Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 134
________________ 10 वस्तुपालप्रवन्धः । १११ राहूतः । पृष्टः-त्वं कः? कुत्रत्यः' ? । तेनोक्तम्-अहं समुद्रतटेऽवात्सम् । पान्था, पुरो यामि । तैः पृष्टम्-समुद्रः केन खानितः। तेनोचे-स्वयंभूः सः। पुनस्तैः पृष्टम्-कियान् सः । पान्थेनोक्तम्अलब्धपारः। किं तत्रास्ते ?-इति पृष्टे पुनस्तेनाचख्ये २७७. ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी, मुक्तौघाः सिकताः प्रवाललतिकाः सेवालमम्भः सुधा । तीरे कल्पमहीरुहाः किमपरं नानाऽपि रत्नाकरः, इति पादत्रयं पठित्वा व्याख्याय पुरो गतः पान्थः। तेषु ग्राम्येष्वेकः सकौतुकः पृच्छन् पृच्छन् समुद्रतटमगात् । दृष्टः कल्लोलमालाचुम्बितगगनानः समुद्रः। तुष्टः सः। अचिन्तयच्च[इतो*] ऋद्धयः सर्वा लप्स्यन्ते । प्रथमं तृषितः सलिलं पिबामि । [इति मत्वा*] पीतं तत् । दग्धः कोष्टः । ततः पठति' दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ३९ ॥ २७८. 'वरि वियरा जहिं जणु पियइ घुट्टग्घुटु 'चुलुएहिं । सायरि अस्थि बहुत्तु जलु छि खारा" किं तेण ॥४०॥ तैरेव पदैनष्टः स्वास्पदं गतः। तथा वयमपि स्मः। मन्त्रिणोक्तम्-कथं तथा यूयं यथा स ग्राम्यः ?। सूरयस्तारमूचुः-महामात्य ! वयमत्र श्रीपार्श्वनाथसेवकाः, त्रैविद्यविदः, सर्वर्द्धयः [अवस्थाः*] शृणुमः। यथा-धवलक्के श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणो भारतीप्रति-15 पन्नपुत्रो विद्वज्जनमधुकरसहकारः सारासारविचारवेद्यास्ते इति । तदुत्कण्ठितास्तत्रागन्तुम् । ईश्वरत्वाच न गच्छामः कापि । [पुनश्चिन्तितं च*] कदाचिद्, अत्र तीर्थमित्येता" मन्त्री, तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि। इति ध्यायतामस्माकं मबिमिश्रा "अनागताः। यावत्पठ्यते किमपि ताव"दसत्सम्भावनयाऽवज्ञापरा यूयं स्थिताः। ततः किं पठ्यते। गच्छत गच्छत; उत्सूरं भवति । मन्त्री प्राह-मम मन्तुः" क्षम्यताम् ; किमेतत्पठितुमारेभे भवद्भिः? । आचार्या जगदुः-देव! यदा 20 युवां सबान्धवौ श्रावकण्यग्रे राजराजेश्वरौ दिव्यभूषणी, श्रावकाश्च धनाढ्या दृष्टाः, गीताधुच्छ्रयश्च । तदा एतन्नश्चित्ते बभूव-जगति स्त्रीजातिरेव धन्या । यद्भुवो" जिन-चयर्द्धचक्रि-नलकर्ण-युधिष्ठिर-विक्रम-सातवाहनादयो जाताः। सम्प्रत्यपि ईदृशाः सन्ति । तस्मात् श्रीसाम्बश्रीशान्ति-ब्रह्मणाग-आमदत्त-नागडवंश्यश्रीआभूनन्दिनी "कुमारदेवी श्लाघ्या । यया एतौ कलियुगमहान्धकारमजजिनधर्मप्रकाशनप्रदीपौ ईदृशौ नन्दनौ जातौ । इत्येवं चिन्तयतामस्माकं 25 पद्यपादद्वयं वदनादुद्गतम् । जिननमस्कारादि विस्मृतम् । पश्चाई तु शृणुत यत्कुक्षिप्रभवा एते वस्तुपाल ! भवादृशाः ॥४१॥ सविस्तरतरं व्याख्यानं कृतम् । लजितः सचिवेन्द्रः। पदोर्लगित्वा सूरीन् क्षमयित्वा [चलितः*] क्रोशान्ते ग्राम एक आगात् । तत्र स्नातभुक्तविलिप्तः [तदनु*] खं भृत्यं सचिवमेकमाकार्य आदिक्षत्-इयं वाहिनी हेमसहस्रदशकवदरकयुक् सूरिभ्यो मठे देयाः। गतो मन्त्रिसेवकस्तत्र 130 भाषिताः सूरयः-मत्रिदत्तमिदमवधार्यताम् । आचार्यैदृष्टम् । अश्वमारुह्य भटशतोल्लालितकृपा 1P क्वत्यः। 2 P तत्रास्ति । कोष्ठकगताः पाठा: P पुस्तक एव दृश्यन्ते। 3 P तेन पठति इति । 4 P वर। 5 P जिहिं । GP घट्ट घटु; B घुडुग्धुदु। 7 P जलुएहिं; P चलुएहिं। 8 P बहुत; B बहुय। 9 P छह । 10 P खारुं। 11P तीर्थनत्यै एताऽत्र। 12 PB अप्यागताः। 13 ABE दसम्भावन। 14 P अपराधः। 15 P यद्गर्भे । 16 A नास्ति 'श्रीशान्ति'। 17 P कुमरा। 18 A शृणु तत् । 19 A जिह्वाय । www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176