________________
१०८
प्रबन्धकोशे घूघुलस्थाने आत्मीयं सेवकं न्यास्थत् । वलितो मन्त्री गतो धवलक्ककम् । दर्शितो घूघुलः श्रीवीरधवलाय । तत्कजलगृहं तद्गले बद्धं शाटिका च वण्ठैः परिधापिता । तदा घूघुलः स्वजिह्वां दन्तैः खण्डयित्वा मृतः । जातं वर्धापनं धवलकके। श्रीवीरधवलेन महत्यां सभायामाकार्य श्रीतेजःपालः परिधापितः। प्रसादपदे स्वर्ण भूरि ददे। तदवसरे कवीश्वरसोमेश्वरे च दृक 5 सञ्चारिता श्रीवीरधवलेन । ततः सोमेश्वरदेवः प्राह२६७. मार्गे कर्दमदुस्तरे जलभृते गतशतैराकुले, खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि ।
शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी,-मीदृक्षे गहने विहाय धवले वोढुं भरं कः क्षमः? ॥३०॥ विसृष्टा सभा । मिलितो वस्तुपाल-तेजःपालावेकत्र । कृताः कथाश्चिरम् । तुष्टौ द्वौ मन्त्रयेते स्म । 'धम्म एव धनमिदं पुण्यलब्धं व्ययनीयम् । ततः सविशेषं तथैव कुरुतः। ततः कविना 10 केनाप्युक्तम्___२६८. पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ ।
तौ भ्रातरौ संसृतिमोहचौरे संभूय धर्मेऽध्वनि सम्प्रवृत्तौ ॥ ३१ ॥ ६१२७) अथ श्रीवस्तुपालः शुभे मुहर्त स्तम्भतीर्थं गतः। तत्र मिलितं चातुर्वर्ण्यम् । दानेन तोषितं सर्वम् । तत्र च 'सदीकनामा नौवित्तको वसति । स च सर्ववेलाकूलेषु प्रसरमाणवि15 भवो महाधनाढ्यो बद्धमूलोऽधिकारिणं नन्तुं नायाति । प्रत्युत तत्पार्थेऽधिकारिणा गन्तव्यम् । एवं बहुकालो गतः। पूर्व मन्त्रीन्द्रस्तं भट्टेनोवाच-अस्मान्नन्तुं किमिति नागच्छसि ? । स प्रतिवक्ति-न नवेयं रीतिः, प्रागपि नागच्छामि । यत्तु स्यान्यूनं तव, तदा तत्पूरयामि स्थानस्थः। तत् श्रुत्वा मन्त्री रुष्टः कथापयामास-पुरुषो भूत्वा तिष्ठेः । शास्मि त्वां दुर्विनीतम् । ततस्तेन
वडूआख्यवेलाकूलखामी राजपुत्रः, पश्चाशद्धंशमध्यस्थखादिरमुशलस्य एकखड्गप्रहारेण' छेदने 20 प्रभुः, प्रभूतसैन्यत्वात् 'साहणसमुद्र' इति ख्यातः शंखाख्य उत्थापितः । तेन भाणितं
मन्त्रिणे-मत्रिन् ! मदीयमेकं नौवित्तकं न सहसे । मदीयं मित्रमसौ ज्ञेयः । तस्माद्वचनात् क्रुद्धो मन्त्री तं प्रत्यवोचत्-श्मशानवासी भूतेभ्यो न बिभेति । त्वमेव प्रगुणो भूत्वा युधि तिष्ठेः । [इति श्रुत्वा*] सन्नद्धबद्धो [भूत्वा सोऽप्यागतः*] मन्त्री वस्तुपालो ऽपि धवलक्क
काद भूरि सैन्यमानाय्याभ्यषेणयत् । रणक्षेत्रेऽडितो" द्रौ। *प्रारब्धं रणम* 1 शड्रेन 25 निर्दलितं मन्त्रिसैन्यं पलायिष्ट दिशोदिशि । तदा श्रीवस्तुपालेन स्वस्य राजपुत्रो माहेचकनामा
भाषितः-इदमस्मन्मूलघर्ट वर्तते । त्वं च वर्त्तसे । [अथ* ] तत् कुरु येन श्रीवीरधवलो न लज्जते । ततोऽसौ राजपुत्रः खैरेव कतिपयैर्मित्रराजपुत्रैः सह तमभिगम्योवाच-हे शङ्क! नेयं वडूआख्या तव ग्रामहट्टिका", क्षत्रियाणां सङ्ग्रामोऽयम् । शङ्खोऽप्याह-सुष्टु वक्तुं
वेत्सि । नायं तव प्रभोः "पट्टकिलपरिपन्थनप्रदेशः, किन्तु सुभटस्य क्रीडाक्षेत्रमिदम् । इत्येवं 30 वादैर्जाते द्वन्द्वरणे माहेचकेन मन्त्रिणि पश्यति मन्त्रिप्रतापाच्छङ्खः पातितः । समरे जातो
दण्डान्तर्गतः पाठः पतितः P पुस्तके। 1 AB मनयेता। 2 AB तस्माद् धर्म। 3 AB नास्ति । 4 P सैद०। 5P पुस्तक एवेदं पदम्। 6P तव। 7AB खङ्गेन छेदने। 8A प्रत्यवीवचत् । *P पुस्तक एव एते पाठा: प्राप्यन्ते। 9P मन्त्रिणा। 10P वस्तुपालेन। 11 P मिलिती। -12 P नास्ति । 13 P स्वमेव। 14 P ग्रामसीमआखेटक्रीडा किन्तु। 15P पट्टः किल परिपन्थिनः। 16 AB माहिच्चकेन ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org