Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 132
________________ वस्तुपालप्रबन्धः । जयजयकारः । मन्त्रिणा तद्राज्यं गृहीतम् । वेलाकूलनृपद्धनां क्क संख्याः । ततः स्तम्भतीर्थमुत्तोरणमुत्पताकमविशत् । ततो' मन्त्री प्रविष्टः 'सदीकसदनम् । तस्य भट्टान् सप्तद्विगुण शतानि सन्नद्धानि हत्वा तं जीवग्राहं जग्राह । विब्रुवाणं तं कृपाणेन जघान । ततो गृहं तदीयमामूलचूलखातपातितम् । हेमटकानां संख्या न । तथा मणिमुक्ताफलपदकानाम् । [ प्रमाणं केनापि ज्ञातम् । केचिद् वृद्धा वदन्ति तत्र तेजनतूरिकायाः करण्डश्चटितः श्रीमन्नीश्वरस्य । ] 5 आयातो मन्त्री स्वधवलगृहम् । तोषितः स्वस्वामी वीरः परिग्रहलोकश्च । ततः [ कवीश्वराणां * ] स्तुतिः - २६९. श्रीवस्तुपाल प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् । तीरेऽपि वार्द्धरकृतेऽपि मात्स्ये रूपे पराजीयत येन शङ्खः ॥ ३२ ॥ २७०. तावल्लीलाकवलितसरित्तावदभ्रंलिहोर्मि, स्तावत्तीत्रध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रेङ्खत्कमठमकरव्यूहबन्धुः ससिन्धु, - र्लोपामुद्रासहचरकरक्रोडवर्त्ती न यावत् ॥ ३३ ॥ ततश्चक्षवाटि' - नौवित्तकवाट्योः पार्थक्यं कृतम् । १०९ १२८) [ मन्त्रिणा * ] आ महाराष्ट्रेभ्यः साधिता भूः । वेलाकूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्राहेण सान्निध्यं कृत्वा जयश्रियमर्पयति । इति [ कारणात् * ] ते [तुष्टाः * ] बोहित्थानि सारवस्तुपूर्णानि प्राभृते प्रहिण्वन्ति । अम्बिका कपर्द्दिनौ निधानभुवं 15 रात्रौ [ समागत्य * ] कथयतः । ते निधयो मन्त्रिणा खातं खातं गृह्यन्ते । [ तद्भाग्यात् * ] दुर्भिक्षस्य नामापि नाभूत् । विवराणि दूरे नष्टानि । मुद्गलबलानि [ वारं वारं * ] आगच्छन्ति निरे एकदा । पुनर्नाययुः । पल्लीवनेषु दुकूलानि नागोदराणि च बद्धानि । ग्रहीता कोऽपि न । ग्रामे ग्रामे [ मण्डितानि * ] सत्राणि । सत्रे सत्रे मिष्टान्नानि । [ उपरि * ] ताम्बूलानि [ च । तत्र ग्लानार्थ *] वैद्याः [विविधाः प्रस्थापिताः । मन्त्रिव्यवस्थया *] दर्शनद्वेषो न; वर्णद्वेषो न । प्रतिवर्ष 20 स्वदेशे सर्वनगरेषु तिस्रस्तिस्रः श्वेताम्वरेभ्यः प्रतिलाभनाः । शेषदर्शनानामग्रेऽप्यर्चा । १२९) मत्रिवस्तुपालस्य पत्न्यौ द्वे ललतादेवि सोषूनाइयौ कल्पवल्लि कामधेनू इव । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः सूहवदेविजानिः प्रत्यक्षचिन्तामणिः । तेजः पालदयिताऽनुपमाऽनुपमैव । पठितं च कविना 10 २७१. लक्ष्मीश्चला शिवा चण्डी, शची सापल्यदूषिता । गङ्गा न्यग्गामिनी वाणी, वाक् साराऽनुपमा ततः ॥ ३४|| 25 श्रीशत्रुञ्जयादिषु नन्दीश्वरेन्द्र मण्डपप्रभृतिकर्मस्थायाः प्रारम्भिषत । आरासणादिदलिकानि स्थलपथेन [ जलपथेन " ] च तत्र तत्र प्राप्यन्ते । तपसामुद्यापनानां च प्रकाशः । (१३०) एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेतौ श्रीपार्श्व नन्तुं स्तम्भनकपुरमीयतुः । प्रथमदिने ससङ्घौ तौ श्रीपार्श्वस्य पुरः श्रावक श्रेणिपुरःसरौ स्थितौ । [ तदा* ] गीत[ गान* ] रासादि [ महारसः प्र* ] वर्त्तते । [ तदवसरे तत्रत्य* ] सङ्घोपरोधात् तत्रत्याध्यक्षाः 30 सूरयो मल्लवादिनः समाकारिताः । ते यावद्देवगृहं प्रविशन्ति तावत् पठन्ति " 1 AB वेलाकूलनां । 2 AB नास्ति ' ततो मंत्री' । 3P सैद० । 4 P० गुणित । 5P ० चूलं खानितं पातितं च । 6 P हेमेष्टिकानां । 1 P पुस्तक एवैषा पंक्तिः प्राप्यते । * कोष्टकगताः पाठाः P पुस्तक एव लभ्यन्ते । 7 A चोक्षषवादि० । 8P प्रतिग्रहप्रेषणेन । 9 A • दर्शनानामप्यची | 10 A नास्ति पदमिदम् + P पुस्तके नास्ति वाक्यमिदम् । 11 P तावत्तैरेव पाठितम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176