________________
वस्तुपालप्रबन्धः।
११३
'चम्पयति । राणस्तथैव पटीस्थगितवदनोऽस्ति । वण्ठः पुनः पुनः मुद्रामालोकते। अहो! प्राक्तनी चेयम् । ततो राणेन्द्रः प्राह-भो वण्ठ ! इमां तु मुद्रां मा ग्रहीः । या कल्ये गृहीता सा गृहीता। एतद्वचनाकर्णन एव वण्ठो भीत्या वज्राहत इवास्थात् । यत:२८५. हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति जिघन्नपि भुजङ्गमः ॥ ४८॥ तां तस्य दीनतां दृष्ट्वा राणकेन भणितम्-वत्स! मा भैषीः। अस्माकमेवायं कार्पण्य दोषो 5 येन तेऽल्पा वृत्तिः । इच्छा न पूर्यते । ततो बह्वपाये चौर्ये बुद्धिः। अतः परं हय आरोहाय दीयमानोऽस्ति, लक्षार्द्ध वृत्तौ । इत्याश्वासितः सः। अतो वीरधवलः क्षमापरत्वाजगवल्लभः सेवकसदाफलत्वेन पप्रथे । स सहजदया इति मन्त्रिभ्यां रहः कथान्तरे शान्तिपर्वणि श्रीद्वैपायनोक्तभीष्म-युधिष्ठिरोपदेशद्वाराऽऽयातं द्वैपायनोक्तद्वात्रिंशदधिकारमयेतिहासशास्त्रीयाष्टाविंशाधिकारस्थं शिवपुराणमध्यगतं च मांसपरिहारं व्याख्याय व्याख्याय प्रायो मांस-मद्य-10 मृगयाविमुखकृतः । पुनर्मलधारिश्रीदेवप्रभसूरिसविधे व्याख्यां श्रावं श्रावं सविशेषं तेन तत्त्वपरिमलितमतिर्विरचितः।।
६१३६) अन्येयुर्वस्तुपालो ब्राह्म मुहूर्ते विमृशति-यद्यर्हद्यात्रा विस्तरेण क्रियते तदा श्री फलवती भवेत् ।
२८६. *श्रीणां स्त्रीणां च ये वश्यास्तेऽवश्यं पुरुषाधमाः । स्त्रियः श्रियश्च यदृश्यास्तेऽवश्यं पुरुषोत्तमाः॥४९॥ 15 २८७. विञ्चयित्वा जनानेतान् सुकृतं गृह्यते श्रिया । तत्ततो गृह्यते येन स तु धूर्तधुरन्धरः ॥ ५० ॥ २८८. नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्ये मूढतरान् नरान् ॥५१॥ इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन सांमत्यं कृत्वा मलधारिश्रीनरचन्द्रसूरिपादानपृच्छत्भगवन् ! या मे चिन्ताऽधुना [वर्त्तते* ] सा निष्पत्यूहं सेत्स्यति ? । प्रभुभिः शास्त्रज्ञकिरीटैरुक्तम्-जिनयात्राचिन्ता वर्तते, सा सेत्स्यति । वस्तुपालेन गदितम्-तर्हि देवालये वासक्षेप: 20 क्रियताम् । तदा श्रीनरचन्द्रसूरयः प्राहुः-मन्त्रीश! वयं ते मातृपक्षे गुरवः, न पितृपक्षे । पितृपक्षे तु नागेन्द्रगच्छीयाः श्रीअमरचन्द्रसूरि-श्रीमहेन्द्रसूरिपदे-श्रीविजयसेनसूरय उदप्रभसूरिसञ्ज्ञकशिष्ययुजो विशालगच्छाः पीलूआईदेशे वर्तन्ते । ते वासनिक्षेपं कुर्वन्तु [परं*] न वयम् । यदुक्तम्२८९. जा जस्स ठिई जा जस्स संतई पुवपुरिसकयमेरा । कंठहिए वि जीए सा केण' न लंघियत्व ति ॥ ५२ ।। 25
अथ मच्याह-अस्माभिर्भवदन्तिके त्रैविद्य-षडावश्यक-कर्मप्रकृत्याद्यधीतम् । यूयमेव गुरवः । प्रभुभिरुक्तम्-नैवं वाच्यम्, लोभपिशाचप्रवेशप्रसङ्गात् । ततो मत्रिभ्यां मरुदेशाद् गुरवः शीघ्रमानायिताः। मुहूर्त प्रतिष्ठा देवालयप्रस्थापनं वासनिक्षेपणं कुलगुरुभिः कृतम् । साधर्मिकवात्सल्यं शान्तिकं मारिवारणं खामिपूजनं लोकरञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् । अथ प्रतिलाभना । तत्र मिलिताः कवीश्वराः, नरेश्वराः, सङ्घश्वराः। दत्तानि कौशेयकटककुण्डल-30 हारादीनि लोकेभ्यः । यतिपतिभ्यस्तु तदुचितानि वस्त्र-कम्बल-भोज्यादीनि । तदा श्रीनरचन्द्रसूरिभिः सङ्घानुज्ञातैाख्या कृता
1 P चरणौ स एव चम्पयति । 2 AB नास्ति तथैव'। 3 P कार्पण्यजो। 4 P इति कारणात् । 5 P इह । * P पुस्तकं विहायान्यत्र नोपलभ्यते पद्यमिदम् । P पुस्तके नोपलभ्यत इदं पद्यम् । 7AB तेण । SA नास्ति ।
१५ प्र. को.
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org