________________
10
वस्तुपालप्रवन्धः ।
१११ राहूतः । पृष्टः-त्वं कः? कुत्रत्यः' ? । तेनोक्तम्-अहं समुद्रतटेऽवात्सम् । पान्था, पुरो यामि । तैः पृष्टम्-समुद्रः केन खानितः। तेनोचे-स्वयंभूः सः। पुनस्तैः पृष्टम्-कियान् सः । पान्थेनोक्तम्अलब्धपारः। किं तत्रास्ते ?-इति पृष्टे पुनस्तेनाचख्ये
२७७. ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी,
मुक्तौघाः सिकताः प्रवाललतिकाः सेवालमम्भः सुधा ।
तीरे कल्पमहीरुहाः किमपरं नानाऽपि रत्नाकरः, इति पादत्रयं पठित्वा व्याख्याय पुरो गतः पान्थः। तेषु ग्राम्येष्वेकः सकौतुकः पृच्छन् पृच्छन् समुद्रतटमगात् । दृष्टः कल्लोलमालाचुम्बितगगनानः समुद्रः। तुष्टः सः। अचिन्तयच्च[इतो*] ऋद्धयः सर्वा लप्स्यन्ते । प्रथमं तृषितः सलिलं पिबामि । [इति मत्वा*] पीतं तत् । दग्धः कोष्टः । ततः पठति'
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ३९ ॥ २७८. 'वरि वियरा जहिं जणु पियइ घुट्टग्घुटु 'चुलुएहिं । सायरि अस्थि बहुत्तु जलु छि खारा" किं तेण ॥४०॥
तैरेव पदैनष्टः स्वास्पदं गतः। तथा वयमपि स्मः। मन्त्रिणोक्तम्-कथं तथा यूयं यथा स ग्राम्यः ?। सूरयस्तारमूचुः-महामात्य ! वयमत्र श्रीपार्श्वनाथसेवकाः, त्रैविद्यविदः, सर्वर्द्धयः [अवस्थाः*] शृणुमः। यथा-धवलक्के श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणो भारतीप्रति-15 पन्नपुत्रो विद्वज्जनमधुकरसहकारः सारासारविचारवेद्यास्ते इति । तदुत्कण्ठितास्तत्रागन्तुम् । ईश्वरत्वाच न गच्छामः कापि । [पुनश्चिन्तितं च*] कदाचिद्, अत्र तीर्थमित्येता" मन्त्री, तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि। इति ध्यायतामस्माकं मबिमिश्रा "अनागताः। यावत्पठ्यते किमपि ताव"दसत्सम्भावनयाऽवज्ञापरा यूयं स्थिताः। ततः किं पठ्यते। गच्छत गच्छत; उत्सूरं भवति । मन्त्री प्राह-मम मन्तुः" क्षम्यताम् ; किमेतत्पठितुमारेभे भवद्भिः? । आचार्या जगदुः-देव! यदा 20 युवां सबान्धवौ श्रावकण्यग्रे राजराजेश्वरौ दिव्यभूषणी, श्रावकाश्च धनाढ्या दृष्टाः, गीताधुच्छ्रयश्च । तदा एतन्नश्चित्ते बभूव-जगति स्त्रीजातिरेव धन्या । यद्भुवो" जिन-चयर्द्धचक्रि-नलकर्ण-युधिष्ठिर-विक्रम-सातवाहनादयो जाताः। सम्प्रत्यपि ईदृशाः सन्ति । तस्मात् श्रीसाम्बश्रीशान्ति-ब्रह्मणाग-आमदत्त-नागडवंश्यश्रीआभूनन्दिनी "कुमारदेवी श्लाघ्या । यया एतौ कलियुगमहान्धकारमजजिनधर्मप्रकाशनप्रदीपौ ईदृशौ नन्दनौ जातौ । इत्येवं चिन्तयतामस्माकं 25 पद्यपादद्वयं वदनादुद्गतम् । जिननमस्कारादि विस्मृतम् । पश्चाई तु शृणुत
यत्कुक्षिप्रभवा एते वस्तुपाल ! भवादृशाः ॥४१॥ सविस्तरतरं व्याख्यानं कृतम् । लजितः सचिवेन्द्रः। पदोर्लगित्वा सूरीन् क्षमयित्वा [चलितः*] क्रोशान्ते ग्राम एक आगात् । तत्र स्नातभुक्तविलिप्तः [तदनु*] खं भृत्यं सचिवमेकमाकार्य आदिक्षत्-इयं वाहिनी हेमसहस्रदशकवदरकयुक् सूरिभ्यो मठे देयाः। गतो मन्त्रिसेवकस्तत्र 130 भाषिताः सूरयः-मत्रिदत्तमिदमवधार्यताम् । आचार्यैदृष्टम् । अश्वमारुह्य भटशतोल्लालितकृपा
1P क्वत्यः। 2 P तत्रास्ति । कोष्ठकगताः पाठा: P पुस्तक एव दृश्यन्ते। 3 P तेन पठति इति । 4 P वर। 5 P जिहिं । GP घट्ट घटु; B घुडुग्धुदु। 7 P जलुएहिं; P चलुएहिं। 8 P बहुत; B बहुय। 9 P छह । 10 P खारुं। 11P तीर्थनत्यै एताऽत्र। 12 PB अप्यागताः। 13 ABE दसम्भावन। 14 P अपराधः। 15 P यद्गर्भे । 16 A नास्ति 'श्रीशान्ति'। 17 P कुमरा। 18 A शृणु तत् । 19 A जिह्वाय ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only