Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 139
________________ प्रबन्धकोशे २९८. त्वत्प्रासादकृते नीडे वसन् शृण्वन् गुणांस्तव । सङ्घदर्शनतुष्टात्मा भूयासं विहगोऽप्यहम् ॥ ६१ ॥ २९९. यदाये द्यूतकारस्य यत्प्रियायां वियोगिनः । यद्राधावेधिनो लक्ष्ये तद् ध्यानं मेऽस्तु ते मते ॥ ६२ ॥ इत्याद्यकवत् । एवं सद्योऽपि चलितः। ससङ्घः सचिवः मरुदेवाशिखरादग्रे यावत् कियदपि याति, तावत् श्रमवशविगलत्खेदक्लिन्नगात्रवसनान् कत्यपि मालिकान् पुष्पकरण्डकभारितशिर5 सोऽपश्यत्। पृष्टास्ते-कथमुत्सुका इव यूयम् ? । तैर्विज्ञप्तम्-देव ! वयं दूरात् पुष्पाण्याहार्मः। सङ्घः किल शत्रुञ्जयशिखरेऽस्ति; प्रकृष्टं मूल्यं लप्स्यामहे । तत्पुनरन्यथा जातम् । सङ्घश्वलितः। तस्मादभाग्या वयमिति । तेषां दैन्यं दृष्ट्वा मत्रिणाऽभाणि-अत्रैव स्थीयतामूःक्षणम् । तावता पाश्चात्यं सर्वमप्यायातम् । श्रीवस्तुपालेन खकुटुम्बं सङ्घश्वाभाण्येताम् । यथा-भो धन्याः! सर्वेषां पूर्णस्तीर्थवन्दनापूजाभिलाषः। लोकेनोक्तम्-[भवत्प्रसादात्*] पूर्णः। मच्याह-किमपि 10 तीर्थमपूजितं स्थितम् [अस्ति* ] ? लोकः प्राह-प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि । मनिमहेन्द्रः प्राह-यद्विस्मृतं तन्न जानीथ यूयम् , वयं स्मारयामः । सङ्घो वदति-किं विस्मृतम् । [तत्कथयन्तु*] मन्त्री गदति-भो लोकाः ! पूर्व तीर्थमयं पर्वतः । यत्र स्वयमृषभदेवः समवासापीत् । ततो नेमिवर्जिता द्वाविंशतिर्जिनाः समवासार्दुः। असङ्ख्याः सिद्धाश्च यत्र।सोऽद्रिः कथं न तीर्थम् । लोकोऽप्याह-सत्यं तीर्थमयं पर्वतः।तर्हि पूज्यताम् । पुष्पादीनि केति चेत् [अकथयिष्यन् 15 तदा*] इमे मालिका इमानि पुष्पाणि वः पुण्यैरुपास्थिषतेति । ततः सङ्घन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता । [ द्रम्मेण पुष्पं जातम्* ] नालिकेरास्फालन-वस्त्रदानादिकेलयश्च । तुष्टा मालिकाः। एवं पराशाभङ्गपराङ्मुखः आसराजभूः। ___६१४०) [तता* ] शनैः शनैः पशु-तुरङ्ग-शिश्वाद्यपीडया सङ्घो रैवतकमारुरोह च । नेमिनि दृष्टे मन्त्री ननर्त, पपाठ च आनन्दाश्रुनिर्झरिताक्ष:20 ३००. कल्पद्रुमस्तरसौ तरवस्तथाऽन्ये, चिन्तामणिमणिरसौ मणयस्तथाऽन्ये । धिग् जातिमेव ददृशे बत यत्र नेमिः, श्रीरैवते स दिवसो दिवसास्तथाऽन्ये ॥ ६३॥ ३०१. अभङ्गवैराग्यतरङ्गरौं, चित्ते त्वदीये यदुवंशरत्न !। कथं कृशाङ्योऽपि हि मान्तु हन्त, यस्मादनकोऽपि पदं न लेभे ॥ ६४ ॥ तत्राऽप्यष्टाहिकादिविधिःप्रागिव । नाभेयभवनकल्याणत्रय-गजेन्द्रपदकुण्डान्तिकप्रासाद-अ25 म्बिका-शाम्ब-प्रद्युम्नशिखरतोरणादिकीर्तनदर्शनैर्मनी सङ्घश्व नयनयोः स्वादुफलमार्पिपताम् । आरात्रिकेऽर्थिनां ससम्भ्रमं मन्त्रिमध्ये झम्पापनं दृष्ट्वा श्रीसोमेश्वरश्वकवे३०२. इच्छासिद्धिसमन्विते सुरगणे कल्पद्रुमैः स्थीयते, पाताले पवमानभोजनजने कष्टं प्रणष्टो बलिः । नीरागानगमन् मुनीन् सुरभयश्चिन्तामणिः क्वाप्यगात्, तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥६५॥ लक्षः सपादोऽस्य दत्तौ मन्त्रिणः । दानमण्डपिकायां निषण्णो निरर्गलं [दानं* ] ददद् एवं 30 स्तुतः केनापि [कविना*]३०३. पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वस्था नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । ___ वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जलाः, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ॥६६॥ ___ 1 P इत्याद्यकथयत् ; A इत्याद्येकवत् ; V इत्याद्यपठत् । 27 वृत्तम्। 3 P आभाण्यताम् । 4 P त्रयोविंशतिः । 5 P संघस्य । 6A झम्पापतनं। 7A सोमेश्वरस्य कवे; P सोमेश्वरकविः प्राह। 8 P समुन्नते। . Jain Education Intemational For Private & Personal Use Only ducation Intermational www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176