________________
९४
प्रबन्धकोशे
२२५. सयं पमजणे पुन्नं सहस्सं च विलेवणे । सयसाहस्सिया माला अणंतं गीअवाइअं ॥२॥ २२६. पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो' जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३॥ इदं सामान्यतः सर्वजिनसेवाफलम् । शत्रुञ्जये तु सविशेषं तदेव, असंख्यानां यतीनां सिद्धत्वेन सिद्धक्षेत्रत्वात् । 5 २२७. धूवे पक्खोवासो मासक्खवणं च कप्पूरधूवम्मि । कत्तिअमासक्खवणं साहूपडिलाभिए लहइ ॥ ४ ॥
इति वचनात् । शत्रुञ्जयादपि रैवतसेवा महाफला। रैवतो हि शत्रुञ्जयैकदेशत्वात् शत्रुञ्जय एव, श्रीनेमिकल्याणकत्रयभावादतिशायितमप्रभावश्च । नेमिनाथस्य माहात्म्यं मिथ्यादृशोऽपि प्रभासपुराणे एवं प्रवदन्तः श्रूयन्ते
२२८. पद्मासनसमासीनः श्याममूर्तिदिगम्बरः । नेमिनाथः शिवेत्याख्यो नाम चक्रेऽस्य वामनः ॥ ५ ॥ 10 वामनावतारे हि वामनेन रैवते नेमिनाथाऽग्रे बलिबन्धसामर्थ्यार्थं तपस्तेपे इति तत्र कथा।
२२९. कलिकाले महाघोरे सर्वकल्मषनाशनः । दर्शनात्स्पर्शनादेवि ! कोटियज्ञफलप्रदः ॥ ६॥ ईश्वरोक्तमिदं प्रभासपुराण एवं । तस्माद्येन नेमिनाथो वन्दितो रैवतगिरिमारुह्य तेन किल परमपदं श्रद्धालुना गृहीतमेवेति तत्त्वम् । इत्येतां देशनां श्रुत्वा रत्नः श्रावक उत्थाय गुरोरने प्रतिज्ञा चक्रे-मया ससङ्घन यदा रैवतगिरौं नेमिः प्रणतो भविष्यति, तदा द्वितीया विकृति15 ग्रंहीतव्या। तदैव एकभक्तं 'मोक्तव्यम् । तावन्तं च कालं यावद् ध्रुवं भूमिशय्या-ब्रह्मचर्ये धायें।
वरं प्राणांस्त्यजामि परं नेमिनाथं नमाम्येवेति । ततः स्वगृहमायातो राजा लोकश्च । रत्नश्रावकोपरोधात् पट्टमहादेवस्तत्रास्थात् । रत्नस्तूपायनं दत्त्वा राजानमूचे-राजन् ! मां नेमियात्रायै रैवतगमनाय विसृज। राज्ञोक्तम्-वैरं धर्मः समाचर्यताम् । अस्माकं मतमेतत् । यद्विलोक्यते तद् गृहाण । रत्नो जहर्ष । सङ्घममेलयत् । गज-रथ-तुरग-पदातिरूपं महत्तमं सैन्यं नृपालेभे । यस्य 20 यन्यूनं तस्य तत्पूरयामास । अमारि-चैत्यपरिपाटी-शान्तिक-भोजनवारा-प्रतिलाभना-बन्दिमोक्ष-लोकसत्कारांश्चकार । गणितं मुहर्त्तम् । चलितो देवालयः। राजा महोत्सवकरः परमः सखा। करभशतर्धनानि चेलुः। श्रेष्ठिनी पउमिणिपपत्नी विजयादेवीं बालवयस्यां भेटयितुं जग्मुषी, पादयोस्तस्याः पेतुषी, आपप्रच्छे-स्वामिनि ! यात्रायै यान्त्यस्मि। भवद्वियोगदुःखं दिनकतिपयानि धर्मलोभतः सोदुमीहेऽहम् ।राज्ञी अपि "साश्रमूचे-सखि ! तत्र गता धनकृशतया" 25 कार्पण्यं कृत्वा मां लज्जापात्रं मा कृथाः । स्वैरं ददीथाः । अमूनि धनानि" भूषणानि वसनानि च "गृहाण । इत्युक्त्वा भूरि ददे । पदानि कतिपयानि सम्प्रेषयत् । निवृत्ता राज्ञी । श्रेष्ठिनी सङ्घमध्यमध्यास्त । श्रीपट्टमहादेवो गुरुः सह व्यवहरत् । तेन सनाथः सङ्घः । नित्यं धनस्य खैरं व्ययः । कोटीश्वराः साधर्मिकाः परःसहस्राः। चन्द्रहासवणाङ्का भटाः शतसहस्राः । तेन"क
भीः। एवं पथि तीर्थानि वन्दमानो रत्नः सङ्घपतिर्वान्धवद्वययुतः सपुत्रः सपत्नीकस्तावद् ययौ, 30यावद रोला-नोलाख्यौ द्वौ पर्वतौ स्तः। तत्र प्राप्तः। इह किल शत्रनयमध्ये भत्वा रैवतं गच्छतां
1 A कोटिगुणो । 2 A.BE नास्ति 'एव' । 3D देव। 4 P एवम् । 5 PBD रैवते। 6A नेमिनाथः । 7P भोक्तव्यम्। 8 A वयं। 9 A नेमिनाथयात्राय; B यात्रायै। 10 P शास्तु। 11 P धनकृच्छ्रतया। 12 ABE धनाम्यतिधनानि । 13 P यथेच्छं। 14 AB नास्ति 'तेन' ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org