________________
११२
प्रबन्धकोशे णजलप्लावितरवास्तत्र गताः, यत्र श्रीवस्तुपालः । उदितश्च तैः-मत्रिन् ! किमहमुचितभाषी, किं' चारणः, किं बन्दी, किं नु सर्वसिद्धान्तपारगः सम्यग् जैनः सूरिः ? । मया मनःप्रमोदेन यद् व उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृह्णामि । न मयेदं वित्तायाभिहितम् । किन्त्विदं अन्तर्मनसं ध्यात्वा [भणितं*] यथाऽद्यापि जयति जिनपतिमतम् [तीर्थकृद्वारकसदृशं 5 एवंविधैः पुरुषरत्नैः*] । धनं न गृह्णाम्येव । मन्त्री प्राह-भवन्तो निःस्पृहत्वान्न गृह्णन्ति, वयं तु दत्तत्वान्न प्रतिगृह्णीमः; तर्हि कथमनेन हेम्ना भवितव्यमिति शिक्षा दत्त । ततः सूरिभिर्जगदे जगदेकदानी मन्त्री-मन्निन् ! स्वगृहाय सम्प्रति गंस्यते भवद्भिस्तीर्थाय कस्मैचिद्वा? । मन्त्री आहप्रभो! श्रीसुव्रततीर्थवन्दनार्थं गच्छन्तः स्मः। आचार्याः प्राहुः-तर्हि लब्ध एतदुहेमव्ययोपायः।
तत्र लेप्यमयी प्रतिमाऽऽस्ते । तत्र स्नात्रसुखासिका न पूर्यते श्रावकाणाम् । तस्मादनेन राया 10 रीरीहेममयीं लानप्रतिमा निर्मापयत । मत्रिणोर्ध्वनितं मनः । तत्तथैव च कृतम् । ततः समायातः खसदनं गूर्जरेन्द्रमन्त्री।। ६१३२) अन्येधुरादर्श प्रातर्वदनं पश्यता सचिवेन पलितमेकमालोकि, अपाठि च२७९. अधीता न कला काचित् न च किञ्चित्कृतं तपः । दत्तं न किञ्चित्पात्रेभ्यो गतं च मधुरं वयः ॥४२॥
२८०. आयुर्योवनवित्तेषु स्मृतिशेषेषु या मतिः । सैव चेजायते पूर्वं न दूरे परमं पदम् ॥ ४३॥ 15 २८१. आरोहन्ती शिरःस्वान्तादौन्नत्यं तनुते जरा । शिरसः स्वान्तमायान्ती दिशते नीचतां पुनः ॥४४॥ २८२. लोकः पृच्छति मे वार्ता शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ ४५ ॥
ततोऽधिकं जिनधर्मे रेमे । ६१३३) अथैकदा द्वावपि भ्रातरौ राणश्रीवीरधवलं व्यजिज्ञपताम्-देव! देवपादैरियं गूर्जरधरा साधिता, राष्ट्रान्तराणि करदानि कृतानि । यद्यादेशः स्यात् तदा राज्याभिषेकोत्सवः क्रियते। 20 राणकेनोक्तम्-मत्रिणौ ! ऋजू भक्तिजडौ युवाम् । २८३. अजित्वा साऽर्णवामुर्वीमनिष्ट्वा विविधैर्मखैः । अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ४६ ॥
___ ततो राणकमात्रत्वमेवास्तु । इत्युक्त्वा व्यसृजत्तौ। ६१३४) एकदा मन्त्रिभ्यां श्रीसोमेश्वरादिकविभ्यो विपुला वृत्तिः कृता भूम्यादिदानैः । ततः पठितं सोमेश्वरेण25 २८४. सूत्रे वृत्तिः कृता पूर्वं दुर्गसिंहेन धीमता । विसूत्रे तु कृता तेषां वस्तुपालेन मत्रिणा ॥४७॥
६१३५) श्रीवीरधवलोऽपि सेवकान् सुष्टु पदवीमारोपयन् जगत्प्रियोऽभूत् । किमुच्यते तस्य । पश्यत-श्रीवीरधवलो ग्रीष्मे चन्द्रशालायां सुप्तोऽस्ति । वण्ठश्चरणौ चम्पयत्येकः । राणकः पटीपिहितवदनो जाग्रदपि वण्ठेन सुप्तो" मेने । ततश्चरणाङ्गुलिस्था रत्नाङ्का मुद्रा जगृहे, मुखे च
चिक्षिपे । राणकेन किमपि नोक्तम् । उत्थितो राणः । भाण्डागारिकपार्थाद् गृहीत्वाऽन्या मुद्रा 30 तादृगेव पादाङ्गुलौ स्थापिता। द्वितीयदिने पुना राणकस्तत्रैव "चन्द्रशालायां प्रसुप्तः। वण्ठश्चरणौ
1 P किं वा । 2 AB तु । 3 P जैनसूरिः । * P पुस्तक एवेदं दृश्यते । 4 A मध्यप्याह । 5 P जगदेकदानवीर !। 6P इदं 17 P तस्मादनेन हेममयीं। 8 'च' नास्ति P19 A नास्ति पदमिदम् । 10P अस्माकं । 11 A सुप्त इति । 12 P शालायौ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org