________________
श्रीवस्तुपालप्रबन्धः ।
१०३.
कारयित्वा आवां मोक्तव्याविति । अत्र काहलिकं मर्यादीकृत्य परिग्रहस्य धीरा देवयोश्च भवतु । इति राणकाभ्यां धीरां दत्त्वा दापयित्वा प्रधानमुद्रानिवेशस्तेजःपालस्य करे कृतः । स्तम्भतीर्थधवलक्कयोस्त्वाधिपत्यं वस्तुपालस्य निवेशितम् । एवं श्रीकरणमुद्रायां लब्धायाम्, अन्यैव तयोः स्फूर्त्तिरुदलासीत्, देवतासान्निध्यात् सहजबुद्धिबलोदयाच्च । खगृहमायातो वस्तुपालः श्रीजिनराजं पूजयामास । अथ तत्त्वं क्षणमचिन्तयत्
२५३. उच्चैर्गर्व समारोप्य नरं श्रीराशु नश्यति । दैन्यदत्तावलम्बोऽथ स तस्मादवरोहति ॥ १६ ॥ २५४. अन्धा एव धनान्धाः स्युरिति सत्यं तथाहि ते । अन्योक्तेनाध्वना गच्छन्त्यन्य हस्तावलम्बिनः ॥ १७ ॥ २५५. धनी धनात्यये जाते दूरं दुःखेन दूयते । दीपहस्तः प्रदीपेऽस्ते तमसा बाध्यतेऽधिकम् ॥ १८ ॥ २५६. छत्रच्छायाछलेनामी धात्रा चक्रे निवेशिताः । भ्रमन्तोऽपि स्वमात्मानं मन्यन्ते स्थिरमीश्वराः ॥ १९ ॥ २५७. कालेन सौनिकेनेव नीयमानो जनः पशुः । क्षिपत्येष धिगासने' मुखं विषयशाडुले ॥ २० ॥ कायः कर्मकरोऽयं तन्नात्र कार्याऽतिलालना | भृतिमात्रोचितो ह्येष प्रपुष्टो विचिकीर्षति ॥ २१ ॥ २५९. प्रयोजकान्यकार्येषु नश्यन्ताशु महापदि । दुर्मित्राणीव खान्येषु बन्धुबुद्धिरधीमताम् ॥ २२ ॥ २६०. विषयामिषमुत्सृज्य दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ बिभ्यत्तेभ्यः पलायते ॥ २३ ॥ २६१. दुःखाग्निर्वा स्मराग्निर्वा क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायान्ति देहिनाम विवेकिनाम् ॥ २४ ॥ २६२. विधौ विध्यति सक्रोधे वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं जायते' गतिः ॥ २५ ॥
२५८.
15
इत्यादि ध्यात्वा वस्त्राणि परावृत्त्य श्रीवस्तुपालः सपरिजनो बुभुजे । गृहीतताम्बूलो राजकुलमगमत् । एवं दिनसप्तके गते, प्रथमं तद्राज्यजीर्णाधिकारी एक एकविंशतिलक्षाणि वृहद्रम्माणां ausः । पूर्वमविनतोऽभूत् । [ तदनु* ] विनयं ग्राहितः । तैर्द्रव्यैः कियदपि हयपत्तिलक्षणं सारं सैन्यं कृतम् । तेजः पालेन पश्चात्सैन्यबलेन धवलक्कप्रतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरसञ्चितं धनं हक्कयैव दण्डिताः; जीर्णव्यापारिणो निश्चयो तिताः । एवं मिलितं प्रभूतं खम् । ततः खबल सै - 20 न्यसंग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन् मन्त्री । अदण्डयत् सर्वम् । ततोऽद्भुतर्द्धिर्वीरधवलस्तेजः पालेन जगदे-देव ! सुराष्ट्रराष्ट्रेऽत्यन्तधनिनः ठक्करास्ते दण्ड्यन्ते । ततोऽचलदयम् ।
1 AB तथ्यं । 2 P अन्ये । 3 A 8 P नाम्ना जयतलदेवीं बहुपरिजनपरिवृतां ।
' लब्धा स्वादः पुमान् यत्र तत्रासक्तिं न मुञ्चति ।'
(१२२) अथ वर्धमानपुर- गोहिलवाव्यादिप्रभून् दण्डयन्तौ प्रभु मन्त्रिणौ वामनस्थलीं आगा- 25 ताम् । तटे चतुरकान् दत्त्वा स्थितो वीरधवलः । वामनस्थल्यां तदानीं यौ प्रभू सहोदरी तो साङ्गण चामुण्डराज नामानौ उद्दामस्थामानौ राणश्री वीरधवलस्य शालको - इति सौजन्यमर्यादां पालयंस्तद्भगिनीं निजजायां 'जयतलदेवीं मध्ये प्राहैषीत् । बहुपरिजना च सा गत्वा सहोदरौ अभाषिष्ट - भ्रातरौ ! भवतां भगिनीपतिरदण्डदण्डनः [ अभङ्गभञ्जनः * ] गूर्जर धरायां प्रतिग्रामं प्रतिपुरं दण्डयन् भवतोर्दण्डनायात्रा" गतोऽस्ति । दीयतां धनाश्वादिसारम् । एतद् भगिनीवचः 80 श्रुत्वा मदाध्माती" प्रोचतुः - मन्ये खसस्त्वं ततः समायाता सन्ध्यर्थम् । यतो माऽस्मद्बान्ध
Jain Education International
grati 4 A पुष्टोऽपि । 5A आयाति । 6P जायतां । 9A ०धरां । 10 A दण्डनयात्रागतो० । 11 A B नास्ति ।
5
For Private & Personal Use Only
10
7 P सबल० ।
www.jainelibrary.org