Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 135
________________ ११२ प्रबन्धकोशे णजलप्लावितरवास्तत्र गताः, यत्र श्रीवस्तुपालः । उदितश्च तैः-मत्रिन् ! किमहमुचितभाषी, किं' चारणः, किं बन्दी, किं नु सर्वसिद्धान्तपारगः सम्यग् जैनः सूरिः ? । मया मनःप्रमोदेन यद् व उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृह्णामि । न मयेदं वित्तायाभिहितम् । किन्त्विदं अन्तर्मनसं ध्यात्वा [भणितं*] यथाऽद्यापि जयति जिनपतिमतम् [तीर्थकृद्वारकसदृशं 5 एवंविधैः पुरुषरत्नैः*] । धनं न गृह्णाम्येव । मन्त्री प्राह-भवन्तो निःस्पृहत्वान्न गृह्णन्ति, वयं तु दत्तत्वान्न प्रतिगृह्णीमः; तर्हि कथमनेन हेम्ना भवितव्यमिति शिक्षा दत्त । ततः सूरिभिर्जगदे जगदेकदानी मन्त्री-मन्निन् ! स्वगृहाय सम्प्रति गंस्यते भवद्भिस्तीर्थाय कस्मैचिद्वा? । मन्त्री आहप्रभो! श्रीसुव्रततीर्थवन्दनार्थं गच्छन्तः स्मः। आचार्याः प्राहुः-तर्हि लब्ध एतदुहेमव्ययोपायः। तत्र लेप्यमयी प्रतिमाऽऽस्ते । तत्र स्नात्रसुखासिका न पूर्यते श्रावकाणाम् । तस्मादनेन राया 10 रीरीहेममयीं लानप्रतिमा निर्मापयत । मत्रिणोर्ध्वनितं मनः । तत्तथैव च कृतम् । ततः समायातः खसदनं गूर्जरेन्द्रमन्त्री।। ६१३२) अन्येधुरादर्श प्रातर्वदनं पश्यता सचिवेन पलितमेकमालोकि, अपाठि च२७९. अधीता न कला काचित् न च किञ्चित्कृतं तपः । दत्तं न किञ्चित्पात्रेभ्यो गतं च मधुरं वयः ॥४२॥ २८०. आयुर्योवनवित्तेषु स्मृतिशेषेषु या मतिः । सैव चेजायते पूर्वं न दूरे परमं पदम् ॥ ४३॥ 15 २८१. आरोहन्ती शिरःस्वान्तादौन्नत्यं तनुते जरा । शिरसः स्वान्तमायान्ती दिशते नीचतां पुनः ॥४४॥ २८२. लोकः पृच्छति मे वार्ता शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ ४५ ॥ ततोऽधिकं जिनधर्मे रेमे । ६१३३) अथैकदा द्वावपि भ्रातरौ राणश्रीवीरधवलं व्यजिज्ञपताम्-देव! देवपादैरियं गूर्जरधरा साधिता, राष्ट्रान्तराणि करदानि कृतानि । यद्यादेशः स्यात् तदा राज्याभिषेकोत्सवः क्रियते। 20 राणकेनोक्तम्-मत्रिणौ ! ऋजू भक्तिजडौ युवाम् । २८३. अजित्वा साऽर्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ४६ ॥ ___ ततो राणकमात्रत्वमेवास्तु । इत्युक्त्वा व्यसृजत्तौ। ६१३४) एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण25 २८४. सूत्रे वृत्तिः कृता पूर्वं दुर्गसिंहेन धीमता । विसूत्रे तु कृता तेषां वस्तुपालेन मत्रिणा ॥४७॥ ६१३५) श्रीवीरधवलोऽपि सेवकान् सुष्टु पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य । पश्यत-श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुप्तोऽस्ति । वण्ठश्चरणौ चम्पयत्येकः । राणकः पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो" मेने । ततश्चरणाङ्गुलिस्था रत्नाङ्का मुद्रा जगृहे, मुखे च चिक्षिपे । राणकेन किमपि नोक्तम् । उत्थितो राणः । भाण्डागारिकपार्थाद् गृहीत्वाऽन्या मुद्रा 30 तादृगेव पादाङ्गुलौ स्थापिता। द्वितीयदिने पुना राणकस्तत्रैव "चन्द्रशालायां प्रसुप्तः। वण्ठश्चरणौ 1 P किं वा । 2 AB तु । 3 P जैनसूरिः । * P पुस्तक एवेदं दृश्यते । 4 A मध्यप्याह । 5 P जगदेकदानवीर !। 6P इदं 17 P तस्मादनेन हेममयीं। 8 'च' नास्ति P19 A नास्ति पदमिदम् । 10P अस्माकं । 11 A सुप्त इति । 12 P शालायौ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176