Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 108
________________ नागार्जुनप्रबन्धः । पश्यति। अष्टापदादितीर्थानि नमस्कृत्य स्वस्थानमुपागतानां तेषां पादौ प्रक्षाल्य, सप्तोत्तरशतमहौषधीनामावादेन वर्णगन्धादिभिर्नामानि निश्चित्य, गुरूपदेशं विनापि पादलेपं कृत्वा कुर्कुटपोत इवोत्पतन्नवटतटे निपतितः। व्रणजर्जरिताङ्गो गुरुभिः पृष्टः-किमेतदिति ? । तेन यथास्थिते प्रोक्ते तस्य कौशल्येन चमत्कृतचित्ता आचार्यास्तस्य शिरसि पद्महस्तं दत्त्वा भणन्ति-पष्टिकतन्दुलोदकेन तान्यौषधानि वर्तयित्वा पादप्रलेपं कृत्वा गगने गरुड इव स्वैरं व्रजेः। ततस्तां सिद्धिं 5 प्राप्य परितुष्टोऽसौ ननर्त्त । पुनरपि कदाचिद् गुरुमुखादाकर्णयति, यथा-रससिद्धिं विना दानेच्छासिद्धिर्न भवति ।ततो रसं परिकर्मयितुं प्रवृत्तः । खेदन-मर्दन-जारण-मारणानि चक्रे । रसस्तु स्थैर्य न बध्नाति । ततस्तु गुरून् पप्रच्छ-कथं रसः स्थैर्यमाबधाति ? । गुरवः प्राहुर्यथा-दुष्टदैवतनिर्दलनसमर्थायां श्रीपार्श्वनाथस्य दृशि साध्यमानः, सर्वलक्षणोपलक्षितया महासत्या योषिता च मृद्यमानो रसः स्थिरीभूय कोटिवेधी भवति । तच्छ्रुत्वा स पार्श्वनाथप्रतिमां'समहिमामन्वेष-10 यितुमारेभे । [ परं तादृशीं न कापि पश्यति ।] ६१०२) इतश्च नागार्जुनेन खपिता वासुकिात्वा प्रत्यक्षीकृतः, पृष्टश्च-श्रीपार्श्वनाथस्य दिव्यकलानुभावां प्रतिमां कथय। तेनावाचि-द्वारवत्यांसमुद्रविजयदशाहेण श्रीनेमिनाथमुखान्महातिशयसम्पन्ना ज्ञात्वाश्रीपार्श्वस्य प्रतिमा प्रासादे स्थापयित्वा पूजिता।द्वारवत्या दाहानन्तरं समुद्रेण प्लाविता सा प्रतिमा तथैव समुद्रमध्ये स्थिता । कालेन कान्तीवासिनो धनपतिनामकस्य सांया-15 त्रिकस्य यानपात्रं देवताऽतिशयात् स्खलितम् । अत्र जिनबिम्बं तिष्ठतीत्यदृष्टवाचा निश्चित्य नाविकांस्तत्र निक्षिप्य सप्तभिरामसूत्रतन्तुभिर्वद्धोधृता प्रतिमा । निजनगर्यां नीत्वा प्रासादे स्थापिता । चिन्तितातिरिक्तलाभप्रहृष्टेन पूज्यते प्रतिदिनम् । ततः सर्वातिशायि तद्विम्ब ज्ञात्वा नागार्जुनेन रससिद्धिनिमित्तमपहृत्य सेडीनद्यास्तटे स्थापितम् । तस्य पुरतो रससाधनार्थ सातवाहनस्य राज्ञी चन्द्रलेखाभिधां महासतीं देवीं सिद्धव्यन्तरसान्निध्येनानाय्य प्रतिनिशं रसम-20 ईनं कारयति । एवं तत्र भूयो भूयो गतागते तया बान्धव इति प्रतिपेदेऽसौ । सा तेषामौषधानां मईनकारणं पृच्छति । स च कोटीवेधस्य रसस्य वृत्तान्तं सत्यं कथयति । अन्यदा द्वयोर्निजपुत्रयोस्तया निवेदितं यथा-सेडीनदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति । तौ रसलुब्धौ निजराज्यं मुक्त्वा नागार्जुनान्तिकमागतौ । कैतवेन तं रसं जिघृक्ष प्रच्छन्नवेषौ यत्र नागार्जुनो जेमति तस्य गृहस्य परिसरे भ्रमतः। रन्धनीमालपतः-त्वं नागार्जुनाय रसवती लवणबहुलां कुर्याः 125 यदा तां रसवती क्षारां कथयति, तदाऽस्मभ्यं वदेः । साऽप्योमिति प्रतिशुश्राव । अथ सा तज्ज्ञानार्थं तदर्थ सलवणां रसवतीं साधयति । षण्मास्यामतिकान्तायां रसवती तेन क्षारेति दूषिता । रन्धन्या च राजपुत्रयोरग्रे गदितम् । अद्य क्षारत्वं जज्ञे नागार्जुनेन । ताभ्यामपि तस्य रससिद्धिनिश्चिक्ये । अथ तौ तस्य वधोपायं ध्यायतः पृच्छतश्च लोकं तज्ज्ञम् । पृच्छद्भ्यां ज्ञातं यथा-वासुकिना एवास्य दर्भाङ्करान्मृत्युः कथितोऽस्ति । नागार्जुनेन सिद्धस्य शुद्धस्य रसस्य 30 कुतपो द्वौ भृतौ ढङ्कपर्वतस्य गुहायां क्षिप्तौ । पृष्टचराभ्यां ताभ्यां ज्ञातौ । मुक्त्वा वलमानो नागार्जुनस्ताभ्यां संमुखस्थो दर्भाङ्कुरेण जघ्ने । मृतः सद्यः। 1P पादलेपं। 2 ABE प्रतिष्टोऽसौ। 3 BP रसं। 4 ABE नास्ति 'समहिमां'। * P पुस्तक एवं एप कोष्ठकगतः पाठो दृश्यते। 5 AB श्रीपार्श्वस्य । 6P स्थापिताऽस्ति। 7A चिन्तातिः। 8 P नागार्जुगो। 9 P अतिष्ठिपत् । 10 'अस्मभ्यं नास्ति ABI Jain Education International For Private & Personal Use Only www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176