________________
नागार्जुनप्रबन्धः । पश्यति। अष्टापदादितीर्थानि नमस्कृत्य स्वस्थानमुपागतानां तेषां पादौ प्रक्षाल्य, सप्तोत्तरशतमहौषधीनामावादेन वर्णगन्धादिभिर्नामानि निश्चित्य, गुरूपदेशं विनापि पादलेपं कृत्वा कुर्कुटपोत इवोत्पतन्नवटतटे निपतितः। व्रणजर्जरिताङ्गो गुरुभिः पृष्टः-किमेतदिति ? । तेन यथास्थिते प्रोक्ते तस्य कौशल्येन चमत्कृतचित्ता आचार्यास्तस्य शिरसि पद्महस्तं दत्त्वा भणन्ति-पष्टिकतन्दुलोदकेन तान्यौषधानि वर्तयित्वा पादप्रलेपं कृत्वा गगने गरुड इव स्वैरं व्रजेः। ततस्तां सिद्धिं 5 प्राप्य परितुष्टोऽसौ ननर्त्त । पुनरपि कदाचिद् गुरुमुखादाकर्णयति, यथा-रससिद्धिं विना दानेच्छासिद्धिर्न भवति ।ततो रसं परिकर्मयितुं प्रवृत्तः । खेदन-मर्दन-जारण-मारणानि चक्रे । रसस्तु स्थैर्य न बध्नाति । ततस्तु गुरून् पप्रच्छ-कथं रसः स्थैर्यमाबधाति ? । गुरवः प्राहुर्यथा-दुष्टदैवतनिर्दलनसमर्थायां श्रीपार्श्वनाथस्य दृशि साध्यमानः, सर्वलक्षणोपलक्षितया महासत्या योषिता च मृद्यमानो रसः स्थिरीभूय कोटिवेधी भवति । तच्छ्रुत्वा स पार्श्वनाथप्रतिमां'समहिमामन्वेष-10 यितुमारेभे । [ परं तादृशीं न कापि पश्यति ।]
६१०२) इतश्च नागार्जुनेन खपिता वासुकिात्वा प्रत्यक्षीकृतः, पृष्टश्च-श्रीपार्श्वनाथस्य दिव्यकलानुभावां प्रतिमां कथय। तेनावाचि-द्वारवत्यांसमुद्रविजयदशाहेण श्रीनेमिनाथमुखान्महातिशयसम्पन्ना ज्ञात्वाश्रीपार्श्वस्य प्रतिमा प्रासादे स्थापयित्वा पूजिता।द्वारवत्या दाहानन्तरं समुद्रेण प्लाविता सा प्रतिमा तथैव समुद्रमध्ये स्थिता । कालेन कान्तीवासिनो धनपतिनामकस्य सांया-15 त्रिकस्य यानपात्रं देवताऽतिशयात् स्खलितम् । अत्र जिनबिम्बं तिष्ठतीत्यदृष्टवाचा निश्चित्य नाविकांस्तत्र निक्षिप्य सप्तभिरामसूत्रतन्तुभिर्वद्धोधृता प्रतिमा । निजनगर्यां नीत्वा प्रासादे स्थापिता । चिन्तितातिरिक्तलाभप्रहृष्टेन पूज्यते प्रतिदिनम् । ततः सर्वातिशायि तद्विम्ब ज्ञात्वा नागार्जुनेन रससिद्धिनिमित्तमपहृत्य सेडीनद्यास्तटे स्थापितम् । तस्य पुरतो रससाधनार्थ सातवाहनस्य राज्ञी चन्द्रलेखाभिधां महासतीं देवीं सिद्धव्यन्तरसान्निध्येनानाय्य प्रतिनिशं रसम-20 ईनं कारयति । एवं तत्र भूयो भूयो गतागते तया बान्धव इति प्रतिपेदेऽसौ । सा तेषामौषधानां मईनकारणं पृच्छति । स च कोटीवेधस्य रसस्य वृत्तान्तं सत्यं कथयति । अन्यदा द्वयोर्निजपुत्रयोस्तया निवेदितं यथा-सेडीनदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति । तौ रसलुब्धौ निजराज्यं मुक्त्वा नागार्जुनान्तिकमागतौ । कैतवेन तं रसं जिघृक्ष प्रच्छन्नवेषौ यत्र नागार्जुनो जेमति तस्य गृहस्य परिसरे भ्रमतः। रन्धनीमालपतः-त्वं नागार्जुनाय रसवती लवणबहुलां कुर्याः 125 यदा तां रसवती क्षारां कथयति, तदाऽस्मभ्यं वदेः । साऽप्योमिति प्रतिशुश्राव । अथ सा तज्ज्ञानार्थं तदर्थ सलवणां रसवतीं साधयति । षण्मास्यामतिकान्तायां रसवती तेन क्षारेति दूषिता । रन्धन्या च राजपुत्रयोरग्रे गदितम् । अद्य क्षारत्वं जज्ञे नागार्जुनेन । ताभ्यामपि तस्य रससिद्धिनिश्चिक्ये । अथ तौ तस्य वधोपायं ध्यायतः पृच्छतश्च लोकं तज्ज्ञम् । पृच्छद्भ्यां ज्ञातं यथा-वासुकिना एवास्य दर्भाङ्करान्मृत्युः कथितोऽस्ति । नागार्जुनेन सिद्धस्य शुद्धस्य रसस्य 30 कुतपो द्वौ भृतौ ढङ्कपर्वतस्य गुहायां क्षिप्तौ । पृष्टचराभ्यां ताभ्यां ज्ञातौ । मुक्त्वा वलमानो नागार्जुनस्ताभ्यां संमुखस्थो दर्भाङ्कुरेण जघ्ने । मृतः सद्यः।
1P पादलेपं। 2 ABE प्रतिष्टोऽसौ। 3 BP रसं। 4 ABE नास्ति 'समहिमां'। * P पुस्तक एवं एप कोष्ठकगतः पाठो दृश्यते। 5 AB श्रीपार्श्वस्य । 6P स्थापिताऽस्ति। 7A चिन्तातिः। 8 P नागार्जुगो। 9 P अतिष्ठिपत् । 10 'अस्मभ्यं नास्ति ABI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal Use Only