________________
११४
प्रबन्धकोशे २९०. चौलुक्यः परमार्हतो नृपशतस्वामी जिनेन्द्राज्ञया, निर्ग्रन्थाय जनाय दानमनघं न प्राप जानन्नपि ।
___स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया, त्वद्रपोऽवततार गूर्जरभुवि श्रीवस्तुपालो ध्रुवम् ॥ ५३॥ ध्वनितः सङ्घ । अथ चलितः सुशकुनैः सङ्घः । मार्गे सप्तक्षेत्राण्युद्धरन् श्रीवर्द्धमानपुरासन्नमावासितः। 5 ६१३७) तदा [वर्द्धमानपुरमध्ये* ] बहुजनमान्यः श्रीमान् रत्ननामा श्रावको वसति । तद्गहे दक्षिणावर्तः शङ्खः पूज्यते । स रात्री करण्डान्निर्गत्य स्निग्धगम्भीरं घुमधुमायते नृत्यति च । तत्प्रभावात्तस्य गृहे चतुरङ्गा लक्ष्मीः । शलेन रात्रौ रत्न आलेपे-तव गृहेऽहं चिरमस्थाम् । इदानीं तव पुण्यमल्पम् । मां श्रीवस्तुपालपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे मद्दानात् त्वमपीह
परत्र च सुखी भवेः। [तस्याभिप्रायं* ] व्यक्तं तज्ज्ञात्वा रत्नो विपुलसामग्र्याऽभिमुखो गत्वा 10 मन्त्रीशं [ससचं निमच्य*] स्वगृहे बहुपरिकरं भोजयित्वा परिधाप्योचे-एवमेवं शङ्खादेशो मे ।
गृहाणेमम् । मच्याह-न वयं परधनार्थिनः । पिशुनाच्छङ्कसत्तां ज्ञात्वा तं ग्रहीष्यति खयं मन्त्री, तस्मात् स्वयमेव ददामि-इत्यपि मा शतिष्ठाः, निर्लोभत्वादस्माकमस्मत्प्रभूणां च । इत्युक्त्वा विरते मत्रिणि रत्नेन गदितम्-देव! मद्गृहावस्थानमस्मै न रोचते । ततः किं क्रियते ?, गृहाणैष ।
ततो गृहीतो मश्रिणा शङ्खः। तत्प्रभावोऽनन्तः। 15 ६१३८) शनैः शनैः सङ्घः श्रीशत्रुञ्जयतलहट्टिकां प्राप्तः । तत्र ललितासरः प्रासादादिकीर्ण
नानि पश्यन् प्रमुदितः ससङ्घः सचिवः। आरूढः शत्रुञ्जयादि विवेकं च भावं च । तत्र मन्त्री प्रथमं ऋषभं वन्दते । तदा काव्यपाठः२९१. आस्सं कस्य न वीक्षितं क न कृता सेवा न के वा स्तुताः, तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ।
_____ तत् त्रातर् ! विमलाद्रिनन्दनवनीकल्पैककल्पद्रुम!, त्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥५४॥ 20 अथावारितसत्र-मेरुध्वजारोपणेन्द्रपदार्थिरञ्जनादीनि कर्तव्यानि विहितानि । देवेभ्यो हैमानि "आरात्रिकतिलकादीनि दत्तानि । कुङ्कुमकर्पूरागुरुमृगमदचन्दनकुसुमपरिमलमिलदलिकुलशङ्कारभारपूरितमिव गगनमभवत् । गीत-रासध्वनिभिर्दिक्कुहराणि अम्रियन्त । पूर्व मनिश्रीउदयनदत्ता देवदायाः सर्वेऽपि सविशेषाः कृताः । देवद्रव्यनाशनिषेधार्थ चत्वारि श्रावककुलानि अद्रौ मुक्तानि । अनुपमा दानाधिकारिणी [कृताऽस्ति*]। तस्याः साधुभ्यो दानानि ददत्याः किल महति 25 वृन्दे पतता घृतकडहटकेन क्षौमाण्यभ्यक्तानि । तदा' याष्टिकेन कडहभृते साधवे यष्टिप्रहार
लेशो दत्तः। मत्रिण्या देशनिर्वासनं समादिष्टम्। [भणितं च-*] रे न वेत्सि! यद्यहं तैलिकपत्नी कान्दविकी वाऽभविष्यम्, तदा प्रतिपदं तैलघृताभिष्वङ्गान्मलिनान्येव वासांस्य भविष्यन् । एवं तु वस्त्राभ्यङ्गो [ भाग्यलभ्यः* ] दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तेन नः कार्यमेव न इत्युक्तं च । अहो ! दर्शनभक्तिरिति ध्वनितं सर्वम् । 30 ६१३९) एकदा मन्त्रीश्वरो नाभेयपुर आरात्रिके स्थितोऽस्ति दिव्यधवलवासाश्चान्दनतिलको दिव्यपदकहारभूषितोरस्थलः। सूरीणां कवीनां श्रावक-श्राविकाणां च नतिः। तिलकं तिलकोपरि। पुष्पस्रक पुष्पस्रगुपरि। तदा सूत्रधारेणैकेन दारवी कुमारदेव्या मातुर्मूर्तिमहन्तकायनवीनघटिता
1P ससो मनी। कोष्ठकगता: पाठा: P पुस्तक एव प्राप्यन्ते। 2 A रत्नस्य । 3 A. पिशुनाः। 4 A. हट्टिकाया. माप। 5 P आभरणानि तिल। 6A दिक्षु अन्तराणि। 7.A तदयोयष्टीकेन । 8P कान्दविकपत्री।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org