________________
आभडप्रबन्धः।
९९
६११५) [ एकदा* ] आभडेन नृपवल्लभः कौतुकी सीलणो नामा भूरिहेमदानेन प्रार्थितःतथा कुरु, यथा शेषप्रासादा उद्धरन्ति । तेनोक्तम्-निश्चिन्तैः स्थेयम् , रक्षिष्याम्येव । सीलणेन सांठकसौधमेकं कृतम् । धवलितं चित्रितं च । पुत्राः पञ्च कर्णे एवमेवमुपराजं कर्त्तव्यमिति शिक्षिताः । गतो नृपान्तिकं सीलणो वदति-देव ! जरा मे शिरसि स्थिता । पुत्रपौत्रवान् जातः। अधुना तीर्थयात्रायै विदेशान् यामि, यद्यादेशः स्यात् । राज्ञोक्तम्-यथारुचि 'चेष्टस्व । 5 [तदनु*] तत्सौधं पुत्रांश्चादाय महासभास्थे नृपे आगात् । पुत्रा भलापिताः क्षितिपतये । पुत्राश्च भाषिता राज्ञि पश्यति सति-एतन्मे सौधं यत्नतो रक्ष्यम् । मम यशाशरीरमेतत् । [बहु*] यत्न निष्पादितमिति । तैस्तथेति प्रतिपेदे। [नृपादिसर्व*] आपृच्छय पुरस्तात् कियतीमपि भुवं यावत् सीलणो याति, किल तावत्तैस्तत् सौधं लकुटेरास्फाल्य सद्यो भग्नम् । खटत्कारं श्रुत्वा सीलणो व्याघुटितो वदति-रे हताशा ! अस्मादपि कुनृपात्कुपुत्रा यूयम् । अने-10 नात्मीये पितरि मृते [ सति*] तद्धर्मस्थानानि पातितानि; भवद्भिः पुनरहं पदशतकमपि गच्छन् न प्रतीक्षितः। राजा ललज्जे । चैत्यानामपातनमादिशति स्म।
६११६) तस्य कुत्सितस्य राज्ञो माता-पुत्रयोबलाद्विप्लवं कारयितुं रुचिरुत्पन्ना। वण्ठांस्तथा कारयति । एकदा एकेन वण्ठेन छन्नधृतहखकंकलोहकर्तिकया जघ्ने ।
६ ११७) दिनकतिपयानि कीर्तिपालनामा राजपुत्रो गूर्जरधराया लोकरक्षामकरोत् । छत्र-15 चामरादि न तस्य।
६११८) तस्मिन् मालवसैन्ये मृते गूर्जरधरायां भीमदेवो राजा आसीत् । स दीर्घजीवी । [परं*] विकलः पुण्याधिकः । [तस्य* ] सोढू मोढू द्वे गड्डरिके । ते हे लपयति, सर्वांगावयवविभूषिते कारयति', सुखासने उपवेशयति, ग्रामेषु ससैन्ये भ्रमयति । ग्रामाः 'सैन्यकैर्भक्ष्यन्ते। [एवं* ] बहुकालो गतः । एकदा देशपालैः सम्भूय राजा विज्ञप्तः-देव ! निरर्थकं किमिति 20 खदेशं भक्षापयसि । अन्नघृतवसनादिव्ययो वृथाऽयम् । [तदा*] राजा आह-कथामेकां शृणुत । कचिद्वेलाकूले पूर्व जलवेगाहतो [एको*] मीनस्तटे लग्नः । तदा तत्र दुर्भिक्षं घोरम् । अन्नाभावे क्षुधातॊ लोकः। अतः सर्वोऽपि जनः कुठाराद्यैश्छेदं छेदं तं मीनं भक्षयितुं गृह्णाति। तथापि स न म्रियते, महाकायत्वात् । अत्रावसरे क्षुधितः पत्नीप्रेरितः कोऽपि विप्रस्तन्मीनमांसं ग्रहीतुमगमत् । अपरलोकैश्छिद्यमानं पश्यतस्तस्य खभावदयालोर्विप्रस्य दया आसीत् । न छिनद्मि । तदा 25 व्यन्तरानुप्रवेशात् स मत्स्यो विप्रमाह-भो! छिन्धि माम् । अन्येऽपि खादन्तः सन्ति । तवोपकृतो भव्यः। विप्रः प्रोचे-दया मे, 'न छिनद्मि। मीनो वदति-तर्हि शृणु, अयं पापी लोको मां म्रियमाणं मारयति । अहं तु मृत्वाऽत्र तटे राजा भविष्यामि पुरन्दरो नाम । राजकुलेऽवतरिष्यामि । त्वं ममोपाध्यायो भविष्यसि । अहं प्रार वैरादमुं लोकं नवनवभङ्गिभिः कदर्थयिप्यामि । त्वया कस्याप्यर्थे विज्ञप्ति व करणीया। त्वां तु सत्पुरुषमहं गुरुवुद्धया पूजयिष्यामि । 30 इति जल्पन मृतः स मीनः। यथोक्तो राजा पुरन्दरो नाम समभूत् । विप्रस्तु गुरुः। तं लोकं कृत
* कोष्ठकगतानि पदानि P पुस्तक एव दृश्यन्ते। 1 P तथा चेष्टस्व । 2 A यत्नेन । 3A करोति। 4A सैन्येन । 5 P नास्ति 'तदा'। CP तेन न छिनत्ति ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal use only
www.jainelibrary.org
wwwjaine