Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 115
________________ प्रबन्धकोशे ___ एवं वचः श्रुत्वा सिद्धराजः सैन्यरक्षायां सैन्यं नियुज्य महता सैन्येन महोबकं प्रति प्रतस्थे। [क्रमेण गच्छन् ] तस्थौ तदासन्ने भूप्रदेशे कोशाष्टकेन । क्षुभितो देशः। स्थानाचलितं महोबकम् । प्रधानर्मदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृत एत्योचे-खामिन् ! सिद्धराजो गौर्जर उपनगरमागतोऽस्ति, स कथं पश्चान्निवर्तनीयः? । मदनवर्मणा स्मित्वा भणितम्-सिद्धराजः१; 5 सोऽयं धारायां द्वादश वर्षाणि विग्रहाय अस्थात् । स कबाडी राजा वाच्यो भवद्भिः-यदि नः पुरं भुवं च जिघृक्षसि, तदा युद्धं करिष्यामः । अथार्थेन तृप्यसि तदाऽर्थं गृहाणेति । ततो यद्याचते स वराकस्तद्देयं भवद्भिः। न वयं धने दत्ते त्रुट्यामः। सोऽपि जीवतु चिरम्, यो वित्तार्थ कृच्छ्राणि कर्माणि कुर्वाणोऽस्ति । राज्ञो वचोऽनुगृहीत्वा मत्रिणः पुरमगुः । तावता सिद्धे शेन कथापितम्-दण्डं दत्त । मत्रिभी राजवाक्यं दूतमुखेन भाणितम्-यदि अर्थमीहसे तदाऽर्थ 10 लाहि, भूमिं चेत्तर्हि युध्यामहे वयम् । मदनवर्मदेवाय ज्ञापितमत्र भवदागमनम् । तेन अस्मत्प्रभुणा उक्तम्-कवाडी राजाऽर्थेन तर्पणीयः सः। सिद्धराजस्तल्लीलया विस्मितः षण्णवर्ति कोटीः कनकस्यायाचीत् । दत्तास्ताः प्रधानैः सद्यः। देशं सुखं तस्थौ । तथापि पश्चान्न याति । तदा प्रधानै णितम्-राजन् ! अर्थो लब्धस्त्वया; कथमथ न प्रतिगच्छसि। सिद्धेशेन भाणि तम् -मत्रिपुरुहूता"! तं लीलानिधिं भवत्प्रभुं दिदृक्षे"। तेऽप्येत्य मदनवर्माणमभणन्-अर्थेन 15 तोषितः स क्लेशी राजा; परं भणति राजेन्द्रं द्रष्टमीहे । ततो मदनवर्मणा निगदितम्-तर्हि एतु सः। ततः सैन्यं तथास्थमेव मुत्तवा मितसैन्यस्तत्रोद्याने आगतः सिद्धराजः", यत्र महाप्राकारस्थे सौधे मदनवर्माऽस्ति । प्राकाराबहिर्योधलक्षास्तिष्ठन्ति । प्रतोली यावदागत्य मध्येऽचीकथद् द्वाःस्थैः- आगम्यतामस्माभिः ? । महोबकप्रभुणा भाणितम्-जनचतुष्केण सहागच्छत । आगतो मध्ये सिद्धराजः । यावत्पश्यति काञ्चनतोरणानि सप्तप्रवेशद्वाराणि । अग्रे ददर्श 20 रजतमहारजतमयीर्वापीः । नानादेशवेश"भाषाविचक्षणाः शशाङ्कमुखीविशालनितम्बस्थलास्तारुण्यपुण्यावयवाः स्त्रीः। पणव-वेणु-वीणा-मृदङ्गादिकलासक्तं परिजनजनम् । स्फीतानि गीतानि शुश्राव । नन्दनोद्यानाधिकमुद्यानम् , हिमगृहाणि, हंससारसादीन खगान् , उपकरणानि हैमानि, कदलीदलकोमलानि वसनानि, जनितानङ्गरागान् उत्तुङ्गान् पुष्पकरण्डांश्चैक्षत । एवं पश्यन् पश्यन् , पुरः पुरो गच्छन् , साक्षादिव मदनं मधुरे वयसि वर्तमानं मितमुक्ताफलप्रायभूषणं 25 सर्वाङ्गलक्षणं काञ्चनप्रभं मधुरखरं तामरसाक्षं तुङ्गघोणं उपचितगात्रं मदनवर्माणमपश्यत् । मदनवर्माऽप्यभ्येत्याश्लिष्य" हेमासनं दत्त्वा तमभाणीत्-सिद्धेन्द्र ! पुण्यमद्यास्माकं येन त्वमतिथिः सम्पन्नोऽसि । सिद्धराजः प्राह-राजन् ! आवर्जनावचनमिदं मिथ्या । यत्तु त्वन्मत्रिणामग्रे कबाडी इत्युक्तं तत्सत्यम् । मदनवर्मा जहास। सिद्धेश ! केन वो विज्ञप्तमिदम् ? । सिद्धेशः प्राह-तैरेव मन्त्रिभिस्तावकैः । कोऽभिप्रायो मनिन्दाभणने देवस्य ?। मदनवर्मा आह"-देव! 80 कलिरयम्, अल्पं जीवितम् , मिता राज्यश्रीः, तुच्छं बलम्, तत्रापि पुण्यैः स्फीतं राज्यं ___ 1P सिद्धराजो महता सैन्येन। 2P पुस्तक एवेदं दृश्यते। 3 P यद्धारायां। 4 P तर्हि। 5 P तृप्यति । 6 P कृच्छ्रकर्माणि । 7 P परचक्रमगुः। एषा पंक्तिः पतिता P पुस्तके। 8 ABD आदर्श न दृश्यते वाक्यमिदम् । 9A सिद्धसेनेन भणितं । 10 P मन्त्रिपुरः। 11 P दर्शयथ। 12 P नास्ति 'ततः'। 13 A नास्ति । 14 P आगतं । 15 A नास्ति 'अने। 16 P नास्ति 'महारजत'। 17 P 'वेश' नास्ति । 18 P तुङ्गाघ्राणं। 19 P .आश्लिक्षे। 20 A अवदत् । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176