Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 118
________________ रत्नश्रावकप्रबन्धः। लोकानां रोला-तोलौ गिरी न स्तः। परं भद्रेश्वरपथेन गच्छतां स्तः। तत्र रोला-तोलयोरव्योर्मुखे मिलित्वा तोडकद्वयमिव जातमास्ते । तत्र परिसरे सङ्घ आवासितः। दिनं सर्व लात्र-चैत्यवन्दना-नादपूजा-भोजनादीनि स्वैरं ववृतिरे । रात्री सुखं स्थितम् । प्रातः पुरो गमनाय सन्नह्याचलत्सङ्घः । यावदग्रयानं गिरिमुखसङ्कटपथेन चलितुं प्रवृत्तम् , तावता कश्चिदेको मषीश्यामो व्यात्तवक्त्रो नरसिंहवपुरदृहासी बहुगव्यूतोचो दंष्ट्राकरालास्यो नखरैलॊकं दारयितुं प्रववृते। 5 भक्षयामि भक्षयामि च ऊचे । तद् दृष्ट्वा भीतो लोकः पश्चान्निवृत्य गच्छति । तद्राजपुत्रैज्ञोंतम् । तैर्गत्वा स कालरूपः प्रवभाषे-कस्त्वम् ?; कथं जनमुपद्रवसि ? । देवो वा दैत्यो वा राक्षसो वा येन तन्नाम्ना पूजयामः। स कालमूर्तिर्वदति-किं रे! बाढं वदथ । यदि पुरः पदमेकं व्रजिष्यथ, तदा सर्वान् एकैकशश्चर्विष्याम्येव । इति गदति सति तस्मिन् सङ्घरक्षपालैभेटैाघुट्य रत्नो विज्ञप्तः-देव! एवमेवं वृत्तान्तः । पुरो गन्तुं न लभ्यते । एतदंष्ट्राचर्विता लोकाः पुरः 10 'प्रेक्ष्यन्ताम् । तदाकर्ण्य कर्णकटुकं विषपणो रत्नः। क उपायः?, का गतिः, का मतिः?-इति कलकलितः सङ्घः। विशेषतः स्त्रीजनः । स्थाने स्थाने वृन्दशो वार्ताः। केचिद्वदन्ति-पश्चान्निवृत्य गम्यते । अयं सर्वं भक्षयिष्यत्येव । 'जीवन्नरो भद्रशतानि पश्यति । अपरे त्वाहुः-म्रियते चेद म्रियताम् । गम्यते पुरः, नेमिरेव शरणम् । केचिद दुमलतान्तरितास्तस्थुः । अन्ये ज्योतिषमपश्यन् । इतरे सङ्घप्रस्थानमुहूर्त्तदातारमनिन्दिषुः । इत्येवं विषमे वर्तमाने सङ्घपतिरत्नेन 15 भटाः प्रभाषिताः-गत्वा पृच्छत तं घोरं नरम् , त्वं कथं प्रसीदसि?, येन तत्कुर्मः, पुरो बजामः। गता भटाः। भाषितं रत्नवचनं तदने । तेनोक्तम्-अहमेतस्या गिरिभुवोऽधिष्ठाता । एकं सङ्घप्रधानमानुषं भक्षयामि, ततस्तृप्यामि, अन्येषां नोपद्रवामि, प्रतिज्ञां च न ल । ते भटा. स्तत्सम्यग्निीय' तदालापं रत्नाय ऊचुः। रत्नेनैकत्रोपवेशिताः सर्वे लोकाः। तथा सनद्धा एव भणिताश्च ते लोकाः-पुण्यं मे महद, येनासौ कोऽपि घोरपुरुष एकं मानुषं जिघत्सति । तद्भ-20 क्षणात् तृप्तश्चेच्छेषं न भक्षयति । तस्माद् यूयं यात, नेमि वन्दध्वम् । मयाऽस्मै "स्वाङ्गं देयम् । अहो! लाभोदयः। इयत्कालं विविधयत्नपालितं देहं सङ्घार्थे उपकृतम् । एवमुक्त्वा तूष्णीके सद्देशे, राजपुत्राः प्रभणन्ति-नररत्न रत्न ! त्वं चिरं जीव । अस्माकं "एकतरेण स ध्रायतु । वयं हि सेवकाः । सेवकानां च धर्मोऽयम्-मृत्वाऽपि प्रभुरुद्वरणीयः। अन्यथा धर्मयशोवृत्तिक्षयात् । २३०. ते मुग्गडा हराविया जे" परिविहा" ताहं । अवरुप्परजोयंतयह सामिउ गंजिउ जाहं ॥ ७॥ 25 ___सङ्घप्रधानसाधर्मिका ऊचुः-"रत्नदेव ! त्वं चिरं जीव । युवाऽसि, राजपूज्योऽसि, सहस्रलक्षजन पोषकोऽसि; वयं विनश्वरकलेवरव्ययेन स्थिरं धर्मं जिघृक्षामहे। २३१. जइ उट्ठभइ तो कुहइ, अह डज्झइ तउ छारु" । एयह दुट्ठकलेवरह जं वाहियइ तं सारु ॥ ८॥ २३२. *सा सुकंतइं जगु मरइ ते वीरडी म सुक्क । इक्कु मरंतइं सु मरइ वरिसउ मरउ म इक्क ॥ ९॥ भदन-पूर्णसिंहौ" जगदतुः-आवयोस्त्वं ज्येष्ठो भ्राता पिता यथा। पितुरायत्तश्च पुत्रप्रायो 30 लघुभ्राता। किं रामाग्रे युद्धा लक्ष्मणेन न प्राणास्तृणीकृताः। 1P पुस्तक एव 'परं' दृश्यते। 2 P विहाय नास्त्यन्यत्र 'तद् दृष्ट्वा'। 3 P पुस्तक एवेदं पदं लभ्यते। 4 P लभ्यतेऽभाग्यात्। 5 P एवं तद् । 6P पुरः पतिताः। 7 P विहाय नोपलभ्यतेऽन्यत्र पदमिदम् । 8 P जिघृक्षति । 9 P स्थानं । 10 P अमाकं मध्ये। 11 Pये। 12 A परिवुढा; P परिविद्धा। 13 P अवरप्परजोयंतह । 14 P हे रत्न। 15 'जन, नास्ति A B| 16 A उन्भट्टह; P रक्खिजइ। 17 P छारं। 18 A वाहिए; P वाहियइ। *A आदर्श एवेदं पद्यं लभ्यते । 19P सिंहभ्रातरौ । Jain Education Intemational www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176