Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 113
________________ प्रबन्धकोशे - इतश्च विद्याधरो जयन्तचन्द्रान्तिकं गत्वा विज्ञप्तवान्-राजेन्द्र ! अद्य देवस्यात्रागतस्य दिनाष्टादशकं गतम् । कुमारदेवेन स्वयमेत्य ममाष्टादश हेमलक्षाणि प्रवेशितानि । अतोऽभयं देहि । प्रसीद, स्वस्थानं गच्छ। काश्यामपि मुक्तायां निर्वाहो नास्ति, दुर्ग्रहं च दुर्गम् । इति श्रुत्वा काशीन्द्रः सद्यो रात्रावेव चलितः। दशक्रोशी गत्वा स्थितः। खनगर्यभिमुखीभिः पटकु5 टीभिः । लक्षणावतीलोको विस्मितो हृष्टश्च । लक्षणसेनेन कुमारदेवः पृष्टः-किमिति गतो जयन्तचन्द्रः ? । मत्रिणोक्तम्-देव! त्वां युद्धोद्यतं श्रुत्वा काशीन्द्रः सुभीतः प्राणत्राणार्थं गतः। अन्यैव तव पिण्डशक्तिः। २१८. गतिरन्या गजेन्द्रस्य, गतिरन्या खरोष्ट्रयोः । गतिरन्यैव सिंहस्य लीलादलितदन्तिनः ॥ ६॥ २१९. कः सिंहस्य चपेटपाटितमहामातङ्गकुम्भस्थल, स्थूलास्थिस्थपुटीभवत्परिसरां लीलागुहां गाहते । 10 कः काकोदरभर्तुरुद्धतविषज्वालावलीढस्फुरत् ,-फूत्कारावलिघोरमास्यकुहरं साडम्बरश्चुम्बति ॥७॥ अथ चापल्याड्डौकते कश्चित् तयोः तथापि क्षेमः कुतः। अतः स्वकीयमन्तुक्षमणोपायोऽयं तस्य । काश्यधिपोऽपि काश्यासन्नं गतः सन् विद्याधरमादिशत्-लक्षणावतीशदण्डधनं चतुर्दिग्मिलितेभ्योऽर्थिभ्यो देहि । येन यशांसि प्रैधन्ते । विद्याधरोऽपि खामिनं निगदति स्म'-देव! कुमार देवेन मह्यं रत्नमेकं दण्डपदे दत्तमस्ति । तेन सद्यः कथं हेम निष्पद्यते । राजोचे-तर्हि रत्नं दर्शय। 15 अथ तेन पत्रीगतः श्लोकोऽदर्शि, कुमारदेवागमनवृत्तान्तश्च प्रोक्तः। विद्याधरमुखाच तदवधार्य जयन्तचन्द्रो जजल्प अनल्पधीः-मन्निन् ! तदैव किं नेयं पत्री दर्शिता, येन तेभ्यो विशिष्टां कृपां कुर्मस्तदैव । त्वया खधनार्पणाङ्गीकारेणैव वयं तत उत्थापिताः । प्रापितो दण्डोऽस्मभ्यं किल, तेन हेमाष्टादशलक्षाणि कोशादाकृष्यार्थिभ्यो देहि । अष्टादशहेमलक्षास्तु कृपाप्रसादपदे लक्षणसेनाय, अष्टौ हेमलक्षाः कुमारदेवाय प्रेषय । तथैव कृतं विद्याधरेण । प्रविष्टौ काशी तौ। 20 स्फीतं राज्यं भुङ्कः । षड्विंशतिहेमलक्षेषु तत्र गतेषु लक्षणसेनेन कुमारदेवः पृष्टः-किमिदम् । कुमारः स्मितपूर्वकमाचष्ट-त्वां विरोध्य का सुखी तिष्ठेत् । ततोऽरिणा दण्डस्तेऽर्पितः । पिप्रिये पृथ्वीपतिः, मुमुदे प्रजा, ववृते महोत्सवः । एवं मत्रिणः कालज्ञाः सुगूढाशयाः लोक-भूपयो।' कार्य कुयुरिति ॥ ॥ इति लक्षणसेन-कुमारदेवप्रबन्धः समाप्तः ॥२०॥ onor २१. अथ मदनवर्मप्रबन्धः । ६१०७) चौलुक्यवंश्यो मूलराज-चामुण्डराज-दुर्लभराज-भीमान्वये कर्णदेवजन्मा मयणल्लादेविकुक्षिभूख्दशो रुद्र इति विदितबिरुदः श्रीजयसिंहदेवनामा महीपतिरभूत्। स अणहिल्लपत्तनान्निर्गत्यामितैः सैन्यैर्मालवदेशराजधानी धारां द्वादशभिर्वर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशःपटहकुञ्जरेण लौहीमर्गलामन्वभञ्जत्। साऽद्यापि देवपत्तने श्रीसोमनाथाग्रे दृश्यते। यशःप80 टहो मृत्वा व्यन्तरोऽभूत्। जयसिंहो मध्ये परपुरं प्रविष्टो नरवर्माणं मालवेन्द्रं जीवग्राहमग्रहीत् । दण्डान्तर्गतः पाठो नास्ति P पुस्तके। 1 P माह। 2 A तेन । 3 A मुमुदुः प्रजाः। 4 A नास्ति पदमेतत् । 5A मध्ये पुरं । एतद्दण्डान्तर्गता पंक्तिः पतिता P पुस्तके । 25 Jain Education International www.jainelibrary.org For Private & Personal Use Only Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176