________________
१०४
प्रबन्धकोशे वयोः 'समरारूढयोरहं निर्धवाऽभूवम् । [एतां*] मा म चिन्तां कृथाः । अमुं त्वत्पतिं हत्वापि ते चारु गृहान्तरं करिष्यावः। न च निषिद्धोऽसौ विधिः; राजपुत्रकुलेषु' दृश्यमानत्वात् । ततो जयतलदेव्या-समानोदयौं! नाहं पतिवधभीता व समीपमागाम्, किन्तु निष्पितगृहत्वभीता । स हि 'कोऽस्ति वो मध्ये यस्तं जगदेकवीरं ऊपरवटाख्यहयारूढं नाराचान् क्षिपन्तं 5 कुन्तं' वेल्लयन्तं खङ्गं खेलयन्तं वा द्रष्टुमीशिष्यते । कालः साक्षादरीणां सः।
'अदृष्टपरशक्तिः सर्वोऽपि भवति बलवान् ।' इत्येवं वदन्त्येव ततो निर्गत्य सा सती पतिसविधं गत्वा तां वार्तामुच्चैरकथयत् । तन्निशम्य वीरधवलः क्रोधकरालाक्षो भ्रकुटीभङ्गभीषणभालानुकृतभीमसेनः सङ्ग्रामममण्डयत् । तौ द्वावपि वीराधिवीरौ ससैन्यौ आगतौ । सङ्घटितो रणः । पतितानि योधसहस्राणि पक्षद्वयेऽपि । 10 रजसाऽऽच्छादितं गगनम् । गतः स्व-परविभागः। वीरधवलो हत इति सैन्यद्वयेऽपि व्याचक्रे ।
क्षणार्द्धन वीरधवलो दिव्याश्वाधिरूढः सारसुभटयुक् साङ्गण-चामुण्डराजयोर्मेलापके गत्वा प्रसृतः। ऊचे च-रे सौराष्ट्रौ ! गृहीतं करे शस्त्रं यद्यस्ति तेजः । इत्युक्त्वा तचक्रे यद्देवैर्दिवि शिरो धूनितं कुर्वद्भिर्ददृशे। हतौ साङ्गण-चामुण्डराजौ अभिमुखौ"। शोधितं क्षेत्रम्"। पालिताः
खे परेच पालनार्हाः । प्रविष्टो वीरधवलो वामनस्थलीमध्यम् । गृहीतं शालकयोः कोटिसङ्ख्यं 15 पूर्वजशतसञ्चितं कनकम् , चतुर्दशशतानि दिव्यतुरङ्गमाणाम् , पञ्चसहस्राणि तेजखितुरङ्गमाणाम् , अन्यदपि मणिमुक्ताफलादि । जितं जितमित्युद्धोषः समुच्छालितः । स्थितस्तत्र मासमेकम् । ततो वाजा-मानगजेन्द्र-चूडासमा-वालाकादिखामिनः प्रत्येकं गृहीतधनाः कृताः । द्वीपबेटपत्तनेषु प्रत्येकं बभ्राम । धनमकृशं मिलितम् । एवं सौराष्ट्रजयं कृत्वा समन्त्री राणो धवलकं प्राविक्षत् । उत्सवा उत्सवोपरि" प्रास्फुरन् । 20 ६१२३) तत्र प्रस्तावे चारणेन दोधकपादद्वयं पठितम्
२६३. जीतउं छहिं उणेहिं, सांभली समहरि वाजियइ । एतावदेव पुनः पुनरपाठीत्, नोत्तरार्द्धम् । गतश्चारणः स्वस्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आत्मीयं नाम न्यासयितुं रात्रौ तस्मै प्रत्येकं लश्चामदुः। सोऽपि समग्रहीत् । एवं ग्राहं ग्राहं परिपारिते, एकदा प्रातः सभायां बहुजनाकीर्णायां राणकाग्रे उत्तरार्द्धमप्यपाठीत् ।
__बिहुँ भुजि वीरतणेहिं चिहुं पगि ऊपरवटतणे ॥ २६ ॥ [इति श्रुत्वा* ] सर्वेऽपि चमत्कृता राजन्यकाः । अहो! प्रपञ्चेनानेनास्मान् वञ्चयित्वा निर्यासे तत्त्वमेवोक्तम् । पुनः सविशेषं ददुः [खामिभक्तत्वात् ]।
६१२४) तदा भद्रेश्वरवेलाकूले भीमसिंहो नाम प्रतीहारस्तिष्ठति । स आत्मबली कस्याप्याज्ञा न मनुते"; धनी च । तस्मै वीरधवलो राजा आदेशमदीदपत्-सेवको भव । सोऽपि प्रत्यदीदपत्30 सेवको भव । 'यद्दीयते तल्लभ्यते' इति न्यायः। वीरधवलस्तद्विग्रहाय गूर्जरधराराजपुत्रानमेल
25
____ 1 A B समारूढयो।। 2 P •कुले। 3 P देव्याह । 4 A च। 5 P नास्ति । 6 A B शल्यं । 7 P भीमः सन् । 8 P व्याचक्षे। 9 AC श्वारूढः। 10 P गृह्णीतः। 11 B आभिमुखौ; P असिमुखैः। 12 P रणक्षेत्रे । 13 P उत्सवोपर्यपुस्फुरन् । 14 P वाजतइ। 15P मन्यते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org