________________
८८
प्रबन्धकोशे तक्षको बभाषे-देव! स एव वसुदत्तिविवाहाहः। कुलेन शीलेन विद्यया वृत्तेन पराक्रमेण रूपेण च किं वय॑ते सः। ___२१०. *अमुमकृत यदङ्गनां न वेधाः, स खलु यशखितपस्विनां प्रभावः ।
त्रिजगति कथमन्यथा कथापि, क्षततपसां तपसा पदं लभेत ॥४॥ 5 विद्या-कन्या-लक्ष्म्यो हि कुस्थाने निवेशिता निवेशयितारं शपन्ति । नामलदेवीमतं 'कनीमतं च लात्वा तक्षकेणैव वत्सराजमाजूहवत् । प्रवेशमहमचीकरत् । विवाहः प्रारब्धः। प्रथमायां दक्षिणायां सवत्सा गौः कामधेनुर्लब्धा । द्वितीयस्यां विशिष्टा नागवल्ली । तृतीयस्यां सोपधाना खट्वा सतूलीका । चतुर्थ्यां रत्नोद्योतो दीपः। एवं रत्नचतुष्केण सत्कृत्य सजायं जामातरं कौशाम्बी पुरीं प्रति प्रेषयत् । गतः स्वपुरं । तत्र ऋद्धं राज्यं भुनक्ति । 10 २११. *सुधाधौतं धाम व्ययभरसहश्वार्थनिवहः, सकामा वामाक्षी सुहृदपि निवेद्यात्महृदयः ।
गुणानामन्वेष्टा प्रभुरपि च शास्त्रव्यसनिता, पुराऽऽचीर्णस्यैतत् फलमलघु तीवस्य तपसः ॥५॥ २१२. यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं, सदार्यैः संवासः श्रुतमुपशमैकश्रमफलम् ।
मनो मन्दस्पन्दं बहिरिति चिरस्थापि विरसन् , न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ६॥ क्रमेण स एव वासवदत्तां चण्डप्रद्योतपुत्रीं गुणक्रीतां पर्यणैषीत् । डिाहलदेशाधिपपुत्री 15 पद्मावतीं च । पञ्चालदेशाधिपेनाकान्तं कौशाम्बीराज्यं मन्त्र क्षात्राभ्यां पुनरग्रहीत्।
६१०५) इयं च कथा जैनानां न सम्मता, देवजातीय गैः सह मानवानां विवाहासम्भवतः। विनोदिसभाऽर्हेति नागमतादुद्धृत्यात्रोक्ता।
॥इति उदयनप्रबन्धः समाप्तः ॥१९॥
२०. अथ लक्षणसेनस्य-मन्त्रिणः कुमारदेवस्य च प्रबन्धः। 20 ६१०६) पूर्वस्यां लक्षणावती पूः। तत्र लक्षणसेनो नाम प्रतापी न्यायी नृपः । तस्य द्वितीयमिव जीवितं प्रज्ञाविक्रमभक्तिसारो मन्त्री कुमारदेवः। विपुलं राज्यम् , अपारं सैन्यम् । ।
अत्रान्तरे वाराणस्यां गोविन्दचन्द्राख्यनृपपुत्रो जयन्तचन्द्रो राजा। तस्य विद्याधरो मन्त्री। महेच्छानां, अन्नदातृणां, सत्यवादिनां च प्रथमः।
एकदा जयन्तचन्द्रसभायां वार्ता इयमासीत्-यल्लक्षणावतीदुर्ग दुर्ग्रहम् , राजा महाचमूस25 मूहसम्पन्नः। तां वार्तामवधार्य काशीपतिः प्रतिज्ञा सभासमक्षमग्रहीत्-इतश्चलित्वाऽस्माभिर्ल
क्षणावतीदुर्ग ग्रहीतव्यम् । अथ न गृह्णामि तदा यावन्ति दिनानि दुर्गतटे तिष्ठामि, तावन्ति हेमलक्षाणि दण्डे गृह्णामि । अन्यथा न निवर्ते । इति सन्धां निर्माय प्रयाणढक्कामदापयत् । मिलितः समकालं राजलोकः। जाता गजमयीव सृष्टिः, भूपालमालामयीव भूमिः, अश्वमयमिव
जगत् । निर्गतं सैन्यं बहिः। अखण्डितैः प्रयाणैर्भअन् परबलानि, शोषयन् सरांसि, पङ्कयन् 30 नदीः, समीकुर्वन् विषमाणि, चूर्णयन् शिखराणि, लेखयन् शासनानि, जीवयन् साधुलोकान् ,
* एतचिह्वाङ्कितं पद्यद्वयं नोपलभ्यते P पुस्तके। 1P नास्ति। 2 A नास्ति 'पुरी प्रति'। 3 P गुणकीर्ति। । दण्डान्तर्गतः पाठः P पुस्तके नास्ति। 4 P बलान् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org