________________
प्रबन्धकोशे परमागसं स राजाऽपीपिडत्। विप्रस्तु तदुक्तं स्मरन् न ऊचे किश्चित् । तस्माद् भो! ग्रामण्योऽहमपि तद्विधः कोऽप्यवतीर्णोऽस्मि । क्रीडया पीडयामि लोकम् । [तस्माद* ] भवद्भिर्न वाच्यम् । वक्ष्यथ चेद् [तदा* ] रसनां छेत्स्यामि । [एवं श्रुत्वा*] स्थितस्तूष्णीं लोकः । देशोऽपचीयते ।
६११९) एवं राज्ये आभडस्तथैव ऋद्धिमान् ।आभडस्य च चाम्पलदेनानी बालविधवा वाग्मिनी 5 उचितज्ञा सर्वशास्त्रविदुरा तनया गृहव्यापारान् करोति 'कारयति । एकदा लोभात्किञ्चिच्चोरयन् भाण्डागारिको रुष्टेनाभडेन निष्काशितः। स कोपादुपभीमभूपं गतः । ऊचे च-राजन् ! आभडस्य अनन्ता ऋद्धिः । एवमेवं तां गृहाण। राजाह-कोऽप्यस्यान्यायोऽस्ति ? । भाण्डागारिक ऊचे-नास्ति । तर्हि परधनं कथं वृथा गृह्यते?। भाण्डागारिकः प्राह-छलं किमपि क्रियते। राजाहतथाऽहं करिष्यामि । [इति विचार्य*] भाण्डागारिकं स्वसौधे एव स्थापयित्वा छागीमांसं दासी10 शिरसि स्थालस्थं कृत्वा प्राहैषीत् । आगता सा दासी मध्याहे आभडसदनद्वारम् । तदा आभडो ध्यानेन जिनमर्चयति । चाम्पलया स्वयं द्वारमुदघाटि । दासी मध्यमागता । स्थालं दर्शितम् । चाम्पलया मांसं दृष्ट्वा, तदैव भाण्डागारिकविक्रियेयमिति ऊहांचके । [मध्ये ] आनीता सगौरवम् । सा पृष्टा किमेतत् ? । दास्याह-राज्ञा उत्सवे गौरवाय वा प्रस्थापितमदः । एतन्मांस
चाम्पलया स्थालान्तरे लातम् । सपादलक्षमूल्यों हारो राज्ञेऽर्पितः। दास्यै कण्ठाभरणम् । स्थालं 15 मौक्तिकैर्वर्द्धापितम् । दासी हृष्टा उपराजं वव्राज। भोजनादनु आभडः पुत्र्या जगाद-तात ! निष्कासितभाण्डागारिकप्रेरितनृपकर्तव्यमेतत् । मया दास्यै रीढा न कृता । यास्यति श्रीः। परं उपायं कुरु। सर्वस्वधनं टिप्पयित्वा राज्ञे दर्शय, कथय च-गृहाण स्वामिन् ! यदि ते रुचिरस्ति । तथैव चके सः। नृपो विस्मितो लजितो हृष्टश्च । भाण्डागारिक तटे धृत्वा राजोचे-रे मूढ !
यस्मै विधिव्यं दत्ते, तस्मै तद्रक्षोपायबुद्धिमपि दत्ते। ततो माऽत्र वृथा मत्सरी स्थाः। पुनरेवा20 भडपादयोर्लगितः। तृणमपि तत्सत्कं राज्ञा न गृहीतमेव । एवं धनी, अखण्डभाग्यः, चिरायुः, नीरुक्, आभडो मरणावसरे पुत्रोपकाराय खसदने चतुष्कोण्यां निधिचतुष्कं न्यास्थत्। मृतः खयं समाधिना । चाम्पलाऽपि द्यां गता। पुत्रैर्वाह्ये धने गते [ सति ] ते निधयः सम्भालिताः। [परं ] न लभ्यन्ते । अञ्जनं चटापितम् । अञ्जनी भणति-केऽपि श्यामाङ्गा मुद्गरपाणयोऽधोऽधो
धनं नयन्ति, किं मुधा क्लिश्यध्वे ?। जाता निराशाः । सामान्यवणिजोऽभवन् । तस्मात्पुरुषाणां 25 पुण्योदय एव धनवृद्धिनिवन्धनं न कुलमिति ॥
॥ इत्याभडप्रबन्धः ॥२३॥
1 नास्ति P पुस्तके। 2 P चाम्पलदेव्या । 3 P महिणिमोत्सवे 4 P मूलहारो। 5 P च दापितं ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org