Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith
________________
प्रबन्धकोशे
२०६. आलेख्ये चित्रपतिते मृते च मधुसूदन ! । क्षत्रिये त्रिषु विश्वासश्चतुर्थो नोपलभ्यते ॥ १ ॥
तौ कुतप देवतया संगृहीतौ । राजपुत्रौ नरकपङ्कगोचरतां गतौ । देवतया क्रुद्धया हतौ । न रसलाभो न च धर्मस्तयोः । तावपि राजपुत्रौ मरणकाले पश्चात्तापेन दग्धौ - हा हा ! येन खटिकासिद्धिवशाद्दशार्हमण्डपादिकीर्त्तनानि रैवतोपत्यकायां कृतानि येन रसो लोकोपकाराय साधितः, तस्य प्राणद्रोहेणावाभ्यां किं साधितम् ? । 'एकस्तावत्कलापात्रद्रोहः, 'अपरश्च मातुलद्रोहः । एवं दुःखात्तौ मृतौ । रसस्तम्भनात् स्तम्भनं नाम तीर्थं तत्पार्श्वदेवस्य । कालान्तरे तद्विम्बं ततः स्थानात्स्तम्भनपुरे पूज्यतेऽधुना ॥
10
८६
॥ इति नागार्जुनप्रबन्धः ॥ १८ ॥
१०३) पूर्वस्यां वत्सो जनपदः । तत्र कौशाम्बी पूः । श्रीऋषभवंश्यशान्तनु-विचित्रवीर्य-पाण्डुअर्जुन - अभिमन्यु-परीक्षित- जनमेजयकुले सहस्रानीको राजा । तत्पुत्रः शतानीकः । तस्य पत्नी महासती चेटकराजनन्दिनी मृगाक्षी मृगावती नाम । तयोर्नन्दन उदयनः, यः किल नादसमुद्रो विख्यातः । यो 'गीतशक्त्या उज्जयिन्यां अनलगिरीभं विन्ध्याभिमुखं गच्छन्तं पुनरालाने निवेश्य चण्डप्रद्योत राज्यमद्योतयत् । स सुखेन राज्यं शास्ति । यौवनस्थो भोगी कलासक्तो धीरः 15 ललितो नायकः ।
11000
१९. अथ वत्सराजोदयनप्रबन्धः ।
Jain Education International
(१०४) इतश्च पाताले क्रौञ्चहरणं नाम पत्तनम् । तत्र वासुकिः सर्पराजः श्वेतो नीलसरोजलाञ्छितफणः । तस्य नामलदेवी नाम दयिता । विपुलो देशः । तक्षको नाम तस्य प्रतीहारो विषमादेवीप्रियः । यस्य फणामण्डपे त्रयोदशभारकोट्यो विषस्य वसन्तीति श्रुतिः । वासुकेः पुत्री दिव्यरूपा कनी वसुदत्तिर्नाम । तस्याः सख्यश्चतुर्दश । तद्यथा - धारू १, वारू २, चम्पकसेना ३, 20 वसन्तवल्ली ४, मोहमाया ५, मदनमूर्च्छा ६, रम्भा ७, विमलानना ८, तारा ९, सारा १०, चन्दनवल्ली ११, लक्ष्मी १२, लीलावती १३, कलावती १४ । सा ताभिः सह वीणामृदङ्गवंशसूक्तादिभिः क्रीडति । एकदा तासां मध्यादेकया उक्तम्-खामिनि ! वसुदत्तिके! अहं खपरिच्छदा सधीची नरलोके कौशाम्त्र्यां दिव्यरूपं महोद्यानं क्रीडितुमगाम् । दृष्टा तत्र बकुलविचकिलदमनक चम्पकविरहकादिद्रुमाणां सारणीनां द्रुमालवालानां वाटीकोट्टस्य श्रीः । यदि खामिनी 25 तत्केलिं काम्यति, तदा तत्र पादमवधारयतु । इदं श्रुत्वा सा वसुदत्तिका ताभिः सर्वाभिः सहेच्छा सिद्ध्या सहसा तद्वनं जग्मुषी' । तत्र केलिं कुर्वन्ति ताः, कुसुमानि चिन्वन्ति, तैः करण्डान् पूरयन्ति, धमिल्लानुत्तङ्गयन्ति, हारान् सारान् रचयन्ति । एवं खेलन्तीनां तासां वने कोकिलकुलकलरवकलः कोलाहल उच्छलितः । तदाऽऽकर्णनादुद्यानपालक एत्य ता अद्राक्षीत् । अहोरूपमहो खरोsहो प्रभेति विसिष्मिये । भक्त्या श्रीउदयनं ताः समालोकितुमाहातुमगमत् । 30 उदयनोऽपि कुतूहलादल्पपरिच्छदो वनमगात् । वसुदत्तिं ससखीकामालोकिष्ट । अध्यासीच
1 P एकं । 2 P अपरं । 3 A योगी तत् शक्त्या ।
4 P प्राप्ता ।
5 A विसिस्मये ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176