________________
९८
प्रबन्धकोशे छागीषु पयः पीत्वा निवृत्तासु यावद् गवेषयति तावदेकस्याः कण्ठे टोकरकं तन्मरकतरत्नगर्भ ज्ञात्वा तेन सह सा विक्रिये। बालोऽजीवत्। [ रत्नं तु शिराणे उद्योतितं महातेजापुञ्जमयम् । परीक्षकाणां दर्शितम् । तैरमूल्यं भणितम् । तदनु जेसिंघदेवनृपाय अर्पितम् । तुष्टेन राज्ञा एका स्वर्णकोटी दापिता*] आभडोऽपि तेन महर्द्धिर्जातः। नखपृष्ठमात्रं हि तल्लक्षं लभते । सुभिक्षं च 5 तदा । व्यवहारी जातः । जयसिंहराज्यं तदा ऋद्धम्।
६११२) आभडस्य वहिकास्तिस्रः। एका रोक्यवही, अपरा विलम्बवही, तृतीया परलोक वही । [एतावता* ] को भावः-धरणबन्धनयातनाः कस्यापि न करोति कृपाम्भोधिः । ३६ वेलातटेषु धनर्द्धि; महालाभाः। पूगहहिका १-निजसदनं २-श्रीहेमसूरिपौषधशाला ३-माषपिष्टकेष्टकाचिताऽकारि । अमारिकारकश्रीकुमारपालदेवसमये महाव्यापस्तस्य । 10 $११३) एकदा श्रीहेमसूरिभिः साधर्मिकवात्सल्यं महाफलमिति राज्ञे व्याख्यातम् । राज्ञा
आभड उक्तः-त्रुटितधनं श्रावककुलं दीनारसहस्रं दत्त्वोद्धार्यम् । वर्षान्ते लेख्यकं वयमवधाराप्याः। आभडेन वर्षान्ते राज्ञे लेख्यकं दर्शितम् । एका कोटिः । राजा यावद्दापयति, तावदाभडेन विज्ञप्तम-देव ! भूभुजां कोशो द्विधा स्थावरो जङ्गमश्च । तत्र स्थावरो हेमादिः.जामो वणि
गजनः । वणिग्धनमपि खामिधनमेवेति । [राजोवाच-एवं मा वादीः । लोभपिशाचो मां छल15 यति । तावन्मात्रं तत्कालमेवानाय्य दापितम्।] राजा तुष्टः।
३११४) एवं व्रजति काले राजा कुमारपालदेवः श्रीहेमश्च वृद्धौ जातौ । श्रीहेमसूरिगच्छे च विरोधः । रामचन्द्र-गुणचन्द्रादिवृन्दमेकतः; एकतो बालचन्द्रः । तस्य च बालचन्द्रस्य राजभ्रातृव्येन अजयपालेन सह मैत्री। [एकदा प्रस्तावे* ] राज्ञो गुरूणामाभडस्य च रात्रौ
मन्त्रारम्भः । राजा पृच्छति-भगवन् ! अहमपुत्रः कं स्वपदे रोपयामि। गुरवो ब्रुवन्ति-प्रताप20 मल्लदौहित्रं राजानं कुरु धर्मस्थैर्याय; अजयपालात्तु त्वत्स्थापितधर्मक्षयः । अत्रान्तरे आभडः प्राह-भगवन् ! यादृशस्तादृशः खकीय एवोपकारी । पुनः श्रीहेमः-अजयपालं राजानं मा कृथाः [सर्वथैव*]। एवं मन्नं कृत्वोत्थितास्त्रयः। स मन्त्रो बालचन्द्रेण श्रुतः । अजयपालाय च कथितः । [अतो*] हैमगच्छीयरामचन्द्रादिषु द्वेषः, आभडे तु प्रीतिः । श्रीहेमसूरेः स्वर्गगमनं जातम् । ततो दिनद्वात्रिंशता राजा कुमारपालो अजयपालदत्तविषेण परलोकमगमत् । 25 अजयपालो राज्ये निषण्णः। श्रीहेमद्वेषाद् रामचन्द्रादिशिष्याणां तप्तलोहविष्टरासनयातनया मारणम् , राजविहाराणां बहूनां पातनम् । लघुक्षुल्लकानाहाय्य प्रातः प्रातर्मंगयां का अभ्यासयति । पूर्वमेते चैत्यपरिपाटीमकार्षरित्युपहासात् । बालचन्द्रोऽपि स्वगोत्रहत्याकारापक इति ब्रुवद्भिाह्मणैर्नृपमनस उत्तारितः। लघुता । मालवान् गत्वा मृतः । 'पापं पच्यते हि सद्यः'। प्रासादपातनं दृष्ट्वा श्रावकलोकः खिद्यते । आभडः पूर्वप्रतिपन्ना"न्मान्योऽपि वक्तुं न शक्नोति, 30 उग्रत्वाद्राज्ञः। [परं तेन* ] प्रपञ्चेन तु रक्षा "कारिता । "कथं ?
1P फ्रीता। * कोष्ठकगताः पाठाः P पुस्तक एवोपलभ्यन्ते। 2 P नास्ति। 3 P पारलौकिक०। 4 P कोटिरायाता । 5P हेमादिभाण्डागारः। 6P .क्षयो भावि। 7 P आत्मीयो भव्यः। 8 P मारणं कृतम्। 9P लजितो। 10 P
पन्नत्वान् । 11 P कारापिता। 12 P तदा हा कथं ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org