________________
प्रबन्धकोशे दुपबलि नीतः। पृष्टो बलिना-रे विक्रम ! रत्नमूल्यं प्रष्टुमागतोऽसि ? । विक्रमादित्यो वदति इत्यमेवेदम् । दर्शितं रत्नम् । बलिर्वभाण-ईदृशानि अष्टाशीतिं सहस्राणि रत्नानि नित्यं युधिष्ठिरो निर्मूल्यान्यदत्त पात्रेभ्यः। तेषां मध्यादिदमरुलत् २ विप्रेण लब्धम् । प्रायो भूमि गतानि सर्वाणि रत्नानि, कालस्य बहुलत्वात् । ततो रे! राजा युधिष्ठिर एव, त्वं कः ?। 5 विक्रमेणोक्तम्-देव ! सत्यम् । एतत्प्रष्टुमिच्छामि-ईदृक्संपत्तियुधिष्ठिरस्य कुतः ? । बलिराहदिगजयधनानि तस्मै भ्रातृभिश्चतुर्भिराहृतानि । पूर्व 'चमत्कृतनामा काप्पटिको दारिद्यमग्नो रुद्रमारराध । तेन तुष्टेन तस्मै खवाञ्छया कैलासासन्ना आमूलचूलं हेमरत्नमयी पूनिष्पाद्य दत्ता। सा सुखेन तेन भुक्ता । तस्मिन्मृते रुद्रेण पांशुवृष्ट्या सा पिदधे । यदा तु युधिष्ठिरबान्धवः सहदेव उत्तरां दिशं साधयितुमुपतस्थे, तदा रुद्रस्तां पुरं खैर्गणैरुद्घाट्य सर्वां त?10 मादिविभूतिं युधिष्ठिरगृह्मविष्टामचीकरत् । ततो युधिष्ठिरस्य दानेच्छासिद्धिः । ततः स
राजा। मण्डलीकस्तु रावण इति व्यक्तम् । लोके तादृगबलवत्त्वं विद्यादर्पयोगात । कुमारस्त कार्तिकेयो वक्तुं युक्तः । सप्ताहवयाः सन्, यस्तारकं जघान । लक्ष्मणोऽपि कुमारः, यो मेघनादं ममई । तथा धवलचन्द्रोऽपि पीहुलिपुत्रः कुमारः, यो विषेण जगद्धतु क्षमः । विषममपि विषममृततां नेतुं समर्थः। अङ्गदोऽपि कुमारः सारः, य एवं वक्तुं समर्थः15 २०४. सन्धौ वा विग्रहे वापि मयि दूते दशाननी । अक्षता वा क्षता वापि क्षितिपीठे लुठिष्यति ॥१॥
इत्यादि ख्यातिश्च । वण्ठश्च सत्यो हनूमान् , यः स्वामिनं रामं प्रियावियोगज्वरजर्जराङ्गं सन्धीरयामास मध्येसभम् । २०५. देवाज्ञापय किं करोमि किमहं लङ्कामिहैवानये, जम्बूद्वीपमितो नये किमथवा वारांनिधि शोषये ।
__ हेलोत्पाटितविन्ध्यपर्वतहिमवर्णत्रिकूटाचल,-क्षेपक्षोभविवर्द्धमानसलिलं बध्नामि वा वारिधिम् ॥२॥ 20 इत्यादि चमत्कारिखामिकार्यसिद्धिसारतया वण्ठो हनूमान् एव । तलारक्षस्तु भवसि । गच्छ,
मूल्यं नास्ति रत्नस्येति द्विजाय वदेः । तदाकर्ण्य विक्रमः स्वपुरीं ययौ । रत्नं दत्त्वा, बल्युक्तमुक्त्वा स्वग्रामाय विद्म विसृष्टवान् । चिरं राज्यं चक्रे ।
॥ इति विक्रमादित्यप्रबन्धः ॥ १७॥
१८. अथ नागार्जुनप्रबन्धः। 25 ६१०१) ढण्कपर्वते सुराष्ट्राभूषणशत्रुञ्जयगिरिशिखरैकदेशरूपे राजपुत्ररणसिंहस्य भोपलनाम्नीं
पुत्री रूपलावण्यसम्पूर्णां पश्यतो जातानुरागस्य तां सेवमानस्य वासुकिनागस्य पुत्रो नागार्जुननामा जातः। स च जनकेन पुत्रस्नेहमोहितेन सर्वासां महौषधीनां फलानि मूलानि दलानि च भोजितः। तत्प्रभावेन स महासिद्धिभिरलङ्कृतः, सिद्धपुरुष इति विख्यातः । पृथ्वीं विचरन् पृथ्वीस्थानपत्तने सातवाहनस्य राज्ञः कलागुरुर्जातः । स च गगनगामि नीविद्याध्ययनार्थ पालित्तानकपुरे 30 श्रीपादलिप्ताचार्यान् सेवते । अन्यदा भोजनावसरे पादप्रलेपबलेन तान् गगने उत्पतितान्
1 A पूर्व च मरुत्वन्तु। 2 BE 'सुखेन' नास्ति । 3 P भोपाल। 4 'तो' नास्ति P। 5A गामिविद्या० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org