Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 110
________________ वत्सराजोदयनप्रबन्धः। [मनोजन्मनः महाव्याधेः परमरसायनमेतत् । अस्याः रूपसम्पत् जिहाभिः कोटिभिः ताभिवर्णयितुमशक्या*।] २०७. अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु' कान्तिप्रदः, शृङ्गारैकरसः स्वयं 'नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो, निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥१॥ २०८. यत्पश्यन्ति झगित्यपाङ्गसरणिद्रोणीजुषा चक्षुषा, गच्छन्ति क्रमलालितोभयभुजं यन्नाम वामभुवः। भाषन्ते च यदुक्तिभिः सचकितं वैदग्ध्यमुद्रात्मभि,-स्तद्देवस्य रसायनं रसनिधेर्मन्ये मनोजन्मनः ॥२॥ तं दृष्ट्वा सा पलायिष्ट । नृपोऽप्यन्वगाद् द्रुतं द्रुतम् । क्षणार्द्धन सर्वाः सख्योऽदृश्याः समपत्सत । सापि पातालविवरप्राये गर्त एकस्मिन् प्रविष्टा । राज्ञापि ज्ञातम्-कामरूपिणी गमिष्यत्येवेति । तावत्करे धृत्वा तस्या वेणीदण्डो यमुनाजलप्रवाहप्रायः कृपाणिकया छिन्नः। गता सा मृगशावलोचना। वेणी करेऽस्थात् । तां वेणी पश्यंस्तां चमत्कृतचकोरचलाचलाक्षीं स मुहु-10 मुहुरस्मार्षीत् । २०९. निन्दीवरिणी मुखाम्बुरुहिनी भ्रूवल्लिकल्लोलिनी, बाहुद्वन्द्वमृणालिनी यदि पुनर्वापी भवेत् सा प्रिया । तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल,-ज्वालाज्वालमुचस्त्यजेयमसमाः प्राणच्छिदो वेदनाः ॥३॥ -इत्यादि । ततो हतप्रारम्भ उबाष्पः सखेदः पू:परिसरमेत्य अमात्यानाहूयावादीत्-मया एवं एवं बालिकायाः कस्याश्चिद्वेणी छिन्ना। सा तु श्वभ्रमूलमगात् । अतो मम राज्येन न कार्यम् । 15 इमामेव वेणी राज्यं कारयत । तेऽपि तथेति प्रतिपद्य पूर्वहिर्मण्डपे सोत्सवं वेणी राज्यं कारयन्ति रामपादुकावत्। इतश्च सा वसुदत्तिका खिन्ना गत्वा खसौधेऽखाप्सीत् । तस्याः सख्यस्तत्कबरी छिन्नामीक्षित्वा नामलदेवीमाकार्यादीद्वशत् । जागरितां पुत्रीं नामलदेवी-वत्से! किमेतत् तवापि परिभवपदमित्यप्राक्षीत् । तनयापि यथास्थितं मात्रे आख्यत् । सापि नागपतये खपतये । क्रुद्धः 20 सद्योऽसौ तक्षकमाकार्य कथामुक्त्वा आदिक्षत्, यथा-गच्छ सराष्ट्रमुदयनं भस्मीकुरु । सोऽपि तदादेशादचालीत् । कौशाम्बी प्रापत् । तत्परिसरे उत्सवान् दृष्ट्वा नररूपः कश्चित्पप्रच्छ-किमेतदुत्सवसाम्राज्यम् ? । तत्रत्येन जनेनोक्तम्-एवं एवं राज्ञा दिव्यकन्यावेणी छिन्ना । उत्पन्नानुतापेन राज्यं तदायत्तं कृतम् । अतो वेणी राज्ञीह । राज्ञाऽत्रैव, एकदेशे तपस्तप्यते। तक्षकेणोत्सवो दृष्टो । मध्ये भ्रमता राजाऽप्यालोकितः । कुशस्रस्तरगः पद्मासनी जपमालापाणिः तपःक्षाम:25 जितप्राणायामः मौनी । पृष्ठश्च तक्षकेण नृरूपेण-कस्त्वम् ?, किमर्थ तपश्चरसि । तेनापि दीर्घमुष्णं च निःश्वस्य गदितम्-भो पुरुषविप्र ! किं पृच्छसि मां मन्दभाग्यम् ?। दृष्टा मयैका पुण्यवती मृगहक । तामनुसर्पता मया पातकिना यान्त्यास्तस्याः कवरी कृपाणिकया निजपुण्यदशया सह कृत्ता । सा मनीषितं स्थानं ससर्प । अहं तु उदयनो राजा राज्यं तत्सात्कृत्वा खयं तपः कुर्वाणोऽस्मि । एवं श्रुत्वा क्षणं स्थित्वा, उपद्रवमकृत्वा, पातालं यात्वा नागेन्द्रमाललाप निष्पाप-30 प्रज्ञः-देव ! दृष्टो मया उदयनः, वेणीपुरश्च तथा राज्योत्सवः । स पुण्यात्मा मृदुमना बाढं परितप्यते । विनयी मानमर्हति । तच्छ्रवणाद् अतुषदाशीविषेन्द्रः। तर्हि किं युक्तमिति तक्षकमूचे। * कोष्ठकगतेयं पंक्तिः P पुस्तक एव लभ्यते। 1P तु। 2 P स्वयं नु तनो। 3 A समपश्यत; BE समपत्स्यंत । + P पुस्तके नोपलभ्यते पद्यमिदम् । Jain Education Intemational tior Intermational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176