________________
प्रबन्धकोशे
भूसंज्ञया राणकस्तममोचयत् । मध्यमागत्य स उवाच-देव ! सामन्तपाल-अनन्तपाल-त्रिलोकसिंहस्त्वत्त्यक्तैर्भीमसिंहमाश्रितैः कथापितमास्ते-देव! त्रिभिलक्षैर्ये भटास्त्वया स्थापिता भवन्ति, तैरात्मानं सम्यग् रक्षेः । प्रातः कुमार्यामारेण्यां त्वामेव प्रथमतममेष्यामः। इति श्रुत्वा हृष्टेन राणेन ससत्कारं स प्रैषि । कथापितं च-एते वयमागता एव प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि 5 तत्रैव ज्ञास्यते भुजसौष्ठवम् । गतः स तत्र । प्रातर्मिलितं बलद्वयम् । वादितानि रणतुर्याणि । अङ्गेषु भटानां वर्माणि न ममुः। दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं द्रव्यलक्षत्रयं भीमसिंहात्सद्यो लात्वाऽर्थिभ्यो ददे । खयमश्वेष्वारूढाः। प्रवर्तन्ते प्रहाराः। उत्थितमान्ध्यं शस्त्रैः । पतन्ति शराः कृतान्तदूताभाः। आरूढं प्रहरमात्रमहः । सावधानो वीरधवलः । दत्तावधाना मच्यादयस्तद्रक्षकाः । अत्रान्तरे आगतास्ते त्रयो मरुवीराः। भाषितः स्वमुखेन तैीरध10 वल:-अयं देवः इमे वयम्। सावधानीभूय रक्षाऽऽत्मानम् । त्वद्योधा अपि त्वां रक्षन्तु। वीरधवलेनाप्युक्तम्-किमत्र विकत्थध्वे । क्रिययैव दोःस्थाम प्रकाश्यताम् । एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । यत्नपरेषु तटस्थेषु रक्षत्स्वपि तैर्भलत्रयं वीरधवलस्य भाले लिङ्गितम् । एवं त्वां हन्मः, परं एकं तव बीटकं तदा भक्षितमस्माभिः-इति वदद्भिस्तैरेव श्रीवीरधवलस्य तटस्थाः प्रहरणैः पातिताः ।
तेऽपि त्रयो मारवाः 'व्रणशतजर्जराङ्गाः सनाताः । राणश्रीवीरधवल ऊपरवटाश्वात्पातितः। 15 ऊपरवटस्तैौरवैः स्वोत्तारके बन्धितः प्रच्छन्नः । रजसाऽन्धं जगत् । तदा राणश्रीवीरधवलो भुवि पातितो भट्टैरुत्पाट्य लले । तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्री भीमसिंहीयाः सुभटाः सर्वेऽपि वदन्ति-अस्माभिर्वीरधवलः पातितः । ततो मारवैरभिहितम्-युष्माभिः पातित इति किमत्राभिज्ञानम् । तैरुक्तम्-किं भवद्भिः पातितः? । मारवैरभिदधे-अस्माभिरेव पातितः।
ऊपरवटो वदिष्यति । उत्तारकादानीय ऊपरवटो दर्शितः। तुष्टो भीमसिंहः । उक्तवांश्च-शुद्ध20 राजपुत्रेभ्यो दत्तं धनं शतधा फलति । इदमेव प्रमाणम् । 'रिपुहयहरणं क्षत्रियाणां महान्
शृङ्गारः । एवं वार्ताः कुर्वतां भटानां रात्रिर्गता। प्रातर्वीरधवलो व्रणजर्जरोऽपि पटूभूयाक्षान् क्रीडितुं प्रवृत्तः । भीमसिंहसैन्यहेरिकैर्गत्वा तज्ज्ञात्वा तत्रोक्तम्-वीरधवलः कुशली गर्जति । [एवं सति ] यज्जानीथ तत्कुरुथ । अथ भीमसिंहाय तन्मतिभिर्विज्ञप्तम्-देव ! अयं बद्धमूलो
देशेशः। अनेन विरोधो दरायतिः। तस्मात्सन्धिः श्रेष्ठः। भीमसिंहेन मानितं तद्वचनम । परं 25 सङ्ग्रामाडम्बरः कृतः। अन्योऽन्यमपि यावद् अड्डितौ द्वौ, तावद् भट्टैरन्तरा प्रविश्य मेलः कृतः।
ऊपरवटाश्वो राणाय दापितः। भीमसिंहेन भद्रेश्वरमात्रेण धृतिधरणीया, बिरुदानि न पाठनीयानि; इति व्यवस्थाऽऽसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन् श्रीधवलककमागात् । शनैः शनैः प्राप्तपरमप्राणो भीमसिंहमपराध्यन्तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । ["एवं] धवलक्के राज्यं कुर्वतस्तस्य क्षुभितैः प्रभूतैः परराष्ट्रपतिभिः खं दत्तम् । तेन खेन सैन्यमेव 30 मेलितम् । चतुर्दशशतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलितानि । तानि समभोजन
भोग-वसन-वाहनानि श्रीतेजःपालस्य सहचारिणीछायावत् समजीवितमरणत्वेन स्थितानि । तहलेन सैन्यबलेन च स्वभुजाबलेन सर्वं जीयते।
1 ABD नास्ति पदमेतत् । 2 ABD विकत्थन (?)। 3A लिखितं । 4 A व्रणवात। 5A देवितुं । 6P विनाऽन्यत्र नास्ति । 7A तद्वचनं मतं। 8 A अद्भुती; P मिलितौ। 9 P विनाऽन्यत्र नास्ति 'अन्तरा प्रविश्य'। 10 P विना नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal Use Only