3 P धर्माधिकारिणः। 4 'ते' नास्ति P। 5 P .दुर्ललितकलितः। 6 P त्वया ज्ञाताः। 7 P वैचित्र्यः। 8P निर्गमनादि। 9A निर्णय ते। 10 P छिन्नवादाः। 11 P ओम्। 12 A भविप्यदनुस्मृत्य; E भविष्यत्यनु०। 13 मारणोपायः। 14 BE अभिघातकनरादि०; P अभिघातकरादि। 11 P युद्धाधुपाय० । 15 E श्रुत्वापि न दूनो; P श्रुत्वापि दूतोक्कीः। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176