________________
वस्तुपालप्रबन्धः ।
जयजयकारः । मन्त्रिणा तद्राज्यं गृहीतम् । वेलाकूलनृपद्धनां क्क संख्याः । ततः स्तम्भतीर्थमुत्तोरणमुत्पताकमविशत् । ततो' मन्त्री प्रविष्टः 'सदीकसदनम् । तस्य भट्टान् सप्तद्विगुण शतानि सन्नद्धानि हत्वा तं जीवग्राहं जग्राह । विब्रुवाणं तं कृपाणेन जघान । ततो गृहं तदीयमामूलचूलखातपातितम् । हेमटकानां संख्या न । तथा मणिमुक्ताफलपदकानाम् । [ प्रमाणं केनापि ज्ञातम् । केचिद् वृद्धा वदन्ति तत्र तेजनतूरिकायाः करण्डश्चटितः श्रीमन्नीश्वरस्य । ] 5 आयातो मन्त्री स्वधवलगृहम् । तोषितः स्वस्वामी वीरः परिग्रहलोकश्च । ततः [ कवीश्वराणां * ] स्तुतिः -
२६९. श्रीवस्तुपाल प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् । तीरेऽपि वार्द्धरकृतेऽपि मात्स्ये रूपे पराजीयत येन शङ्खः ॥ ३२ ॥ २७०. तावल्लीलाकवलितसरित्तावदभ्रंलिहोर्मि, स्तावत्तीत्रध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रेङ्खत्कमठमकरव्यूहबन्धुः ससिन्धु, - र्लोपामुद्रासहचरकरक्रोडवर्त्ती न यावत् ॥ ३३ ॥ ततश्चक्षवाटि' - नौवित्तकवाट्योः पार्थक्यं कृतम् ।
१०९
१२८) [ मन्त्रिणा * ] आ महाराष्ट्रेभ्यः साधिता भूः । वेलाकूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्राहेण सान्निध्यं कृत्वा जयश्रियमर्पयति । इति [ कारणात् * ] ते [तुष्टाः * ] बोहित्थानि सारवस्तुपूर्णानि प्राभृते प्रहिण्वन्ति । अम्बिका कपर्द्दिनौ निधानभुवं 15 रात्रौ [ समागत्य * ] कथयतः । ते निधयो मन्त्रिणा खातं खातं गृह्यन्ते । [ तद्भाग्यात् * ] दुर्भिक्षस्य नामापि नाभूत् । विवराणि दूरे नष्टानि । मुद्गलबलानि [ वारं वारं * ] आगच्छन्ति
निरे एकदा । पुनर्नाययुः । पल्लीवनेषु दुकूलानि नागोदराणि च बद्धानि । ग्रहीता कोऽपि न । ग्रामे ग्रामे [ मण्डितानि * ] सत्राणि । सत्रे सत्रे मिष्टान्नानि । [ उपरि * ] ताम्बूलानि [ च । तत्र ग्लानार्थ *] वैद्याः [विविधाः प्रस्थापिताः । मन्त्रिव्यवस्थया *] दर्शनद्वेषो न; वर्णद्वेषो न । प्रतिवर्ष 20 स्वदेशे सर्वनगरेषु तिस्रस्तिस्रः श्वेताम्वरेभ्यः प्रतिलाभनाः । शेषदर्शनानामग्रेऽप्यर्चा ।
१२९) मत्रिवस्तुपालस्य पत्न्यौ द्वे ललतादेवि सोषूनाइयौ कल्पवल्लि कामधेनू इव । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः सूहवदेविजानिः प्रत्यक्षचिन्तामणिः । तेजः पालदयिताऽनुपमाऽनुपमैव । पठितं च कविना
10
२७१. लक्ष्मीश्चला शिवा चण्डी, शची सापल्यदूषिता । गङ्गा न्यग्गामिनी वाणी, वाक् साराऽनुपमा ततः ॥ ३४|| 25 श्रीशत्रुञ्जयादिषु नन्दीश्वरेन्द्र मण्डपप्रभृतिकर्मस्थायाः प्रारम्भिषत । आरासणादिदलिकानि स्थलपथेन [ जलपथेन " ] च तत्र तत्र प्राप्यन्ते । तपसामुद्यापनानां च प्रकाशः ।
(१३०) एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेतौ श्रीपार्श्व नन्तुं स्तम्भनकपुरमीयतुः । प्रथमदिने ससङ्घौ तौ श्रीपार्श्वस्य पुरः श्रावक श्रेणिपुरःसरौ स्थितौ । [ तदा* ] गीत[ गान* ] रासादि [ महारसः प्र* ] वर्त्तते । [ तदवसरे तत्रत्य* ] सङ्घोपरोधात् तत्रत्याध्यक्षाः 30 सूरयो मल्लवादिनः समाकारिताः । ते यावद्देवगृहं प्रविशन्ति तावत् पठन्ति "
1 AB वेलाकूलनां । 2 AB नास्ति ' ततो मंत्री' । 3P सैद० । 4 P० गुणित । 5P ० चूलं खानितं पातितं च । 6 P हेमेष्टिकानां । 1 P पुस्तक एवैषा पंक्तिः प्राप्यते । * कोष्टकगताः पाठाः P पुस्तक एव लभ्यन्ते । 7 A चोक्षषवादि० । 8P प्रतिग्रहप्रेषणेन । 9 A • दर्शनानामप्यची | 10 A नास्ति पदमिदम् + P पुस्तके नास्ति वाक्यमिदम् । 11 P तावत्तैरेव पाठितम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org