________________
वत्सराजोदयनप्रबन्धः। [मनोजन्मनः महाव्याधेः परमरसायनमेतत् । अस्याः रूपसम्पत् जिहाभिः कोटिभिः ताभिवर्णयितुमशक्या*।] २०७. अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु' कान्तिप्रदः, शृङ्गारैकरसः स्वयं 'नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो, निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥१॥ २०८. यत्पश्यन्ति झगित्यपाङ्गसरणिद्रोणीजुषा चक्षुषा, गच्छन्ति क्रमलालितोभयभुजं यन्नाम वामभुवः।
भाषन्ते च यदुक्तिभिः सचकितं वैदग्ध्यमुद्रात्मभि,-स्तद्देवस्य रसायनं रसनिधेर्मन्ये मनोजन्मनः ॥२॥ तं दृष्ट्वा सा पलायिष्ट । नृपोऽप्यन्वगाद् द्रुतं द्रुतम् । क्षणार्द्धन सर्वाः सख्योऽदृश्याः समपत्सत । सापि पातालविवरप्राये गर्त एकस्मिन् प्रविष्टा । राज्ञापि ज्ञातम्-कामरूपिणी गमिष्यत्येवेति । तावत्करे धृत्वा तस्या वेणीदण्डो यमुनाजलप्रवाहप्रायः कृपाणिकया छिन्नः। गता सा मृगशावलोचना। वेणी करेऽस्थात् । तां वेणी पश्यंस्तां चमत्कृतचकोरचलाचलाक्षीं स मुहु-10 मुहुरस्मार्षीत् । २०९. निन्दीवरिणी मुखाम्बुरुहिनी भ्रूवल्लिकल्लोलिनी, बाहुद्वन्द्वमृणालिनी यदि पुनर्वापी भवेत् सा प्रिया ।
तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल,-ज्वालाज्वालमुचस्त्यजेयमसमाः प्राणच्छिदो वेदनाः ॥३॥ -इत्यादि । ततो हतप्रारम्भ उबाष्पः सखेदः पू:परिसरमेत्य अमात्यानाहूयावादीत्-मया एवं एवं बालिकायाः कस्याश्चिद्वेणी छिन्ना। सा तु श्वभ्रमूलमगात् । अतो मम राज्येन न कार्यम् । 15 इमामेव वेणी राज्यं कारयत । तेऽपि तथेति प्रतिपद्य पूर्वहिर्मण्डपे सोत्सवं वेणी राज्यं कारयन्ति रामपादुकावत्।
इतश्च सा वसुदत्तिका खिन्ना गत्वा खसौधेऽखाप्सीत् । तस्याः सख्यस्तत्कबरी छिन्नामीक्षित्वा नामलदेवीमाकार्यादीद्वशत् । जागरितां पुत्रीं नामलदेवी-वत्से! किमेतत् तवापि परिभवपदमित्यप्राक्षीत् । तनयापि यथास्थितं मात्रे आख्यत् । सापि नागपतये खपतये । क्रुद्धः 20 सद्योऽसौ तक्षकमाकार्य कथामुक्त्वा आदिक्षत्, यथा-गच्छ सराष्ट्रमुदयनं भस्मीकुरु । सोऽपि तदादेशादचालीत् । कौशाम्बी प्रापत् । तत्परिसरे उत्सवान् दृष्ट्वा नररूपः कश्चित्पप्रच्छ-किमेतदुत्सवसाम्राज्यम् ? । तत्रत्येन जनेनोक्तम्-एवं एवं राज्ञा दिव्यकन्यावेणी छिन्ना । उत्पन्नानुतापेन राज्यं तदायत्तं कृतम् । अतो वेणी राज्ञीह । राज्ञाऽत्रैव, एकदेशे तपस्तप्यते। तक्षकेणोत्सवो दृष्टो । मध्ये भ्रमता राजाऽप्यालोकितः । कुशस्रस्तरगः पद्मासनी जपमालापाणिः तपःक्षाम:25 जितप्राणायामः मौनी । पृष्ठश्च तक्षकेण नृरूपेण-कस्त्वम् ?, किमर्थ तपश्चरसि । तेनापि दीर्घमुष्णं च निःश्वस्य गदितम्-भो पुरुषविप्र ! किं पृच्छसि मां मन्दभाग्यम् ?। दृष्टा मयैका पुण्यवती मृगहक । तामनुसर्पता मया पातकिना यान्त्यास्तस्याः कवरी कृपाणिकया निजपुण्यदशया सह कृत्ता । सा मनीषितं स्थानं ससर्प । अहं तु उदयनो राजा राज्यं तत्सात्कृत्वा खयं तपः कुर्वाणोऽस्मि । एवं श्रुत्वा क्षणं स्थित्वा, उपद्रवमकृत्वा, पातालं यात्वा नागेन्द्रमाललाप निष्पाप-30 प्रज्ञः-देव ! दृष्टो मया उदयनः, वेणीपुरश्च तथा राज्योत्सवः । स पुण्यात्मा मृदुमना बाढं परितप्यते । विनयी मानमर्हति । तच्छ्रवणाद् अतुषदाशीविषेन्द्रः। तर्हि किं युक्तमिति तक्षकमूचे।
* कोष्ठकगतेयं पंक्तिः P पुस्तक एव लभ्यते। 1P तु। 2 P स्वयं नु तनो। 3 A समपश्यत; BE समपत्स्यंत । + P पुस्तके नोपलभ्यते पद्यमिदम् ।
Jain Education Intemational
tior Intermational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org