________________
विक्रमादित्यप्रबन्धः ।
८३
खानयितानि । लातं तद्वेम । राज्ञा विप्रः पृष्टः- विप्र' ! कथमीदृशं सम्यग् जानासि ? । विप्रेण गदितम् - पूर्वज पारम्पर्योपदेशात् ज्ञातं तुभ्यमुक्तं च । परं गर्वं मा धाः । स रामः स एव । तस्य ह्याज्ञया जल-ज्वलनौ स्तम्भेते स्म । पतन्त्यो भित्तयो दत्तायां तदाज्ञायां न पेतुः । लूता द्विचत्वारिंशत्, अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतम्, विड्वराणि दोषाश्च सर्वे व्यनेशन । या तु तद्देवी सीता, ये त्रयस्तद्धातरः, ये तद्भृत्या हनूमत्सुग्रीवादयस्तेषां महिमानं 5 वर्षशतेनापि वाक्पतिरपि वक्तुं न शक्तः । इति श्रुत्वा विक्रमेण गर्यो मुक्तः । बिरुदं निषिद्धं 'अभिनवरामः' इति । पुनरुज्जयिनीमागात् । यथाशक्ति लोकमुदधरत् । तस्य हि अग्निवेतालपुरुषकसिद्धिभ्यां सुवर्णसिद्ध्या चोपकारैश्वर्य तदा निरुपममासीत् । ततो विक्रमो धन्य एव । ततोsधिकास्तु परे 'कोटाकोटयोऽभूवन् । इत्याकर्ण्य विक्रमसेनो विवेकी अभूत् ॥
(१००) *जैन तत्त्वबाह्य मुग्धजन चित्रमात्रफलं विक्रमादित्यप्रबन्धमेकं ब्रूमः ।
उज्जयिन्यां राज्यं शासति विक्रमादित्ये, आसन्ने ग्रामे विप्रेणैकेन हलं खेडयता दिव्यं ज्योतिमनमेकं भूमौ पतितं लेभे । जगृहे । तन्मौल्यप्रश्नार्थमुज्जयिन्यां रत्नपरीक्षिनैगमपार्श्वमागमत् । दर्शितं तद्रत्नम् । विस्मितास्ते ऊचु:-न वयमस्य रत्नस्य मौल्यकरणे क्षमाः, ईदृशस्य पूर्वमदृष्टस्वात्; अलीकमौल्यकरणे तीव्रदोषाच्च । केवलं देवः श्रीविक्रमादित्यो यदि वेत्ति मूल्यमस्य । स हि रेखाप्राप्तो रत्नमूल्यज्ञाने । विप्र उपविक्रमं जगाम । रत्नमदीदृशत् । विक्रमेण पृष्टम् - क 15 लब्धमिदम् ? । विप्रेणोक्तम्- देव ! हलं खेटयता स्वक्षेत्रभूमौ लब्धम् । राज्ञा भणितम् तर्हि दिनद्वयेन वक्ष्यामः । रत्नमस्मद्धस्त एवास्तु | विप्र ! मा भैः, न वयं परधनबद्धाभिलाषाः । धीरां दत्त्वा वसौधमध्य एव स्थापितः सः ।
अथ रात्रौ विक्रमेण विमृष्टम् - रत्नपरीक्षकाः संसारे बलिमनु । स च पाताले । तत्रापि गन्तव्यम् । 'कुतूहली लसो न भवेत् । ततोऽग्निवेतालमारुह्याशु पातालं गतः । बलिभुवनद्वारेऽस्थात् । 20 तत्र नारायणो द्वास्थः । प्रणतः । नारायणेन पृष्टम् - किं कार्यं तेऽत्रागमने ? । विक्रमेणोक्तम् - उपबलगतो विज्ञपय, राजा कार्यगौरवादायातोऽस्ति । यद्यादेशः स्यात्तदा दर्शनं लभते । ततः कृष्णेनोक्तं बलये- राजा समागतोऽस्ति द्वारे । बलिना निवेदितम् - राजा चेद्युधिष्ठिरः ?, पृच्छेः 'कृष्ण ! । गतः कृष्णः । पप्रच्छ- किं युधिष्ठिरोऽसि ? । विक्रमेणोक्तम् - राजानं युधिष्ठिरं मन्यते सः, तस्मादन्यद्वक्तव्यम् । गच्छ कृष्ण' !, मण्डलीक आगतोऽस्तीति वद । गतः सः । विज्ञप्तं तत् 1 25 बलिरूचे - मण्डलीकः किं रावण: ? । पुनरागतः कृष्णः । मण्डलीकश्चेत् किं रावण इति पृष्टोऽसि । विक्रमेणा भाणि - तर्हि गत्वा वद, कुमार आगतोऽस्ति । गत्वा तथोक्तम् । बलिराह- किं कार्तिकेयः, किं वा लक्ष्मणः, किं वा पातालवासी नागपुत्रो धवलचन्द्रः, किंवा वालिपुत्रोऽङ्गदो रामदूत इति ख्यातः १ । पुनरेहिरेयाहिरा कृष्णस्य । पुनर्विक्रमेणा भाणि - वदेस्त्वम्, वण्ठ आयातोऽस्ति । पुनर्गतः । बलिर्भणति - वण्ठश्चेत्किं हनूमान् ? । पुनः कृष्णो वागरितः । भणितं बलिवचः । 30 पुनर्विक्रमः प्रोचे - गत्वा वद, तलारक्ष आगतोऽस्ति । उक्तं तेन तत्तथा । ततो बलिर्जगाद - किं विक्रमकः ? | कृष्णेनैत्य पृष्टम् - किं विक्रमादित्यः ? । विक्रमादित्येन ओमित्युक्तम् । बल्यादेशा
1 AB अखानयिषत । 2P नास्ति 'विप्र' । 3P स्वाज्ञया । 4 P परःकोटयो । * P पुस्तके नोपलभ्यतेऽयं प्रबन्धः । 5 E नास्ति 'लेभे । GB गतः कृष्णः उक्तं । 7 A 'कृष्ण' नास्ति ।
Jain Education International
For Private & Personal Use Only
10
,
www.jainelibrary.org