________________
१०१
श्रीवस्तुपालप्रबन्धः।
२४. अथ श्रीवस्तुपालप्रवन्धः । २३८. श्रीवस्तुपाल-तेजःपालौ मत्रीश्वरौ उभौ आस्ताम् ।
यौ भ्रातरौ प्रसिद्धौ, कीर्तनसंख्यां तयोधूमः ॥१॥ F१२०) पूर्व गूर्जरधरित्रीमण्डनायां मण्डलीमहानगर्या श्रीवस्तुपाल-तेजःपालाद्याः वसन्ति स्म। 'एकदा श्रीमत्पत्तनवास्तव्यप्राग्वाटान्वयठक्कुरश्रीचण्डपांत्मज-ठकुरश्रीचण्डप्रसादाङ्गज-मन्निश्री- 5 सोमकुलावतंस-ठकुर'श्रीआसराज नन्दनौ 'कुमारदेवीकुक्षिसरोवरराजहंसौ श्रीवस्तुपाल-तेजःपालौ श्रीशत्रुञ्जय-गिरिनारादितीर्थयात्रायै प्रस्थितौ । 'हडालाग्रामं गत्वा यावत्वां भूति चिन्तयन्तस्तावल्लक्षत्रयं जातं सर्व खम् । ततः सुराष्ट्राख सौस्थ्यमाकलय्य लक्षमेकमवन्यां निधातुं निशीथे महाश्वत्थतलं खानयामासतुः। तयोः खानयतोः कस्यापि प्राक्तनः कनकपूर्णः शौल्वकलशो निरगात् । तमादाय श्रीवस्तुपाल: तेजःपालजायामनुपमदेवीं मान्यतया अपृच्छत्-क 10 एतनिधीयते ? । तयोक्तम्-गिरिशिखरे "एतदुच्चैः स्थाप्यते । यथा प्रस्तुतनिधिवन्नान्यसादु भवति । तत् श्रुत्वा श्रीवस्तुपालः तद्रव्यं श्रीशत्रुञ्जयोजयन्तादौ अव्यययत् । कृतयात्रो व्यावृत्तो धवलकपुरमगात्।
१२१) अत्रान्तरे"महणदेवी नाम कन्यकुब्जेश्वरसुता जनकात् प्रसन्नात् गूर्जरधरां कञ्चलिकापदे लब्धां सुचिरं भुक्त्वा कालेन मृत्वा तस्यैव गूर्जरदेशस्य अधिष्ठात्री महर्द्धिय॑न्तरी जाता । 15 सा धवलक्कके शय्यायां सुखविश्रान्तं राणकश्रीवीरधवलं प्रत्यक्षीभूय जगाद-राणक! इयं गूर्जरधरा वनराजप्रभृतिभिर्नरेन्द्रः सप्तभिश्चापोत्कटवंश्यैः षण्णवत्यधिकं शतं वर्षाणां भुक्ता । तदनु मूलराज-चामुण्डराज-वल्लभराज-दुर्लभराज-भीम-कर्ण-जयसिंहदेव-कुमारपाल-अजयपाललघुभीम-अर्णोराजैः चौलुक्यैः सनाथीकृताः। सम्प्रति युवां पिता-पुत्रौ लवणप्रसाद-वीरधवलौ स्तः। "इयं गूजरधरा कालवशादन्यायपरैः पापैः स्वाम्यभावान् 'मात्स्यन्यायेन' कदर्थ्यमा-20 नाऽऽस्ते, म्लेच्छैरिव गौः। यदि युवां वस्तुपाल-तेजःपालौ मन्त्रिणौ कुर्वाथे , तदा राज्य प्रतापधर्मवृद्धिर्भवति । अहं महणदेवी सर्वव्यापिभिर्भवत्पुण्यैराकृष्टा वदन्त्यस्मि । इति वदत्येव विधुदिव सहसाऽदृश्या बभूव । राणकवीरधवलः पद्मासनस्थस्तल्पोपविष्टश्चिन्तयति-अहो देव्युपदेशः साक्षात् !; कर्त्तव्यमेव तन्मन्त्रिद्वयं यद्देव्योक्तम् । यत:२३९. दृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति, नीत्या समुन्नयति मत्रिजनः पुनस्ताम् ।
25 रत्नावली जलधयो जनयन्ति किन्तु, संस्कारमत्र मणिकारगणः करोति ॥२॥ इत्यादि चिन्तयन् प्रातरुत्थितः । पूर्वोक्तमेवोपदेशं महणदेवी श्रीलवणप्रसादायाप्यदत्त । कृतप्रातःकृत्यौ मिलितौ पिता-पुत्रावेकत्र । कथितं रात्रिवृत्तमन्योऽन्यम् । तुष्टौ द्वावपि । तदैव च तेषां कुलगुरुः पुरुषसरस्वती सोमेश्वरदेवो द्विजः स्वस्त्ययनायागात्"। ज्ञापितोऽसौ तवृत्तान्तं ताभ्याम् । सोऽप्युवाच-देवौ ! युवयोः प्राचीनपुण्यप्रेरिता देवताऽपि साक्षात् । तस्मात्तदुक्त-80
1EB अन्यदा। 2P चण्डपस्तदात्मजः। 3P चण्डप्रसादस्तदङ्गजः। 4 P .सोमस्तस्कुला०। 5P मंत्रिश्रीआस । 6 P राजस्तनन्दनौ। 7 P कुमरा। 8 P हडालक०। 9 P सुराष्ट्रात्स्वं । 10 A प्राक्तनः। 11 A एवैतदुचैः । 12 P महणल। 13 P नामा। 14 P अर्णोराज एवं । 15 A इति । 16 A कुर्वध्वे; P कुर्वीथे। 17 P स्वस्त्ययनयोगात् ।
Jain Education Intemational
Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org