________________
प्रबन्धकोशे ___ एवं वचः श्रुत्वा सिद्धराजः सैन्यरक्षायां सैन्यं नियुज्य महता सैन्येन महोबकं प्रति प्रतस्थे। [क्रमेण गच्छन् ] तस्थौ तदासन्ने भूप्रदेशे कोशाष्टकेन । क्षुभितो देशः। स्थानाचलितं महोबकम् । प्रधानर्मदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृत एत्योचे-खामिन् ! सिद्धराजो गौर्जर उपनगरमागतोऽस्ति, स कथं पश्चान्निवर्तनीयः? । मदनवर्मणा स्मित्वा भणितम्-सिद्धराजः१; 5 सोऽयं धारायां द्वादश वर्षाणि विग्रहाय अस्थात् । स कबाडी राजा वाच्यो भवद्भिः-यदि नः पुरं भुवं च जिघृक्षसि, तदा युद्धं करिष्यामः । अथार्थेन तृप्यसि तदाऽर्थं गृहाणेति । ततो यद्याचते स वराकस्तद्देयं भवद्भिः। न वयं धने दत्ते त्रुट्यामः। सोऽपि जीवतु चिरम्, यो वित्तार्थ कृच्छ्राणि कर्माणि कुर्वाणोऽस्ति । राज्ञो वचोऽनुगृहीत्वा मत्रिणः पुरमगुः । तावता सिद्धे
शेन कथापितम्-दण्डं दत्त । मत्रिभी राजवाक्यं दूतमुखेन भाणितम्-यदि अर्थमीहसे तदाऽर्थ 10 लाहि, भूमिं चेत्तर्हि युध्यामहे वयम् । मदनवर्मदेवाय ज्ञापितमत्र भवदागमनम् । तेन अस्मत्प्रभुणा उक्तम्-कवाडी राजाऽर्थेन तर्पणीयः सः। सिद्धराजस्तल्लीलया विस्मितः षण्णवर्ति कोटीः कनकस्यायाचीत् । दत्तास्ताः प्रधानैः सद्यः। देशं सुखं तस्थौ । तथापि पश्चान्न याति । तदा प्रधानै णितम्-राजन् ! अर्थो लब्धस्त्वया; कथमथ न प्रतिगच्छसि। सिद्धेशेन भाणि
तम् -मत्रिपुरुहूता"! तं लीलानिधिं भवत्प्रभुं दिदृक्षे"। तेऽप्येत्य मदनवर्माणमभणन्-अर्थेन 15 तोषितः स क्लेशी राजा; परं भणति राजेन्द्रं द्रष्टमीहे । ततो मदनवर्मणा निगदितम्-तर्हि एतु
सः। ततः सैन्यं तथास्थमेव मुत्तवा मितसैन्यस्तत्रोद्याने आगतः सिद्धराजः", यत्र महाप्राकारस्थे सौधे मदनवर्माऽस्ति । प्राकाराबहिर्योधलक्षास्तिष्ठन्ति । प्रतोली यावदागत्य मध्येऽचीकथद् द्वाःस्थैः- आगम्यतामस्माभिः ? । महोबकप्रभुणा भाणितम्-जनचतुष्केण सहागच्छत ।
आगतो मध्ये सिद्धराजः । यावत्पश्यति काञ्चनतोरणानि सप्तप्रवेशद्वाराणि । अग्रे ददर्श 20 रजतमहारजतमयीर्वापीः । नानादेशवेश"भाषाविचक्षणाः शशाङ्कमुखीविशालनितम्बस्थलास्तारुण्यपुण्यावयवाः स्त्रीः। पणव-वेणु-वीणा-मृदङ्गादिकलासक्तं परिजनजनम् । स्फीतानि गीतानि शुश्राव । नन्दनोद्यानाधिकमुद्यानम् , हिमगृहाणि, हंससारसादीन खगान् , उपकरणानि हैमानि, कदलीदलकोमलानि वसनानि, जनितानङ्गरागान् उत्तुङ्गान् पुष्पकरण्डांश्चैक्षत । एवं पश्यन्
पश्यन् , पुरः पुरो गच्छन् , साक्षादिव मदनं मधुरे वयसि वर्तमानं मितमुक्ताफलप्रायभूषणं 25 सर्वाङ्गलक्षणं काञ्चनप्रभं मधुरखरं तामरसाक्षं तुङ्गघोणं उपचितगात्रं मदनवर्माणमपश्यत् ।
मदनवर्माऽप्यभ्येत्याश्लिष्य" हेमासनं दत्त्वा तमभाणीत्-सिद्धेन्द्र ! पुण्यमद्यास्माकं येन त्वमतिथिः सम्पन्नोऽसि । सिद्धराजः प्राह-राजन् ! आवर्जनावचनमिदं मिथ्या । यत्तु त्वन्मत्रिणामग्रे कबाडी इत्युक्तं तत्सत्यम् । मदनवर्मा जहास। सिद्धेश ! केन वो विज्ञप्तमिदम् ? । सिद्धेशः प्राह-तैरेव मन्त्रिभिस्तावकैः । कोऽभिप्रायो मनिन्दाभणने देवस्य ?। मदनवर्मा आह"-देव! 80 कलिरयम्, अल्पं जीवितम् , मिता राज्यश्रीः, तुच्छं बलम्, तत्रापि पुण्यैः स्फीतं राज्यं
___ 1P सिद्धराजो महता सैन्येन। 2P पुस्तक एवेदं दृश्यते। 3 P यद्धारायां। 4 P तर्हि। 5 P तृप्यति । 6 P कृच्छ्रकर्माणि । 7 P परचक्रमगुः। एषा पंक्तिः पतिता P पुस्तके। 8 ABD आदर्श न दृश्यते वाक्यमिदम् । 9A सिद्धसेनेन भणितं । 10 P मन्त्रिपुरः। 11 P दर्शयथ। 12 P नास्ति 'ततः'। 13 A नास्ति । 14 P आगतं । 15 A नास्ति 'अने। 16 P नास्ति 'महारजत'। 17 P 'वेश' नास्ति । 18 P तुङ्गाघ्राणं। 19 P .आश्लिक्षे। 20 A अवदत् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org