________________
आभडप्रबन्धः ।
९७
व्यम्, यदा तीर्थं पुनः स्थापितं भविष्यति । इत्युक्त्वा बान्धवौ सङ्घरक्षायै नियुज्य, अम्बां ध्यात्वा, तपस्तेपे । षट्युपवासान्तेऽम्बा प्रत्यक्षीभूय तं काञ्चनबलानाख्ये इन्द्रनिर्मिते निशि निनाय । तत्र तीर्थे द्वासप्ततिजिनबिम्बानि महाकायान्यदीदृशत् । तत्राष्टादश हैमानि, अष्टादश रत्नानि, अष्टादश राजतानि, अष्टादश शैलमयानि एवं द्वासप्ततिः । तत्रैकस्मिन् रत्नमये बिम्बे रत्नः खनामसाम्यादिव तुष्टो विलग्नः । इदमर्पय मे स्वामिनि !, येन तत्र स्थाने रोपयामीत्यम्बामूचे च । 5 अम्बाऽप्याह स्म-वत्सक ! तीर्थमिदं महत् । आगमिष्यति शनैः शनैः कलिः । तत्र लोको हीन - सत्त्वोऽलुब्धः पापकारी सर्वधर्मबाह्यो भावी । तदग्रतो रत्नं बिम्बं न छुटिष्यति । महत्या - शातना भाविनी ततः । तस्मादिदमाश्मनं गृहाण । रत्नेन तथेत्यूरीकृतम् । उदितं च-मातः ! कथमिदं महन्मया नेयम् । देव्योक्तम् - आमसूत्रतन्तुभिरेभिर्वेष्टय । ततश्चल' मा भैः । यत्र तु पश्चाद्विलोकयिष्यसि तत्रैव स्थास्यति । इत्यम्बिका गिरा चलितो रत्नो बिम्बं गृहीत्वा याव - 10 त्कियतीमपि भुवं पुरो याति तावद् विस्मितः पश्चादालुलोके - किं अम्बा आगच्छति नवेति । तत्रैव तस्थौ बिम्बम्। [उदुम्बरोपरि न चलति स्थानान्मनुष्यलक्षैरपि । ततः परावृत्त्य * ] ' तथैव द्वारस्य प्रासादस्य च रचना कृता । साऽद्यापि तथैव' तत्रास्ते । एवं प्रतिज्ञां सम्पूर्य रत्नः ससङ्घी रैवताद् व्याघुट्य शत्रुञ्जये ऋषभं प्रणम्य अन्यान्यपि तीर्थानि वन्दित्वा नवहुल्लपत्तनं प्रविष्टः राज्ञाऽभ्यागतः । गृहे गृहे मङ्गलानि साधर्मिकवात्सल्यानि । ऋद्धिर्वृद्धिश्व' । आचन्द्रार्कस्थायि 15 यशो ललौ । रत्नस्थापितं नेमिबिम्वमिदं यद्वन्द्यमानमास्तेऽधुना । तस्य तु स्तुतिरेवं प्राक्कविकृता२३६. न खानिमध्यादुदखानि सूत्रैर्नासूत्र टरुदटङ्कि नैव ।
अद्योति न द्योतनकैर्न वाहैरवाहि योऽमत्रि न सिद्धमत्रैः ॥ १३ ॥ २३७. अनादिरव्यक्ततनूरभेद्यः प्रभामयोऽनन्तबलः सुसिद्धः ।
तरीस्तरीतुं भविनां भवान्धिं स नेमिनाथः कृपयाऽऽविरासीत् ॥ १४ ॥ ॥ इति श्रावकरत्न रत्नप्रबन्धः ।। २२ ।।
100000
२३. अथ आभडप्रबन्धः ।
Jain Education International
१११) अणहिलपुरे श्रीमालवंश्यः श्रेष्ठी नृपनागः । तत्पत्नी सुन्दरी । तज्जः श्रीआभड: तस्मिन् दशवर्षदेश्ये माता- पितरौ द्यां गतौ । श्रीर्नष्टा । तथाप्याभडः सुजनाश्रितो व्यवसायज्ञ इति ववृधे। पूर्वजकीय कन्या लब्धा । परिणीतः । वृत्त्यर्थं मणिकारकाणां गृहे घुर्षुरान् घर्षति 125 लोष्टिकान् पश्चोपार्जयति । तत्र" लोष्टिकमेकं धर्मे व्ययति । द्वौ कुटुम्बवृत्तिकार्ये । द्वौ सञ्चये विधत्ते । चतुर्दशेऽब्दे पुत्रो जातः । तस्य स्तन्यप्राप्तिरल्पा । अतइछागीगवेषणाय आभडो बहिर्ग्रामं गतः । तत्र, आवाहे प्रातर्दन्तपावनं कुरुते । अत्रान्तरे आगतं अजायूथम् । ताः सर्वा आवाहे पयः पातुं लग्नाः । पयः कम्बुधवलमपि सहसा नागवल्लीदलनीलच्छायं" जातम् । विस्मित आभडः ।
1 P नास्ति 'तसः' । 2 P इतश्चलमाने । 3EB इत्यम्बा० । * P विहायान्यत्र नास्ति कोष्ठकगतः पाठः । 4P नास्ति । 5 A B तत्रैवास्ते । 6P राजा स्वयमभ्यागतः । 7 'ऋद्धिः वृद्धि:' स्थाने P पुस्तके 'प्रवृत्तानि' । 8P विनाऽन्यत्र नास्ति पदमेतत् । 9 B ० काराणां । 10 P तेषां मध्ये । 11 Poदलच्छायं ।
१३ प्र० को ०
20
For Private & Personal Use Only
www.jainelibrary.org