________________
८२
प्रबन्धकोशे विप्र एको वृद्धोऽस्ति । स काश्चित् श्रीरामस्य वार्ताः पारम्पर्यायाताः सम्यग् 'विवेद । आहूय पृच्छयते। राज्ञा आहूतः स सगौरवम् । आयातः। पूजितः पृष्टश्च-वृद्ध ! वद काश्चिद्रामकथां नव्याम् । विप्रो बभाण-पृथ्वीनाथ ! यदि कोशलायामागच्छसि, तदा रामस्य कमपि प्रबन्धं साक्षाद्दर्शयामि । इह स्थितस्तु वक्तुं न पारयामि । तदा राज्ञा राज्यभारो मन्त्रिषु न्यस्तः। स्वयं 5 महाचमूसहितो वृद्धद्विजयुक्त अयोध्योपशल्यां ययौ । स्कन्धावारे तस्थौ । तदानीं स एव सर्वदिगीश इत्यभीः । विप्रो भाषितः क्षमापालेन-दर्शय रामदेवचरित्रम् । ततो विप्रः स्थानमेकं दर्शयित्वा भूपालमालपत्-इदं भूखण्डं खानयत । ततः खानयति क्षमापालः। खनत्सु खनकेषु उपरि हेमकलशः, ततो हैमी मण्डपिका प्रकटीबभूव । उपरितनं 'रजोऽपसारितम् । पश्चानुपूर्व्या प्रथमद्वितीयतृतीयक्षणा हैमा दृष्टा महीभुजा। चतुर्थे क्षणे नीरजी कृते विपुला उपानदेका 10 हैमसूत्रकृता ज्योतिर्जालजटालमाणिक्यखचिता दृष्टा । भूपेन' विस्मितेन गृहीत्वा हृदि शिरसि निहिता । अहो ! असामान्या रत्नजातिरियम् । ततो विप्रेण विज्ञप्तम्-देव ! चर्मकारपन्या उपानदेषा; न स्पष्टमहों तव विष्टपपतेः। विक्रमेणोक्तम्-सा चर्मकार्यपि धन्या, यस्या इंदृगुप नत्। वद केयं कथा? । ततो विप्रो ब्रूते-विश्वेश्वर! श्रीरामे राज्यं कुर्वति सति, अत्र चर्मकारसदनानि
आसन् । इदमेकस्य चर्मकारस्य सदनम् । तस्य पत्नी लाडबहुला । अतो गर्वमुद्हति; विनयं न 15 करोति । ततः सा तेन हकिता हता च। याहि रे दुःखं गृहीत्वा इत्युक्ता च। ततो रुष्टाऽस्यामेकस्यां उपानहि तटपतितायां अपरिहितायां द्वितीयस्यां तु परिहितायां निजतातस्य सदनं जगाम । गत्वा पत्युः कठोरं भाषितं पित्रे बभाण। पित्रा दिनद्वयमस्थापि," आवर्जिता च । अथोक्तावत्से ! कुलस्त्रियः पतिरेव शरणम् । तत्रैव याहि । सोचे-न यामि मानक्षयात् । द्विस्त्रिरुक्तिप्रत्युक्तयो भणिताः। पितृभ्यां भाणितापि यदा पतिगृहं न याति तदा पित्रा भाषितम्-वत्से ! 20 अहमेवं मन्ये-यदा श्रीरामः सीता-लक्ष्मणसहितः खयमागत्यानुनीय त्वां श्वशुरकुले प्रहिता,
तदा तत्र गन्त्री त्वम् । साऽप्यलीकाभिमानिनी प्रवदति-इदमित्थमेव, राम एवागते यामि तत्र नापरथा। इमं वृत्तान्तं चरत्वनियक्ताः प्रच्छन्नाः सूरा गत्वा रामं व्यजिज्ञपन-देव ! अयं वृत्तान्तश्चर्मकारपुत्र्याः। ततो देवः श्रीरामः प्रजावत्सलः प्रातः ससीतः सलक्ष्मणः सामात्यस्तचर्मकारभवनमगात् । तन्मध्यं प्रविष्टः । पूजितः कारुभिर्विस्मितैर्विज्ञप्तश्च-देव ! अयमस्मान् कीटान् 25 प्रति कियान् प्रसादः कृतः। खप्नेऽपि नेदं सम्भाव्यते-यद्देवोऽस्मानुपतिष्ठते । किं कारणमागम
नस्य ?। श्रीरामः प्राह-त्वत्पुत्र्याः श्वशुरकुले प्रेषणायायाताः स्मः। तस्या हि वराक्यास्तथाविधा "प्रतिज्ञाऽऽस्ते । ततो हृष्टस्तजनकः । अपवरकं गत्वा दुहितरमाह स्म-मुग्धिके" ! तव प्रतिज्ञा पूर्णा । श्रीरामदेव आयातः सदेवीकः । एहि, वन्दख तं जगत्पतिम् । ततस्तुष्टा रामान्तिकमा
गता । ववन्दे तम् । आलापिता प्रजातातेन-वत्से ! गच्छ श्वशुरमन्दिरम् । तया भणितम्30 आदेशः प्रमाणम् । ततो गता पतिगृहम् । रामः खस्थानमायासीत् । श्रीविक्रम! अस्या द्वितीया उपानत तत्र" पितगृहे खन्यमाने लप्स्यते। स्वामिन ! आयाहि. तत्र : राजा तत्र । खानितं तत् । लब्धा द्वितीयाऽप्युपानत् । दृष्टं हैमं गृहम् । एवमन्यान्यपि तेन विप्रेण
__ 1 A सम्यग्वेद। 2 B विप्र । 3 Pप्रथमं । 4 A राज्ञाऽपसारितं । 5 P नीरजे। 6 AB विपुले। 7AB नास्ति 'भूपेन'। 8 AB विस्मितेन च । 9P मर्हति। 10 P अतः कारणात् सा। 11 P स्थापिता। 12 P सन्धा। 13 AB पुत्रिके। 14A प्रजानाथेन। 15 'ततो नास्ति P1 16AB नास्ति 'तत्र'। 17 P तत् ।
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org
For Private & Personal Use Only