________________
प्रबन्धकोशे - इतश्च विद्याधरो जयन्तचन्द्रान्तिकं गत्वा विज्ञप्तवान्-राजेन्द्र ! अद्य देवस्यात्रागतस्य दिनाष्टादशकं गतम् । कुमारदेवेन स्वयमेत्य ममाष्टादश हेमलक्षाणि प्रवेशितानि । अतोऽभयं देहि । प्रसीद, स्वस्थानं गच्छ। काश्यामपि मुक्तायां निर्वाहो नास्ति, दुर्ग्रहं च दुर्गम् । इति श्रुत्वा काशीन्द्रः सद्यो रात्रावेव चलितः। दशक्रोशी गत्वा स्थितः। खनगर्यभिमुखीभिः पटकु5 टीभिः । लक्षणावतीलोको विस्मितो हृष्टश्च । लक्षणसेनेन कुमारदेवः पृष्टः-किमिति गतो जयन्तचन्द्रः ? । मत्रिणोक्तम्-देव! त्वां युद्धोद्यतं श्रुत्वा काशीन्द्रः सुभीतः प्राणत्राणार्थं गतः। अन्यैव तव पिण्डशक्तिः।
२१८. गतिरन्या गजेन्द्रस्य, गतिरन्या खरोष्ट्रयोः । गतिरन्यैव सिंहस्य लीलादलितदन्तिनः ॥ ६॥
२१९. कः सिंहस्य चपेटपाटितमहामातङ्गकुम्भस्थल, स्थूलास्थिस्थपुटीभवत्परिसरां लीलागुहां गाहते । 10
कः काकोदरभर्तुरुद्धतविषज्वालावलीढस्फुरत् ,-फूत्कारावलिघोरमास्यकुहरं साडम्बरश्चुम्बति ॥७॥ अथ चापल्याड्डौकते कश्चित् तयोः तथापि क्षेमः कुतः। अतः स्वकीयमन्तुक्षमणोपायोऽयं तस्य । काश्यधिपोऽपि काश्यासन्नं गतः सन् विद्याधरमादिशत्-लक्षणावतीशदण्डधनं चतुर्दिग्मिलितेभ्योऽर्थिभ्यो देहि । येन यशांसि प्रैधन्ते । विद्याधरोऽपि खामिनं निगदति स्म'-देव! कुमार
देवेन मह्यं रत्नमेकं दण्डपदे दत्तमस्ति । तेन सद्यः कथं हेम निष्पद्यते । राजोचे-तर्हि रत्नं दर्शय। 15 अथ तेन पत्रीगतः श्लोकोऽदर्शि, कुमारदेवागमनवृत्तान्तश्च प्रोक्तः। विद्याधरमुखाच तदवधार्य
जयन्तचन्द्रो जजल्प अनल्पधीः-मन्निन् ! तदैव किं नेयं पत्री दर्शिता, येन तेभ्यो विशिष्टां कृपां कुर्मस्तदैव । त्वया खधनार्पणाङ्गीकारेणैव वयं तत उत्थापिताः । प्रापितो दण्डोऽस्मभ्यं किल, तेन हेमाष्टादशलक्षाणि कोशादाकृष्यार्थिभ्यो देहि । अष्टादशहेमलक्षास्तु कृपाप्रसादपदे
लक्षणसेनाय, अष्टौ हेमलक्षाः कुमारदेवाय प्रेषय । तथैव कृतं विद्याधरेण । प्रविष्टौ काशी तौ। 20 स्फीतं राज्यं भुङ्कः । षड्विंशतिहेमलक्षेषु तत्र गतेषु लक्षणसेनेन कुमारदेवः पृष्टः-किमिदम् ।
कुमारः स्मितपूर्वकमाचष्ट-त्वां विरोध्य का सुखी तिष्ठेत् । ततोऽरिणा दण्डस्तेऽर्पितः । पिप्रिये पृथ्वीपतिः, मुमुदे प्रजा, ववृते महोत्सवः । एवं मत्रिणः कालज्ञाः सुगूढाशयाः लोक-भूपयो।' कार्य कुयुरिति ॥ ॥ इति लक्षणसेन-कुमारदेवप्रबन्धः समाप्तः ॥२०॥
onor
२१. अथ मदनवर्मप्रबन्धः । ६१०७) चौलुक्यवंश्यो मूलराज-चामुण्डराज-दुर्लभराज-भीमान्वये कर्णदेवजन्मा मयणल्लादेविकुक्षिभूख्दशो रुद्र इति विदितबिरुदः श्रीजयसिंहदेवनामा महीपतिरभूत्। स अणहिल्लपत्तनान्निर्गत्यामितैः सैन्यैर्मालवदेशराजधानी धारां द्वादशभिर्वर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशःपटहकुञ्जरेण लौहीमर्गलामन्वभञ्जत्। साऽद्यापि देवपत्तने श्रीसोमनाथाग्रे दृश्यते। यशःप80 टहो मृत्वा व्यन्तरोऽभूत्। जयसिंहो मध्ये परपुरं प्रविष्टो नरवर्माणं मालवेन्द्रं जीवग्राहमग्रहीत् ।
दण्डान्तर्गतः पाठो नास्ति P पुस्तके। 1 P माह। 2 A तेन । 3 A मुमुदुः प्रजाः। 4 A नास्ति पदमेतत् । 5A मध्ये पुरं । एतद्दण्डान्तर्गता पंक्तिः पतिता P पुस्तके ।
25
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International
For Private & Personal Use Only