________________
रत्नश्रावकप्रबन्धः ।
लभ्यते, तदपि चेन् न भुज्यते, रुल्यते विदेशेषु, तत्कथं न 'कवाडिकत्वम् । सिद्धेशेनोक्तम्सत्यम्, एतादृशः कर्बाटिक एवाहम् । 'त्वमेव सत्यं धन्यो यस्येत्थं शर्माणि । त्वम जीवितं सफलम् । चिरं राज्यं भुङ्क्ष्व । इत्युक्त्वा तस्थौ । मदनवर्मणोत्थाय निजं परिजनकोश - देवतावसरादि सर्व दर्शितम् । प्रेमावृधत् । विंशत्युत्तरं पात्रशतं स्वाङ्गसेवकं सिद्धराजाय व्यतरत्' । तेन प्रीतो' जयसिंहदेवः सैन्यं गृहीत्वा धरां जित्वा पत्तनं अणहिल्लपुरं प्रविष्टः । 5 तेषां १२० मध्यादर्द्ध पथि मृतं मार्द्दवात्, शेषं पत्तने प्रविष्टम् । पत्तनप्रवेशोत्सवे श्रीपालक वेः सिद्धराजोपश्लोकन काव्यम् -
२२२. †हे विश्वत्रयसूत्रधार ! भगवन् ! कोऽयं प्रमादस्तव, न्यस्यैकत्र निवेश यस्य परतस्तान्येव वस्तूनि यत् । पाणिः पश्य स एष यः किल बलेवाक् सैव पार्थस्य या, चारित्रं च तदत्र यद् रघुपते चौलुक्यचन्द्रे नृपे ॥३॥
पुन:
10
२२३. मानं मुञ्च सरस्वति ! त्रिपथगे ! सौभाग्यभङ्गीं त्यज, रे कालिन्दि ! तवाफला कुटिलता रेवे ! रयस्त्यज्यताम् । श्रीसिद्धेश कृपाणपाटितरिपुस्कन्धोच्छलच्छोणित, स्रोतोजात नदीनवीनवनितार क्तोऽम्बुधिर्वर्तते ॥ ४ ॥ एवमन्यैरपि 'कविभिर्भणितानि ॥
॥ इति मदनवर्मप्रबन्धः ॥ २१ ॥
00000
९३
२२. अथ रत्नश्रावकप्रबन्धः ।
I
६१०९) उत्तरस्यां दिशि काश्मीरेषु नवहुलं नाम महर्द्धिमत्पत्तनम् । तत्र विक्रमाक्रान्तभूचक्रो नवहंसो नाम भूपालः । तस्य राज्ञी रूपश्रीहसितरम्भा विजयदेवीनाम्नी । तत्रैव पत्तने पूर्णचन्द्रः श्रेष्ठिराजोऽभूत् । तन्नन्दनास्त्रयः - रत्नः, मदनः, पूर्णसिंहश्च । त्रयोऽपि जैनाः श्रीमन्तः प्रियंवदाः सात्त्विकाः प्राज्ञाः राजपूज्याः प्रारम्भसिद्धाः । रत्नस्य पत्नी पउमिणिरिति ख्याता । पुत्रस्तु कोमल इति नाम बालो वर्त्तते । तदा श्रीनेमिनाथनिर्वाणादृष्टसहस्त्री वर्षाणां व्यतीता - 20 स्ति । अस्मिन्नवसरेऽतिशयज्ञानी पट्टमहादेवेनामा नवहुल्लपत्तनपरिसरे समवासार्षीत् । देवैर्भूमिः शोधिता । उदकैश्छण्टिता । कनकपद्मं मण्डितम् । तत्र पट्टमहादेव उपविष्टः । मध्ये नगरस्य तदागमनं ज्ञापितमुद्यानपालेन" लोकाय नृपाय च । प्रथममागतो नृपः सान्तःपुरपरिच्छदः, सरत्न-मदन- पूर्णसिंहः । अपरोऽपि लोकस्तथैव । श्रेष्ठिनी पउमिणिरपि सपुत्रा " तत्रागता । एवं सभायां देव-दानव-मानव-विद्याधरादिवृन्द सुन्दरायां" गुरुर्देशनां प्रारेभे
२२४. यास्यामीति जिनालये स लभते ध्यायंश्चतुर्थं फलं, षष्ठं चोत्थितुमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो" द्वादशं मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ १ ॥
1 A कटिकत्वं । 2 P त्वमेवायं । 3 AD वितेनिरे । श्रीपालकविना सिद्धराजो वर्णितः । † P पुस्तके नास्तिपद्यमिदम् । 9P भागर्वा ; A ० रम्भागर्वारम्भा । 10 B विजयदेवी । तत्र सपुत्रा । 14 P • मानव सुन्दरायां । 15 D तदा ।
Jain Education Intemational
4 A ततो । 5 P घरामध्ये भूत्वा ; A धरांचित्वा । 6P 7 P विहाय नास्त्यन्यत्र 'कविभिः ' । 8P काश्मीरेषु देशेषु । 11 BE • महादेवि नामा | 12 AE • पालैः । 13 ABD
For Private & Personal Use Only
15
25
www.jainelibrary.org