Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 119
________________ ९६ प्रबन्धकोशे २३३. स्नेहो न ज्ञायते देव ! प्रणामान्न मृदूक्तितः । ज्ञायते तु क्वचित्कार्ये सद्यः प्राणप्रदानतः ॥ १० ॥ पउमणिब्रूते - कुलस्त्रियः पत्याधीनाः प्राणाः । पत्यौ लोकान्तरिते जीवन्त्यपि मृताः शृङ्गाराद्यभावात् । यथा २३४. शशिना सह याति कौमुदी सह मेघेन तडिद् विलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥११॥ भर्तरि मृते नार्याऽनुमर्तव्यं तावत् । यदि मयि मृतायां त्वं जीवसि, तदा किं न लब्धं मया । कोमलः प्राह तात ! 5 २३५. एकदेहविनिर्माणादधमर्णीकृतैः सुतैः । यशो-धर्ममयं देहद्वयं पित्रोर्वितीर्यते ॥ १२ ॥ इत्येवं वदतस्तान् सर्वान् युक्तिभिर्वाढं निषेध्य स्वयं मर्त्तु स्थितः । सङ्घो वहन् कृतः । कालपुरुषेणोपद्रवो न कृतः । गते तु सङ्घ रत्नः श्रीनेमिपरायणः स्थिरस्तस्थौ । पउमिणिर्नाग्रे 10 गता । परत्र स्थित्वा कायोत्सर्गमधात् । कोमलोऽपि तथैव । कालपुरुषेण रत्नो गिरिगुहायामेकस्यां क्षिप्तः । द्वारि शिलां दत्त्वा पुच्छमाच्छोटयति । सिंहनादैः खं बधिरयति । तथापि रत्नो न बिभेति । 'पविस्थिरजिनरागः । अत्रान्तरे कूष्माण्डीं वन्दितुं रैवतशिखरे क्षेत्रपतयः सप्त — कालमेघ १ मेघनाद २ गिरिविदारण ३ कपाट ४ सिंहनाद ५ खोटिक ६ रैवत ७ नामानो मिलिताः । ते देवीं वन्दित्वा 15 ऊचुः - देवि ! कापि पर्वतो धडहडायते । ईदृशं कापि पूर्वं न वृत्तम, यादृगधुना वर्त्तते । ततः पश्य, किमिदम् ? । कापि पुरुषो महानेक उपद्रूयमाणोऽस्ति केनापि क्रूरेण । अम्बया ज्ञातं ज्ञानेन । तैः सह तत्र गता । पउमिणि - कोमलौ दृष्टौ तथाकायोत्सर्गस्थौ । कृपा-भक्ती जाते । गुहाद्वारं गत्वा स आक्षिप्तः क्रूरः- रे ! किमिदं करोषि ? | युध्यस्व चेत्समर्थोऽसि । रत्नं रक्षामो वयं क्षेत्रपालाः, अहं अम्बा जगदम्बा । तथोक्ते घुरुहुरितः सः । युद्धं ववृते । " यावत् सोऽम्बया 20 पादे धृतः, शिरः परितो भ्रमयित्वा स्फालयिष्यते ग्रावण्युग्रे, तावत्प्रत्यक्षो दिव्यमूर्त्तिः पुरो " नरो ददृशे । रत्नश्च पुरः दिव्याभरणाङ्गरागी सप्रियः सपुत्रः, सुखी । ऊचे च स दिव्याङ्गःअम्बे ! क्षेत्रपाः ! श्रीरत्न ! शृणुत । यदा रैवतमहिमानं गुरुर्जगौ, तदाऽनेन नररत्नेन" रत्नेन प्रतिज्ञा कृता मया प्राणव्ययेनापि नेमिर्वन्दनीय एवेति । तदाऽहं वैमानिकः सुरः " शङ्करो नाम तत्र उपगुरु निषण्ण आसम् । मया न सोढा साऽस्य सन्धा । " तेनात्रागत्य एवमुपद्रुतोऽयं 25 रत्नः महासत्त्वः । धन्याऽस्य जाया, पुण्यवानङ्गजः, श्लाघ्या यूयं सङ्घभक्ताः साहाय्यकराश्च" । अहं यदि सत्येनैव युध्येयं तदा भवद्भिर्न जीयेय । परं क्रीडामात्रमेवैतदमलिनमनसा कृतमिति । रत्नैर्वृष्ट्वा रत्नमालिङ्ग्य सङ्घमध्ये मुक्त्वा" स्वयं द्यां ययौ । अम्बाद्या गिरिमगुः । ६११०) सङ्घो रैवतकमारुरोह । नेमिं ननाम । लेप्यमूत्त नेमौ तथा स्नात्रं जलैस्तेने, यथा बिम्बं घये गलित्वा मृद्भूय भूम्या सह मिलितम् । विषण्णाः सर्वेऽपि ; विशेषतस्तु रत्नः । अचिन्तयच30 धिग्ामाशात नाकारिणम्, येन एवंविधतीर्थविध्वंस वृजिन भाजनं जातोऽस्मि । तदा" भोक्त 1 D मदनः । 2 P पुस्तक एव लभ्यते ' बाढं' । 3 A B निषिध्य । 4 AB कर्तुं । 5 D नेमिध्यानपरायणः । 6A आस्फोटयति । 7 P पुस्तके 'पविस्थिर' स्थाने 'हृदिस्थित' शब्दः । 8P जातम् । 9 P घुघुरितः । 10 P यावता । 11 Pपुरतो । 12 P नास्ति ' नररवेन' । 13 P विहायान्यत्र नास्ति । पदमेतत् । 16 A क्षित्वा । 17 P अथ तदा । 14A B नास्ति 'तेन' । 15 P विहान्यत्र नास्ति Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176