Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 128
________________ वस्तुपालप्रबन्धः। १०५ यत्, बहुसैन्यं च । भीमसिंहोऽपि बलेन प्रबलः । उभयपक्षेऽपि बलवत्ता । १२५) अत्रान्तरे जावालिपुरे चाहमानकुलतिलकः 'श्रीअश्वराजशाखीयः केतुपुत्रसमरसिंहनन्दनः श्रीउदयसिंहो नाम राजकुलो राज्यं भुनक्ति। तस्य दायादास्त्रयः सहोदराः सामन्तपाल-अनन्तपाल-त्रिलोकसिंहनामानो दातारः शूरास्तद्दत्तग्रासेन तृप्तिमदधतो धवलक्कमागत्य श्रीवीरधवलं द्वाःस्थेनाबभाणन्-देव! वयममुकवंश्यास्त्रयः क्षत्रियाः सेवार्थिन आगताः स्मः। 5 यद्यादेशः स्यात् तदा आगच्छामः । राणकेनाहूतास्ते । तेज-आकृति-श्रमादिभिः शोभनाः। रुचितास्ते तस्य । परं पृष्टाः-को ग्रासो वः कल्पते? ते प्रोचुः-देव! प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं ग्रासः। राणकेनोक्तम्-इयता धनेन शतानि भटानां सङ्गच्छन्ते । किमधिकं यूयं करिष्यथ ? । न दास्यामीयत् । इति कथयित्वा ते बीटकदानपूर्व विसृष्टाः । तदा मनिवस्तुपाल-तेजःपालाभ्यां विज्ञप्तम्-खामिन् ! न एते मुच्यन्ते। पुरुषसङ्ग्रहाद् धनं न बहु मन्तव्यम् । 10 २६४. वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् । नारी-पुरुष-तोयानां अन्तरं महदन्तरम् ॥ २७॥ वं विज्ञप्तमपि राणकेन नावधारितम मक्ता एव ते गताः प्रतिभरत श्रीभीमसिंह प्रतीहारम् । भेटितः सः । उक्तो वीरधवलकृतः कार्पण्यव्यवहारः। तुष्टो भीमसिंहः। कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चोक्तम्-देव! शीघ्रमेव कथापय वीरधवलाय अस्मद्वलेन, यथा-यदि क्षत्रियोऽसि, तदा शीघ्रं युद्धायागच्छेः । अन्यथा अस्मदीयो भूत्वा जीवेः । प्रेषितो भीमसिंहेन 15 भः । उक्तः समेत्य वीरधवलस्तत् । [एवं श्रुत्वा*] वीरधवल ससैन्यश्चलितः। भद्रं पुरः प्राहैषीत् । पञ्चग्रामग्रामे' युद्धमावयोः। तत्र क्षेत्रं कारयन्नस्मि । शीघमागच्छेरित्याद्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः 'सबलः । सङ्घटितं सैन्यद्वयम् । वर्तन्ते [ भटानां*] सिंहनादाः, नृत्यन्ति पात्राणि, दीयन्ते धनानि । [पूज्यन्ते शस्त्राणि, बद्ध्यन्ते महावीराणां टोडराणि*] त्रिदिनं तैयुद्धं प्रतिष्ठितम् । उत्कण्ठिता योद्धारः। 'नेदीयानिबाहूनामाहवो हि महामहः ।' सङ्ग्रामदिनादर्वाग् मनिवस्तुपाल-तेजःपालाभ्यां स्वामी विज्ञप्तः-देव ! त्रयो मारवाः सुभटास्त्वया न संगृहीतास्ते परबले मिलिताः। तद्बलेन भीमसिंहो निर्भीर्गर्जति, इति अवधार्यम् । चरैरपि निवेदितमेतन्नौ । राणकेनोक्तम्-यदस्ति तदस्तु । किं भयम् । 'जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ? ।' मत्रिणा ज्यायसोक्तम्-स्वामिन् ! कार्मुककरे देवे के परे परोलक्षा अपि । 'यदुक्तम्२६५. कालः केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः, कासारे "वनकासराः सरभसं गर्जन्त्विह खेच्छया । ___अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागतिं, कान्तारान्तरसञ्चरव्यसनवान् यावन्न" कण्ठीरवः ॥२८॥ कण्ठीरवे तु दृष्टे कुण्ठाः सर्वे वन्याः। अन्यच्च, प्रभो ! अस्मदीयसैन्ये डोडीयावंशीयो जेडुलः, चौलुक्यः सोमवर्मा, "गुलकुल्यः क्षेत्रवर्माऽस्ति । देवस्तु किं वर्ण्यते कल्यर्जुनः। एवं वार्तासु 30 वर्तमानासु द्वाःस्थ एत्य व्यजिज्ञपद्राणकम्-देव ! पुरुष एको द्वारि वोऽस्ति । कस्तस्यादेशः? । 1-2A नास्ति 'च' 'ऽपि'+ P पुस्तके नास्ति दण्डान्तर्गतः पाठः। 3 P सेवार्थिनराः। 4 E D नास्ति 'कथयित्वा'; A दास्यामीत्युदिते। 5P श्रीभीमसिंहप्रतीहारेण भेटितास्ते। 6A युद्धायापत्तेः। *P विना नास्त्यन्यत्र । 7Pामाने। 8P समेतसैन्येन सबलः। 9A नास्ति । 10P बत। 11 A यावदि। 12 A गुणकुख्यः । १४ प्र० को 25 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176