________________
वस्तुपालप्रबन्धः।
१०५
यत्, बहुसैन्यं च । भीमसिंहोऽपि बलेन प्रबलः । उभयपक्षेऽपि बलवत्ता ।
१२५) अत्रान्तरे जावालिपुरे चाहमानकुलतिलकः 'श्रीअश्वराजशाखीयः केतुपुत्रसमरसिंहनन्दनः श्रीउदयसिंहो नाम राजकुलो राज्यं भुनक्ति। तस्य दायादास्त्रयः सहोदराः सामन्तपाल-अनन्तपाल-त्रिलोकसिंहनामानो दातारः शूरास्तद्दत्तग्रासेन तृप्तिमदधतो धवलक्कमागत्य श्रीवीरधवलं द्वाःस्थेनाबभाणन्-देव! वयममुकवंश्यास्त्रयः क्षत्रियाः सेवार्थिन आगताः स्मः। 5 यद्यादेशः स्यात् तदा आगच्छामः । राणकेनाहूतास्ते । तेज-आकृति-श्रमादिभिः शोभनाः। रुचितास्ते तस्य । परं पृष्टाः-को ग्रासो वः कल्पते? ते प्रोचुः-देव! प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं ग्रासः। राणकेनोक्तम्-इयता धनेन शतानि भटानां सङ्गच्छन्ते । किमधिकं यूयं करिष्यथ ? । न दास्यामीयत् । इति कथयित्वा ते बीटकदानपूर्व विसृष्टाः । तदा मनिवस्तुपाल-तेजःपालाभ्यां विज्ञप्तम्-खामिन् ! न एते मुच्यन्ते। पुरुषसङ्ग्रहाद् धनं न बहु मन्तव्यम् । 10 २६४. वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् । नारी-पुरुष-तोयानां अन्तरं महदन्तरम् ॥ २७॥
वं विज्ञप्तमपि राणकेन नावधारितम मक्ता एव ते गताः प्रतिभरत श्रीभीमसिंह प्रतीहारम् । भेटितः सः । उक्तो वीरधवलकृतः कार्पण्यव्यवहारः। तुष्टो भीमसिंहः। कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चोक्तम्-देव! शीघ्रमेव कथापय वीरधवलाय अस्मद्वलेन, यथा-यदि क्षत्रियोऽसि, तदा शीघ्रं युद्धायागच्छेः । अन्यथा अस्मदीयो भूत्वा जीवेः । प्रेषितो भीमसिंहेन 15 भः । उक्तः समेत्य वीरधवलस्तत् । [एवं श्रुत्वा*] वीरधवल ससैन्यश्चलितः। भद्रं पुरः प्राहैषीत् । पञ्चग्रामग्रामे' युद्धमावयोः। तत्र क्षेत्रं कारयन्नस्मि । शीघमागच्छेरित्याद्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः 'सबलः । सङ्घटितं सैन्यद्वयम् । वर्तन्ते [ भटानां*] सिंहनादाः, नृत्यन्ति पात्राणि, दीयन्ते धनानि । [पूज्यन्ते शस्त्राणि, बद्ध्यन्ते महावीराणां टोडराणि*] त्रिदिनं तैयुद्धं प्रतिष्ठितम् । उत्कण्ठिता योद्धारः।
'नेदीयानिबाहूनामाहवो हि महामहः ।' सङ्ग्रामदिनादर्वाग् मनिवस्तुपाल-तेजःपालाभ्यां स्वामी विज्ञप्तः-देव ! त्रयो मारवाः सुभटास्त्वया न संगृहीतास्ते परबले मिलिताः। तद्बलेन भीमसिंहो निर्भीर्गर्जति, इति अवधार्यम् । चरैरपि निवेदितमेतन्नौ । राणकेनोक्तम्-यदस्ति तदस्तु । किं भयम् ।
'जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ? ।' मत्रिणा ज्यायसोक्तम्-स्वामिन् ! कार्मुककरे देवे के परे परोलक्षा अपि । 'यदुक्तम्२६५. कालः केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः, कासारे "वनकासराः सरभसं गर्जन्त्विह खेच्छया । ___अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागतिं, कान्तारान्तरसञ्चरव्यसनवान् यावन्न" कण्ठीरवः ॥२८॥ कण्ठीरवे तु दृष्टे कुण्ठाः सर्वे वन्याः। अन्यच्च, प्रभो ! अस्मदीयसैन्ये डोडीयावंशीयो जेडुलः, चौलुक्यः सोमवर्मा, "गुलकुल्यः क्षेत्रवर्माऽस्ति । देवस्तु किं वर्ण्यते कल्यर्जुनः। एवं वार्तासु 30 वर्तमानासु द्वाःस्थ एत्य व्यजिज्ञपद्राणकम्-देव ! पुरुष एको द्वारि वोऽस्ति । कस्तस्यादेशः? ।
1-2A नास्ति 'च' 'ऽपि'+ P पुस्तके नास्ति दण्डान्तर्गतः पाठः। 3 P सेवार्थिनराः। 4 E D नास्ति 'कथयित्वा'; A दास्यामीत्युदिते। 5P श्रीभीमसिंहप्रतीहारेण भेटितास्ते। 6A युद्धायापत्तेः। *P विना नास्त्यन्यत्र । 7Pामाने। 8P समेतसैन्येन सबलः। 9A नास्ति । 10P बत। 11 A यावदि। 12 A गुणकुख्यः ।
१४ प्र० को
25
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org