Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 122
________________ आभडप्रबन्धः। ९९ ६११५) [ एकदा* ] आभडेन नृपवल्लभः कौतुकी सीलणो नामा भूरिहेमदानेन प्रार्थितःतथा कुरु, यथा शेषप्रासादा उद्धरन्ति । तेनोक्तम्-निश्चिन्तैः स्थेयम् , रक्षिष्याम्येव । सीलणेन सांठकसौधमेकं कृतम् । धवलितं चित्रितं च । पुत्राः पञ्च कर्णे एवमेवमुपराजं कर्त्तव्यमिति शिक्षिताः । गतो नृपान्तिकं सीलणो वदति-देव ! जरा मे शिरसि स्थिता । पुत्रपौत्रवान् जातः। अधुना तीर्थयात्रायै विदेशान् यामि, यद्यादेशः स्यात् । राज्ञोक्तम्-यथारुचि 'चेष्टस्व । 5 [तदनु*] तत्सौधं पुत्रांश्चादाय महासभास्थे नृपे आगात् । पुत्रा भलापिताः क्षितिपतये । पुत्राश्च भाषिता राज्ञि पश्यति सति-एतन्मे सौधं यत्नतो रक्ष्यम् । मम यशाशरीरमेतत् । [बहु*] यत्न निष्पादितमिति । तैस्तथेति प्रतिपेदे। [नृपादिसर्व*] आपृच्छय पुरस्तात् कियतीमपि भुवं यावत् सीलणो याति, किल तावत्तैस्तत् सौधं लकुटेरास्फाल्य सद्यो भग्नम् । खटत्कारं श्रुत्वा सीलणो व्याघुटितो वदति-रे हताशा ! अस्मादपि कुनृपात्कुपुत्रा यूयम् । अने-10 नात्मीये पितरि मृते [ सति*] तद्धर्मस्थानानि पातितानि; भवद्भिः पुनरहं पदशतकमपि गच्छन् न प्रतीक्षितः। राजा ललज्जे । चैत्यानामपातनमादिशति स्म। ६११६) तस्य कुत्सितस्य राज्ञो माता-पुत्रयोबलाद्विप्लवं कारयितुं रुचिरुत्पन्ना। वण्ठांस्तथा कारयति । एकदा एकेन वण्ठेन छन्नधृतहखकंकलोहकर्तिकया जघ्ने । ६ ११७) दिनकतिपयानि कीर्तिपालनामा राजपुत्रो गूर्जरधराया लोकरक्षामकरोत् । छत्र-15 चामरादि न तस्य। ६११८) तस्मिन् मालवसैन्ये मृते गूर्जरधरायां भीमदेवो राजा आसीत् । स दीर्घजीवी । [परं*] विकलः पुण्याधिकः । [तस्य* ] सोढू मोढू द्वे गड्डरिके । ते हे लपयति, सर्वांगावयवविभूषिते कारयति', सुखासने उपवेशयति, ग्रामेषु ससैन्ये भ्रमयति । ग्रामाः 'सैन्यकैर्भक्ष्यन्ते। [एवं* ] बहुकालो गतः । एकदा देशपालैः सम्भूय राजा विज्ञप्तः-देव ! निरर्थकं किमिति 20 खदेशं भक्षापयसि । अन्नघृतवसनादिव्ययो वृथाऽयम् । [तदा*] राजा आह-कथामेकां शृणुत । कचिद्वेलाकूले पूर्व जलवेगाहतो [एको*] मीनस्तटे लग्नः । तदा तत्र दुर्भिक्षं घोरम् । अन्नाभावे क्षुधातॊ लोकः। अतः सर्वोऽपि जनः कुठाराद्यैश्छेदं छेदं तं मीनं भक्षयितुं गृह्णाति। तथापि स न म्रियते, महाकायत्वात् । अत्रावसरे क्षुधितः पत्नीप्रेरितः कोऽपि विप्रस्तन्मीनमांसं ग्रहीतुमगमत् । अपरलोकैश्छिद्यमानं पश्यतस्तस्य खभावदयालोर्विप्रस्य दया आसीत् । न छिनद्मि । तदा 25 व्यन्तरानुप्रवेशात् स मत्स्यो विप्रमाह-भो! छिन्धि माम् । अन्येऽपि खादन्तः सन्ति । तवोपकृतो भव्यः। विप्रः प्रोचे-दया मे, 'न छिनद्मि। मीनो वदति-तर्हि शृणु, अयं पापी लोको मां म्रियमाणं मारयति । अहं तु मृत्वाऽत्र तटे राजा भविष्यामि पुरन्दरो नाम । राजकुलेऽवतरिष्यामि । त्वं ममोपाध्यायो भविष्यसि । अहं प्रार वैरादमुं लोकं नवनवभङ्गिभिः कदर्थयिप्यामि । त्वया कस्याप्यर्थे विज्ञप्ति व करणीया। त्वां तु सत्पुरुषमहं गुरुवुद्धया पूजयिष्यामि । 30 इति जल्पन मृतः स मीनः। यथोक्तो राजा पुरन्दरो नाम समभूत् । विप्रस्तु गुरुः। तं लोकं कृत * कोष्ठकगतानि पदानि P पुस्तक एव दृश्यन्ते। 1 P तथा चेष्टस्व । 2 A यत्नेन । 3A करोति। 4A सैन्येन । 5 P नास्ति 'तदा'। CP तेन न छिनत्ति । Jain Education Intemational For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org wwwjaine

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176