________________
मदनवर्मप्रबन्धः ।
९१
द्वादशवर्षाणि जयसिंहस्य खड्गो निष्प्रत्याकारोऽस्थात्, नरवर्मचर्मघटितमेव प्रत्याकारं करोमीति प्रतिज्ञावशात् । अत एव हस्त्यारूढं नरवर्माण भूमौ पातयामास । वितस्तिमात्रं चम्महिसत्कमुदतीतरत् । अत्रान्तरे प्रधानैर्विज्ञप्तम् - राजन् ! राजाऽवध्य एवेति नीतिवचः । तस्मान्मोक्तुमयम् । ततो मुक्तः सः । मुक्त्वा काष्ठपञ्जरे क्षिप्तः । नरवर्मचर्माऽन्यचर्मभ्यां सिद्धराजेन निजकृपाणे प्रत्याकारः कारितः । ततः कवीश्वरैर्विविधं स्तूयते सः
२२०. एकधारापतिस्तेऽद्य' द्विधारेणासिना जितः । किं चित्रं यदसौ जेतुं शतधारमपि क्षमः ॥ १ ॥ २२१. *क्षुण्णाः क्षोणिभृतामनेन कटका भग्नाऽस्य धारा ततः, कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः । आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्तायमेधिष्यते ॥ २ ॥
(१०८) ततो दक्षिणापथे महाराष्ट्र - तिलङ्ग कर्णाट-पाण्ड्यादिराष्ट्राण्यसाधयत् । अनन्तं धनं सङ्घटितम् । ततो गुर्जरधरां प्रति व्याघुटत् । यावद्देशसीमसन्धौ सैन्य निवेशं कृत्वा स्थितस्तावत् 10 सायम्, एकदा मह सभायामुपविष्टोऽस्ति प्रत्यक्ष इव सुरपरिवृढः । तावत्कश्चिद्वैदेशिको भट्ट एत्याशीर्वादं भणित्वा सभां दृष्ट्वाऽवददिदं यथा - अहो ! परमारवंशधूमकेतोः श्रीसिद्धराजस्य सभा मदनवर्मण इव मनोविस्मयजननी ! । तदाकर्ण्य सिद्धेन्द्रस्तमेव भहं पुर उपवेश्य पप्रच्छभट्ट ! कोऽसौ मदनवर्मा ?, क नगरे राज्यं करोति ? । भट्टः प्राह - देव ! पूर्वस्यां महोबकं नाम पत्तनं स्फारम् । तत्र मदनवर्मा नाम पृथ्वीपालः प्राज्ञस्त्यागी भोगी धर्मी नयी नल इव, पुरू - 15 रवा इव, वत्सराज इव, पुनरवतीर्णः पृथिव्याम् । तं राजानं तच पुरं यः खलु नित्यं पश्यति सोऽपि वर्णयितुं न पारयति । केवलं पश्यन्नन्तर्मनसं मूक इव स्वादं तद्गुणं जानाति । अस्माकं वचसि प्रायो लोकस्य विश्वासो नास्ति वावदूकत्वात् । परं प्रेषय कञ्चित्परमाप्तं निजं मन्त्रिणं ज्ञमू, येन स तामृद्धिं दृष्ट्वाऽत्रागत्य देवपादेभ्यो निवेदयति । एवं भाट्टीं वाचमवधार्य सिद्धराजो मन्त्रिणमेकं कतिपयजनयुतं द्रष्टुं तत्र तेनैव भट्टेन सह प्राहैषीत् । गतौ तौ भट्ट -मत्रिणी 20 महोबक पत्तनम् । दर्शितं पत्तनं भट्टेन । मन्त्रिणा दृष्ट्वा निर्विलम्बमुपराजमेत्य यथास्थितमभाणीत् - अवधारय खामिन् ! गतस्तत्राहम्, दर्शितं भट्टेन तत्पत्तनम् । 'तदा वसन्तमासोत्सवस्तत्र प्रवर्त्तते । गीयन्ते वसन्तान्दोलकादिरा गैर्गीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः । मकरध्वजलक्षभ्रान्तिमुत्पादयन्तो विलसन्ति युवानः । क्रियन्ते प्रतिरथ्यं छण्टनानि यक्षकर्द्दमैः । प्रासादे प्रासादे सङ्गीतकानि । देवे देवे महापूजा । भोजनवाराः साराः प्रतिसदनम् । राजकीयसत्राकारे 25 तु दालिकराव स्रावणानि मुत्कलानि न मुच्यन्ते किन्तु गर्त्तायां नियन्त्र्यन्ते, तदा सघण्टो हस्ती निमज्जति । राजाश्ववाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय । कर्पूरैर्धूलिपर्वोदयः । रात्रौ विपणीन् वणिजो न संवृणन्ति; उद्घाटान् विमुञ्चन्ति । प्रातरागत्योपविशन्ति । एवं नीतिः । व्यवसायोऽप्याचारमात्रेणैव [*तत्र देशे लोहखानिवत्सुवर्णरूप्यखानीर्वहन्ति तेन सर्वः कोऽपि ] सिद्धार्थत्वात् । राजा तु कीदृगप्यास्ते, मया स न दृष्टः । इदं तु श्रुतम् - स नारीकुञ्जरः सभायां 30 कदापि नोपविशति । केवलं हसितललितानि तनोति । प्रत्यक्ष इन्द्रः ।
1 नास्ति P 'मुक्त्वा' । लभ्यते । 4 P पुरुषोत्तम । 'तु' नास्ति । 8P नेति ।
Jain Education International
2 A तेन । * एतत्पद्यं नास्ति P पुस्तके 3P पुस्तके सर्वत्र 'भट्ट' शब्दस्थाने 'भद्र' शब्दो 5 AB प्राप्तस्तदा । 6 A विमुञ्चन्ते । * कोष्ठकगतः पाठः P पुस्तके प्रक्षिप्तमाय एव । 7 P
5
For Private & Personal Use Only
www.jainelibrary.org