Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 129
________________ प्रबन्धकोशे भूसंज्ञया राणकस्तममोचयत् । मध्यमागत्य स उवाच-देव ! सामन्तपाल-अनन्तपाल-त्रिलोकसिंहस्त्वत्त्यक्तैर्भीमसिंहमाश्रितैः कथापितमास्ते-देव! त्रिभिलक्षैर्ये भटास्त्वया स्थापिता भवन्ति, तैरात्मानं सम्यग् रक्षेः । प्रातः कुमार्यामारेण्यां त्वामेव प्रथमतममेष्यामः। इति श्रुत्वा हृष्टेन राणेन ससत्कारं स प्रैषि । कथापितं च-एते वयमागता एव प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि 5 तत्रैव ज्ञास्यते भुजसौष्ठवम् । गतः स तत्र । प्रातर्मिलितं बलद्वयम् । वादितानि रणतुर्याणि । अङ्गेषु भटानां वर्माणि न ममुः। दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं द्रव्यलक्षत्रयं भीमसिंहात्सद्यो लात्वाऽर्थिभ्यो ददे । खयमश्वेष्वारूढाः। प्रवर्तन्ते प्रहाराः। उत्थितमान्ध्यं शस्त्रैः । पतन्ति शराः कृतान्तदूताभाः। आरूढं प्रहरमात्रमहः । सावधानो वीरधवलः । दत्तावधाना मच्यादयस्तद्रक्षकाः । अत्रान्तरे आगतास्ते त्रयो मरुवीराः। भाषितः स्वमुखेन तैीरध10 वल:-अयं देवः इमे वयम्। सावधानीभूय रक्षाऽऽत्मानम् । त्वद्योधा अपि त्वां रक्षन्तु। वीरधवलेनाप्युक्तम्-किमत्र विकत्थध्वे । क्रिययैव दोःस्थाम प्रकाश्यताम् । एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । यत्नपरेषु तटस्थेषु रक्षत्स्वपि तैर्भलत्रयं वीरधवलस्य भाले लिङ्गितम् । एवं त्वां हन्मः, परं एकं तव बीटकं तदा भक्षितमस्माभिः-इति वदद्भिस्तैरेव श्रीवीरधवलस्य तटस्थाः प्रहरणैः पातिताः । तेऽपि त्रयो मारवाः 'व्रणशतजर्जराङ्गाः सनाताः । राणश्रीवीरधवल ऊपरवटाश्वात्पातितः। 15 ऊपरवटस्तैौरवैः स्वोत्तारके बन्धितः प्रच्छन्नः । रजसाऽन्धं जगत् । तदा राणश्रीवीरधवलो भुवि पातितो भट्टैरुत्पाट्य लले । तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्री भीमसिंहीयाः सुभटाः सर्वेऽपि वदन्ति-अस्माभिर्वीरधवलः पातितः । ततो मारवैरभिहितम्-युष्माभिः पातित इति किमत्राभिज्ञानम् । तैरुक्तम्-किं भवद्भिः पातितः? । मारवैरभिदधे-अस्माभिरेव पातितः। ऊपरवटो वदिष्यति । उत्तारकादानीय ऊपरवटो दर्शितः। तुष्टो भीमसिंहः । उक्तवांश्च-शुद्ध20 राजपुत्रेभ्यो दत्तं धनं शतधा फलति । इदमेव प्रमाणम् । 'रिपुहयहरणं क्षत्रियाणां महान् शृङ्गारः । एवं वार्ताः कुर्वतां भटानां रात्रिर्गता। प्रातर्वीरधवलो व्रणजर्जरोऽपि पटूभूयाक्षान् क्रीडितुं प्रवृत्तः । भीमसिंहसैन्यहेरिकैर्गत्वा तज्ज्ञात्वा तत्रोक्तम्-वीरधवलः कुशली गर्जति । [एवं सति ] यज्जानीथ तत्कुरुथ । अथ भीमसिंहाय तन्मतिभिर्विज्ञप्तम्-देव ! अयं बद्धमूलो देशेशः। अनेन विरोधो दरायतिः। तस्मात्सन्धिः श्रेष्ठः। भीमसिंहेन मानितं तद्वचनम । परं 25 सङ्ग्रामाडम्बरः कृतः। अन्योऽन्यमपि यावद् अड्डितौ द्वौ, तावद् भट्टैरन्तरा प्रविश्य मेलः कृतः। ऊपरवटाश्वो राणाय दापितः। भीमसिंहेन भद्रेश्वरमात्रेण धृतिधरणीया, बिरुदानि न पाठनीयानि; इति व्यवस्थाऽऽसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन् श्रीधवलककमागात् । शनैः शनैः प्राप्तपरमप्राणो भीमसिंहमपराध्यन्तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । ["एवं] धवलक्के राज्यं कुर्वतस्तस्य क्षुभितैः प्रभूतैः परराष्ट्रपतिभिः खं दत्तम् । तेन खेन सैन्यमेव 30 मेलितम् । चतुर्दशशतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलितानि । तानि समभोजन भोग-वसन-वाहनानि श्रीतेजःपालस्य सहचारिणीछायावत् समजीवितमरणत्वेन स्थितानि । तहलेन सैन्यबलेन च स्वभुजाबलेन सर्वं जीयते। 1 ABD नास्ति पदमेतत् । 2 ABD विकत्थन (?)। 3A लिखितं । 4 A व्रणवात। 5A देवितुं । 6P विनाऽन्यत्र नास्ति । 7A तद्वचनं मतं। 8 A अद्भुती; P मिलितौ। 9 P विनाऽन्यत्र नास्ति 'अन्तरा प्रविश्य'। 10 P विना नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176