Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith
________________
प्रबन्धकोशे २७२. अस्मिन्नसारे संसारे सारं सारङ्गलोचनाः । मत्रिभ्यां श्रुतं चिन्तितं च-अहो! मठपतिवद्देवगृहेऽपि शृङ्गारागारगर्भ पद्यं प्रस्तौति । देवनमस्कारादिकमुचितमिह, तन्नाधीते । तस्मादृष्टव्योऽसौ । उपविष्टः सूरिः सः। अन्येऽपि सूरयः
शतशः पङ्को निषण्णाः । मङ्गलदीपान्तेऽपरसूरिभिर्मल्लवादिन एवाशीर्वादाय प्रेरिताः । मन्त्री 5 पुरस्तिष्ठति । 'अस्मिन्नसारे संसारे' इत्यादि पादद्वयं भणितं तैः। [व्याख्यातं च तदेव* ] मन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकम् । एवं दिनाः ८ [स एव*] पद्यार्द्धपाठश्च [०चके । नवनवभङ्गया व्याख्यातः* ] मत्र्यवज्ञा' चारोहत्प्रकर्षे । अष्टम्यां रात्री मन्त्री मुत्कलापनिकां कर्तुं देवरङ्गमण्डपे निविष्टः । पुरो धनबदरकाः । कोऽपि कविराह
२७३. श्रीवस्तुपाल ! तव भालतले जिनाज्ञा, वाणी मुखे हृदि कृपा करपल्लवे श्रीः । 10 देहे द्युतिर्विलसतीति रुषेव कीर्तिः, पैतामहं सपदि धाम जगाम नाम ॥ ३५ ॥
अपरस्तु२७४. अनिस्सरन्तीमपि गेहगर्भात्, कीर्ति परेषामसतीं वदन्ति । खैरं भ्रमन्तीमपि वस्तुपाल !, त्वत्कीर्तिमाहुः कवयः सतीं तु ॥ ३६ ॥
इतरस्तु___15 २७५. सेयं समुद्रवसना तव दानकीर्ति,-पूरोत्तरीयपिहिताऽवयवा समन्तात् ।
अद्यापि कर्णविकलेति न लक्ष्यते यत् , तन्नाद्भुतं सचिवपुङ्गव ! वस्तुपाल ! ॥ ३७॥
___ कश्चित्तु२७६. क्रमेण मन्दीकृतकर्णशक्तिः, प्रकाशयन्ती च बलिखभावम् ।
___ कैर्नानुभूता सशिरःप्रकम्पं, जरेव दत्तिस्तव वस्तुपाल ! ॥ ३८ ॥ 20 तेभ्यः कविभ्यः सहस्रलक्षाणि ददिरे । एवं गायनभद्दादिभ्योऽपि । यावज्जातं प्रातरिव, तदा मल्लवादिभिः स्वसेवकाश्चैत्यद्वारद्वयेऽपि नियुक्ताः । एकं द्वारमन्यदिशि, एकं च मठदिशि । उक्तं च तेभ्यः-मन्त्री चैत्यान्निःसरन् ज्ञापनीयः। क्षणेन वस्तुपालो मठद्वारान्निर्गच्छति [यावत् ] तावता सेवकज्ञापिताः सूरयः समागत्य सम्मुखाः स्थिताः। मन्त्रिणा रीढया '5प्रणाम इव कृतः। आचार्यैरभिहितम्
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति । विजीयताम् ; तीर्थानि पूज्यन्ताम् । मन्त्री कौतुकात्तथैव तस्थौ, किंपर्यवसानेयं प्रस्तावनेति ध्यानात; ऊचे च-न विद्मः परमार्थ किमेतदभिदध्वे । आचार्येरुक्तम्-पुरो गम्यताम्, ताम्। भवतां कार्याणि भूयांसि । मन्त्री सविशेषं पृच्छति। सूरयो वदन्ति-सचिवेन्द्र ! श्रूयताम्
६१३१) मरुग्रामे कचित् ग्रामाराः स्थूलबहुला लोमशाः पशवो वसन्ति । पर्षदि निषीदन्ति । 30 कपोलझल्लरी वादयन्ति । तत्रैकदा वेलाकूलीयचरः पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यै
25
गम्य
1P पदद्वयं कथयन्नस्तीति । 2 P तत्किं नाधीते। 3A मछयवज्ञातविचारोहत्प्रकर्षे B मध्यज्ञात चारो०; DE मच्यज्ञानं चा०। 4 P बदरकाणां राशयः। 1P पुस्तके नोपलभ्यते पद्यमिदम् । 5P पुनः कश्चिदूचुः। 6P चास्ति । 7 P प्रभुप्रणाम ।
www.jainelibrary.org
Jain Education Intemational
For Private & Personal Use Only
Jain Education Intermational
For Private & Personal Use Only
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176