________________
८९
15
लक्षणसेन-कुमारदेवप्रबन्धः। लक्षणावतीं प्राप्तः। दुर्गान्नातिदूरासन्ने भूभागे आवासान् दापयामास । लक्षणसेनस्तु द्वाराणि पिधाय पूर्मध्ये एव तस्थौ । 'क्षुभिता पुरी। सङ्कीर्णत्वमापन्नमनपाथोघृततैलवसनताम्बूलदलीदलादिवस्तूनाम् । स्थाने स्थाने वार्ता आर्ताः प्रवर्त्तन्ते-काशीपतिस्तु मुत्कलं परदेशं ग्रसते । सार्था एहिरेयाहिरां कुर्वन्ति । सुभिक्षमक्षामम् । नव्यानि कूपादीनि खातानि । विचरन्ति खैरं सैनिकाः । वर्द्धन्ते व्यवसायर्द्धयः । लुट्यन्ते ग्रामाः। द्वयोर्नुपयोरूर्ध्वमुखैरधोमुखैः शरैयुद्धानि। 5 गतानि दिनान्यष्टादश । तस्मिन् दिने सायं लक्षणसेनेन कुमारदेवो मन्त्री न्यगादि-मनिन् ! इदमस्माभिरनुचितमाचरितम् । यदयं रिपुर्देशं प्रविशन्नेव न प्रतिस्खलितः। अधुना दुर्गरोधे लोको दुःखी, मानग्लानिनः। तस्मात्यातर्योद्धव्यम् । दण्डं न ददामि । आह्वय सामन्तामात्यादीन् । कुमारदेवः प्राह-देव ! युक्तमेवेदम् ।
२१३. मृगेन्द्रं वा मृगारिं वा द्वयं व्याहरतां जनः । तस्य द्वयमपि व्रीडा क्रीडादलितदन्तिनः ।। १॥ 10 त्वयि धृतायुधे वज्रायुधोऽपि कातर एव । तत्कालं मिलिताः प्रधानयोद्धाः । उक्तो युद्धाभिप्रायः। प्रीतास्ते पीतामृता इव । उक्त' च
२१४. *मित्रस्नेहभरैर्दिग्धो रूपितो रणरेणुभिः । खड्गधाराजलैः स्नातो धन्यस्यात्मा विशुद्ध्यति ॥ २॥ उत्तम्भिता नेत्र वैजयन्त्यः। निष्पन्ना वीरकरम्बकाः। सम्पन्नानि पत्यादि मुत्कलापनानि । एवं सति कुमारदेवो राजान्तिकाद् गृहं गत्वा मन्त्रयते स्म
२१५. अस्माकं प्रभुयुद्धार्थी जयन्तचन्द्रस्तु बली । अस्थाने बलमारम्भो निदानं क्षयसम्पदः ॥ ३॥ तस्मात् किं कर्त्तव्यम् ? । आः! ज्ञातम्-जयन्तचन्द्रमन्त्री विद्याधरोऽनुसरणीयः । स हि प्रतिपन्नशूरः सकृपो निष्पापो दानी। इति विमृश्य पत्रीमेकां स्खलिखितां सहादाय प्राकारानगरस्रोतोहारेणैवैकाकी निर्गत्य मध्यरात्रे बहिःसैन्ये मन्त्रिगृहद्वारेऽस्थात् । तत्र द्वाःस्थैर्मध्ये मन्त्रिणं विद्याधरमात्मानमायातमजिज्ञपत्। सद्य आहूतस्तेन । आसितः खसमीपे, पृष्टश्च-के भवन्तः? 120 मत्रिणोक्तम्-अहं लक्षणसेनामात्यः कुमारदेवस्त्वां द्रष्टुमायासिषम् । किश्चिद्वक्तव्यमस्ति । तत्तु वक्तुं न शक्यते । पत्री तु लिखिता वक्ष्यति । इत्युत्तवा विद्याधरहस्ते तामार्पिपत् । तत्र श्लोको दृष्टः__ २१६. उपकारसमर्थस्य तिष्ठन् कार्यातुरः पुरः । मूर्त्या यामार्त्तिमाचष्टे न तां कृपणया गिरा ॥ ४ ॥
अस्य श्लोकस्यार्थं चिरं परिभाव्य विद्याधरोऽचिन्तयत्-अयं महीयान् मदन्तिकमागतः। 25 जयन्तचन्द्रापसारणमीहते । दण्डं च न दित्सते । मय्येव भारमारोपयति । तस्मानिस्तार्योऽसौ व्यसनसागरात्।
२१७. स एव पुरुषो लोके स एव श्लाघ्यतामिह । निर्भयं सर्वभूतानि यस्मिन् विश्रम्य शेरते ॥ ५॥ इति ध्यात्वा कुमारदेवं जगाद-मा भैः। दण्डं मा दाः। प्रातरत्रास्मत्सैन्यं न स्थास्यत्येव, गच्छ । इत्युक्त्वा कुमारदेवं सत्कृत्य व्यस्राक्षीत् । गतः स्वखामिलक्षणसेनसविधम्"। 30
1A क्षुध्नाति। 2 P ताम्बूलादि। P०याहिरे। 4 P खनितानि। 5 P व्यवसायाद् ऋद्धयः। 6 ABD नास्ति 'मन्त्री'। 7P नास्ति; C ऊचुश्च । * नोपलभ्यत इदं पद्यं P पुस्तके। 8 P तत्र वैजयन्त्यः। 9P पल्या मुल्कला० । 10P किं। 11A वक्ष्यते। 12P पुस्तके 'गतः स स्वस्थाने' इत्येव ।
१२ प्र० को
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org