Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 125
________________ 10 १०२ प्रबन्धकोशे माचरताम् । मन्त्रिवलं विना न किञ्चिद् राज्यपरिकर्मणम् । मन्त्रिणौ च यौ भवतोरग्रे प्रतिपादितौ देव्या, तावत्रागतौ स्तः । मम मिलितौ। राजसेवार्थिनी, द्वासप्ततिकलाविदुरौ, न्यायनिष्ठौ, जैनधर्मज्ञौ स्तः । यद्यादेशः स्यात् , तदाऽऽनीयेते । राणकादेशात्पुरोहितेन सद्य आनीती, नमस्कारितो, आसनादिप्रतिपत्त्या गौरवितौ । उक्तौ च श्रीलवणप्रसादादेशाद्वीरधवलेन स्वयम् २४०. आकृतिर्गुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसङ्क्रमः संयमश्च युवयोर्वयोऽधिकः ॥ ३॥ २४१. श्लाघ्यतां कुलमुपैति पैतृकं स्यान्मनोरथतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः स्वामिनां च पुरुषैर्भवादृशैः ॥ ४ ॥ २४२. यौवनेऽपि मदनान्न विक्रिया नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं केन वामिति नवाकृतिः कृता ॥५॥ २४३. आवयोश्च पितृपुत्रयोर्महा-नाहितः क्षितिभरः पुरद्रुहाँ । तद् युवां सचिवपुङ्गवावह योक्तुमत्र युगपत्समुत्सहे ॥ ६ ॥ २४४. येन केन न च धर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥ ७॥ ____ 15 अथ वस्तुपाल: प्राह २४५. देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमेवमुच्यते ॥ ८॥ २४६. नास्ति तीर्थमिह पार्थिवात्परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं सम्पदेति च समीहिता सताम् ॥ ९॥ २४७. सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥१०॥ किन्तु विज्ञपयिताऽस्ति किञ्चन स्वामिना तदवधार्यतां हृदि । न्यायनिष्ठुरतरा गिरः सतां श्रोतुमप्यधिकृतिस्तवेव यत् ॥११॥ २४९. सा गता शुभमयी युगत्रयी देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता नापि भूपतिषु यत्र दृश्यते ॥ १२ ॥ २५०. दृष्टिर्नष्टा भूपतीनां तमोभिस्ते लोभान्धान् साम्प्रतं कुर्वतेऽये। तैीयन्ते वर्त्मना तेन यत्र भ्रश्यन्याशु व्याकुलास्तेऽपि तेऽपि ॥ १३ ॥ २५१. न सर्वथा कश्चन लोभवर्जितः करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र वाच्यता ॥ १४ ॥ 30 २५२. *पुरस्कृत्य न्यायं खलजनमनादृत्य सहजानरीन् निर्जित्य श्रीपतिचरितमादृत्य च यदि । समुद्धर्तुं धात्रीमभिलपसि तत्सैष शिरसा धृतो देवादेशः स्फुटमपरथा स्वस्ति भवते ॥ १५ ॥ किश्च-सम्प्रति आवां मण्डलीनगरात् सेवार्थिनो वः समीपमागतौ स्तः सकुटुम्यौ । लक्षत्रयी द्रव्यस्य नो गृहेऽस्ति । यदा देवौ पिशुनवचने लगतः, तदा एतन्मात्रखापतेयसहितौ दिव्यं ___1A नास्ति 'हितेन'। 2P परदुहा। 8 A पुङ्गवा नरं। * P पुस्तक एतत्पद्यं नोपलभ्यते । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176