________________
९६
प्रबन्धकोशे
२३३. स्नेहो न ज्ञायते देव ! प्रणामान्न मृदूक्तितः । ज्ञायते तु क्वचित्कार्ये सद्यः प्राणप्रदानतः ॥ १० ॥ पउमणिब्रूते - कुलस्त्रियः पत्याधीनाः प्राणाः । पत्यौ लोकान्तरिते जीवन्त्यपि मृताः शृङ्गाराद्यभावात् । यथा
२३४. शशिना सह याति कौमुदी सह मेघेन तडिद् विलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥११॥ भर्तरि मृते नार्याऽनुमर्तव्यं तावत् । यदि मयि मृतायां त्वं जीवसि, तदा किं न लब्धं मया । कोमलः प्राह तात !
5
२३५. एकदेहविनिर्माणादधमर्णीकृतैः सुतैः । यशो-धर्ममयं देहद्वयं पित्रोर्वितीर्यते ॥ १२ ॥
इत्येवं वदतस्तान् सर्वान् युक्तिभिर्वाढं निषेध्य स्वयं मर्त्तु स्थितः । सङ्घो वहन् कृतः । कालपुरुषेणोपद्रवो न कृतः । गते तु सङ्घ रत्नः श्रीनेमिपरायणः स्थिरस्तस्थौ । पउमिणिर्नाग्रे 10 गता । परत्र स्थित्वा कायोत्सर्गमधात् । कोमलोऽपि तथैव । कालपुरुषेण रत्नो गिरिगुहायामेकस्यां क्षिप्तः । द्वारि शिलां दत्त्वा पुच्छमाच्छोटयति । सिंहनादैः खं बधिरयति । तथापि रत्नो न बिभेति । 'पविस्थिरजिनरागः ।
अत्रान्तरे कूष्माण्डीं वन्दितुं रैवतशिखरे क्षेत्रपतयः सप्त — कालमेघ १ मेघनाद २ गिरिविदारण ३ कपाट ४ सिंहनाद ५ खोटिक ६ रैवत ७ नामानो मिलिताः । ते देवीं वन्दित्वा 15 ऊचुः - देवि ! कापि पर्वतो धडहडायते । ईदृशं कापि पूर्वं न वृत्तम, यादृगधुना वर्त्तते । ततः पश्य, किमिदम् ? । कापि पुरुषो महानेक उपद्रूयमाणोऽस्ति केनापि क्रूरेण । अम्बया ज्ञातं ज्ञानेन । तैः सह तत्र गता । पउमिणि - कोमलौ दृष्टौ तथाकायोत्सर्गस्थौ । कृपा-भक्ती जाते । गुहाद्वारं गत्वा स आक्षिप्तः क्रूरः- रे ! किमिदं करोषि ? | युध्यस्व चेत्समर्थोऽसि । रत्नं रक्षामो वयं क्षेत्रपालाः, अहं अम्बा जगदम्बा । तथोक्ते घुरुहुरितः सः । युद्धं ववृते । " यावत् सोऽम्बया 20 पादे धृतः, शिरः परितो भ्रमयित्वा स्फालयिष्यते ग्रावण्युग्रे, तावत्प्रत्यक्षो दिव्यमूर्त्तिः पुरो " नरो ददृशे । रत्नश्च पुरः दिव्याभरणाङ्गरागी सप्रियः सपुत्रः, सुखी । ऊचे च स दिव्याङ्गःअम्बे ! क्षेत्रपाः ! श्रीरत्न ! शृणुत । यदा रैवतमहिमानं गुरुर्जगौ, तदाऽनेन नररत्नेन" रत्नेन प्रतिज्ञा कृता मया प्राणव्ययेनापि नेमिर्वन्दनीय एवेति । तदाऽहं वैमानिकः सुरः " शङ्करो नाम तत्र उपगुरु निषण्ण आसम् । मया न सोढा साऽस्य सन्धा । " तेनात्रागत्य एवमुपद्रुतोऽयं 25 रत्नः महासत्त्वः । धन्याऽस्य जाया, पुण्यवानङ्गजः, श्लाघ्या यूयं सङ्घभक्ताः साहाय्यकराश्च" । अहं यदि सत्येनैव युध्येयं तदा भवद्भिर्न जीयेय । परं क्रीडामात्रमेवैतदमलिनमनसा कृतमिति । रत्नैर्वृष्ट्वा रत्नमालिङ्ग्य सङ्घमध्ये मुक्त्वा" स्वयं द्यां ययौ । अम्बाद्या गिरिमगुः ।
६११०) सङ्घो रैवतकमारुरोह । नेमिं ननाम । लेप्यमूत्त नेमौ तथा स्नात्रं जलैस्तेने, यथा बिम्बं घये गलित्वा मृद्भूय भूम्या सह मिलितम् । विषण्णाः सर्वेऽपि ; विशेषतस्तु रत्नः । अचिन्तयच30 धिग्ामाशात नाकारिणम्, येन एवंविधतीर्थविध्वंस वृजिन भाजनं जातोऽस्मि । तदा" भोक्त
1 D मदनः । 2 P पुस्तक एव लभ्यते ' बाढं' । 3 A B निषिध्य । 4 AB कर्तुं । 5 D नेमिध्यानपरायणः । 6A आस्फोटयति । 7 P पुस्तके 'पविस्थिर' स्थाने 'हृदिस्थित' शब्दः । 8P जातम् । 9 P घुघुरितः । 10 P यावता । 11 Pपुरतो । 12 P नास्ति ' नररवेन' । 13 P विहायान्यत्र नास्ति । पदमेतत् । 16 A क्षित्वा । 17 P अथ तदा ।
14A B नास्ति 'तेन' । 15 P विहान्यत्र नास्ति
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org