________________
वस्तुपालप्रबन्धः।
६१२६) इतश्च महीतटाख्यदेशे गोध्रा'नाम नगरम्। 'यत्र तत्तत्कार्येषु सङ्ग्रामे मृतानां राजपुत्राणां एकोत्तरशतसंख्यानि स्वयंभूलिङ्गानि उदभूवन् । तत्र घूघुलो नाम मण्डलीकः । स गूर्जरधरासमागन्तुकसार्थान् गृह्णाति । राणश्रीवीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपाल-तेजःपालाभ्यां भट्टः प्रेषितः-अस्मत्प्रभोराज्ञां मन्यख, अन्यथा साङ्गण-चामुण्डराजादीनां मध्ये मिल इति कथापितम् । तच्छ्रवणात् क्रुद्धेन तेन तेनैव भट्टेन सह स्वभट्टः प्रस्थापितः। तेनागत्य राणश्री- 5 वीरधवलाय कजलगृहं शाटिका चेति द्वयं दत्तम् । उक्तं च-ममान्तःपुरं सर्वोऽपि राजलोक इति नः प्रभुणा ख्यापितमस्ति । राणेन स भट्टः सत्कृत्य प्रहितः । गतः स्वस्थानम् । राणेन भाषिताः सर्वे निजभटाः-घूघुलविग्रहाय बीटकं को ग्रहीष्यति ? । 'कोऽपि नाद्रियते । तदा तेजःपालेन गृहीतम्। चलितःप्रौढसैन्यपरिच्छदः । गतस्तद्देशादागभागे कियत्यामपि भुवि', स्थित्वा सैन्यं कियदपि, स्वल्पमग्रे प्रास्थापयत् । खयं महति मेलापके गुप्तस्तस्थौ । अल्पेन सैन्येनाग्रे गत्वा 10 गोध्रागोकुलानि वालितानि । गोपालाः शरैस्ताडिताः। तैरन्तर्गोध्रकं पूत्कृतम्-गावो ह्रियन्ते कैश्चित् । क्षात्रं धर्म पुरस्कृत्य ततो धावत धावत इति शब्दे श्रुते घूघुलो व्यचिन्तयत्'नवीनमिदम् , केनास्मत्पद्रमागत्य गावो हियन्ते ?। २६६. वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे, सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे ।
आतंत्राणपरायणैकमनसां येषां न शस्त्रग्रह,-स्तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ॥ २९॥ 15 इति वदन्नेव ससेनस्तुरङ्गममारूढः। जातोऽनुपदी गोहर्तृणाम् । गोहद्रोऽपि घूघुलाय दर्शनं ददते, शरान् सन्दधते, न च स्थित्वा युद्ध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुलो यावन्मत्रिणो महति वृन्दे प्रविष्टः । ततो ज्ञातमीदृशं छद्मदं मत्रिणः । भवतु तावत् घूघुलोऽस्मि । निजाः सुभटाः समराय प्रेरिताः । स्वयं सविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् । मन्त्रिकटकेनापि डुढोके । चिरं रणरसरभसोऽभूत् । भग्नं घूघुलेन मन्त्रिकटकं कांदिशीकं दिशोदिशि 20 गच्छति । तदा मन्त्रितेजःपालेन स्थिरमश्वस्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्रा भाषिताः-अरिस्तावडली, आत्मीयं तु भग्नं सकलं बलम् । नष्टानामस्माकं का गतिः, किं यशः। [यशो" विना] जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् । तैरपि सप्तभिस्तद्वचोऽभिमतम् । व्याधुटिताऽष्टौ नन्ति नाराचादिभिः परसेनाम् । तावन्मानं स्ववृन्दं सङ्घटितं दृष्ट्वा, अपरेऽपि सत्त्वं धृत्वा" वलिताः । तदा तेजःपाल एकत्र निजांसेऽम्बिकादेवीमपरत्र 15 कपर्दियक्षं पश्यति । अतो जयं निश्चित्य प्रहरंस्तावद्ययौ यावद् घूघुलः । गत्वा भाषितः-हे मण्डलीक ! येनास्मन्नाथाय कज्जलगृहादि प्रहीयते तद् “भुजाबलं दर्शय । घूघुलोऽपि प्रत्याह-इदं तद् भुजाबलं पश्य-इत्युक्त्वा निबिडं युयुधे । द्वन्द्वयुद्धं मन्त्रि-मण्डलीकयोः सञ्जातम् । अथ मन्त्री सहसा दैवतबल-भुजाबलाभ्यां तमश्वादपीपतत् । जीवन्तं बद्ध्वा काष्ठपञ्जरेऽचिक्षिपत् । स्वसेनान्तर्निनाय । स्वयं बहपरिच्छदो गोध्रानगरं प्रविवेश । अश्वसहस्राणि चत्वारि, अष्टादश 30 कोटीहेम्नां कोशम् , मूटकं शुद्धमुक्ताफलनाम् , दिव्यास्त्राणि, दिव्यवस्त्राणि इत्यादि सर्व जग्राह ।
1 P गोधिरा। । दण्डान्तर्गतः पाठो नास्ति P पुस्तके। 2 ED स्वयं च लिंगानि; B स्वयं च लिंगितानि । 3 ABD स्खे सर्वे। 4 P विहाय नास्त्यन्यत्र; अग्रे 'उक्तं च' इत्यपि दृश्यतेऽधिकम् । 5 P परं कोऽपि । 6 A भुवं । 7 A विचिन्तयति । 8 P गतोऽनुपदं। 9 A पृतनाऽपि । 10 P विहाय नास्त्यन्यत्र 'यशो विना'। 11 A अवलम्ब्य। 12 A सर्वत्र 'भुजबलं'। 13 A B नास्ति। 14 P पुस्तक एवं लभ्यते पदमिदम् ।
www.jainelibrary.org
Jain Education International
Education Interational
For Private & Personal Use Only
For Private & Personal Use Only